________________
१।१२२]
प्रथमः प्रत्यक्षप्रस्तावा कथं वाऽनुच्छित्तिधर्मत्वम् ? "अविनाशी वा अरे अयमात्माऽनुच्छित्तिधर्मा” [बृहदा० ४।५।१४] इत्याम्नायते ? कुतश्विदसिद्धः, तदनन्तरस्योच्छित्तौ तस्याप्युच्छित्त: । अर्थान्तरं तु कथं सौ तस्य परिणामो घटवत् पटस्य ? विभ्रमादिति चेत् ; न तर्हि तत्र परमात्मनो वैस्तुवृत्तेनोपादानत्वमिति कथं तथा तस्य सामर्थ्य तत्र ?
___ भवतु निमित्तत्वेनैव कुलालादिवत् घटादाविति चेत् ; कथमिदानीम् "आत्मनि ५ विज्ञाते सर्व विज्ञातम्" [ ] इति आत्मविज्ञानेनैव सर्वविज्ञानं प्रतिज्ञायेत ? उपपन्नं खल्वात्मनः तदुपादानत्वे तज्ज्ञानादेव प्रपञ्चस्यापि ज्ञानं तस्य तदव्यतिरेकात् न निमित्तत्वे, कुलालज्ञानादेव घटादेरपि ज्ञानप्रसङ्गात् । श्रुतिविरोधश्चैवम् , श्रुतिभिः “सर्वाणि ह वा इमानि भूतानि आकोशादेव समुत्पद्य आकाशं प्रत्यस्तम(स्तं)यन्ति' [छान्दो० १।९।१] इत्यादिभिः आत्मन्युपादानत्वस्यैव निवेदनात् । अनुपादाने "तेयां तत्र प्रलयानुपपत्तेः । कथं १० वा निरुपादानस्यं निमित्तादेवोत्पत्तिः ? अस्त्येवोपादानं प्राच्यः प्रपञ्च इति चेत् ; न तर्हि सर्गादौ तस्य तं प्रत्युपादानत्वम् अभावात् ? "सदेव सौम्य इदमग्र आसीदेकमेवाद्वितीयम्" [छान्दो० ६।२।१] इत्यात्मन एव सद्रूपस्य तदा सत्त्वश्रवणात् । अथास्त्येव तदापि तत्प्रपञ्चः 'आत्मैव एकमेव' इत्यवधारणं तु नामरूपाभ्यां व्याकृतस्य तस्याभावादिति चेत् ; किमेवं तदा तथाविधस्य "प्रधानस्यैव तदुपादानत्वन्न भवति ? तस्याऽचेतनत्वेन ईक्षावत्त्वायोगात् , २५ ईक्षावच तदुपादानं श्रूयते "स ईक्षाञ्चक्रे स प्राणमसृजत" [प्रश्नो० ६।३।४] इत्यादेराम्नायात् , न चाम्नायानारूढस्य तत्त्वम् प्रमाणाभावात् , अनुमानादेस्तद्विपयस्य "परैस्तदाभासीकरणादिति चेत् ; न ; अविद्यात्मनः "प्रपञ्चस्याप्यचेतनत्वाविशेषात् । विद्यासाहचर्यात्तस्य चेतनत्वे चितिशक्तिसाहचर्यात् प्रधानस्यापि तत्त्वमिति कथन्नेक्षावत्त्वम् , यत ईक्षापूर्व जगद्धेतुत्वं तस्यापि न भवेत् आम्नायार्थत्वच ? यतस्तत्र तत्र तनिषेधे निर्बन्धो २० भाष्यकारस्य । तन्न प्रपञ्चस्योपादानत्वेन आत्मनो निमित्तत्वम् ?
____ कुतो वा तत्र तस्योपादानत्वमन्यद्वा? शक्तेरिति चेत् ; न; कार्यस्य प्रपञ्चस्यावस्तुसत्त्वे" वस्तुतस्तद्विषयायाः शक्तरसम्भवात् । निष्पत्तये हि शक्तिः। न चाऽवस्तुसतो निष्पत्तिः । तत्कथं तदर्था शक्तिः ? साप्यवस्तुभूतैव कार्यवदिति चेत् ; कथं परमात्मनो वस्तुभूतस्यैव ? सम्बन्धादिति चेत् ; न "सोऽप्यव्यतिरेकः ; विरोधात् । तदुत्पत्तिरिति चेत् ; न ; २५ तत्रापि तादृशशक्त्यन्तरपरिकल्पनायामपरिनिष्ठानात् । प्रपश्वस्य प्रकाशनमेव निष्पादनम् ; न च
१-त्याम्नायतः कु- आ०,ब०प० ।२ प्रपञ्चरूपावाप्तिः । ३ वस्तुवृत्ते!पा-आ०, ब०,१०। ४ "आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्व विदितम्"-बृहदा० ४।५।६। ५ “आकाशशब्देनात्रात्मा प्रतिपाद्यते"-ता. वि०। ६ “समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति"-छान्दो० । ७ भूतानाम् । ८ "उपादानरहितप्रपञ्चस्य"-ता०टि। ९ सर्गादौ । १० सांख्याभितमस्य । ११ “वेदान्तिभिः"-ता०टि०।१२ "प्राच्यप्रपञ्चस्य"-ता०टि०।१३ “यतोन भवेदिति सम्बन्धः"-ता.टि.। १४ ब्रह्मसू० भा० १०५ । १५ शङ्कराचार्यस्य । १६ वस्तुत्वे आ०,०प० । १७ तादात्म्यरूपः।