________________
न्यायविनिश्चयविवरणे
[११२३ तच्छक्तिरवस्तुभूतैव, असदपि चन्द्रद्वित्वादिकं प्रकाशयतश्चक्षुरादेः वस्तुत एव शक्तेरिति चेत् ; न ; चक्षुरादौ दोषतः तच्छक्तिभावात् । न चात्मनि कश्चिदोषः, "निष्कलं निष्क्रिय शान्तं निरवद्यं निरञ्जनम्” [श्वेता० ६।१९] इति तत्र निर्दोषताया एव श्रवणात् । ततः
शक्तिवैकल्यात् अवस्तुसन्नेवासाविति कथं तदाम्नायस्य प्रामाण्यं यतस्तेन प्रत्यक्षादेर्भेदविषयस्य ५५ वाधनम् ? शक्तिमत्त्वे तु वास्तवमेतत्कार्यं तद्व्यतिभिन्नश्चाभ्युपगन्तव्यम् , अन्यथा तत्त्वानुपपत्तेः।
ततो यथा समर्थत्वादात्मा कार्याद्विभिद्यते । असमर्थात्प्रधानादेरपि तत्कार्यजन्मनि ॥११०९॥ न च तद्भेदविज्ञानमाम्नायेनोपपीड्यते । तथैव स्तम्भकुम्भादियथास्वं कार्यजन्मनि ॥१११०॥ समर्थो भिद्यते तत्रासमादन्यतः स्वयम् । नैकत्वाम्नायतो बाधा तज्ज्ञानस्यापि युज्यते ॥११११॥ न ह्यसौ ब्रह्म-तत्कार्यभेदज्ञानमपीडयन् । स्तम्भादिभेदनिर्भासबाधाय भवति प्रभुः ॥१११२॥ तस्मात् सामर्थ्यलिङ्गोत्थमनुमानमबाधितम् ।
परस्परमसङ्कीर्णं वस्तु वक्त्येव निश्चयात् ॥१११३॥
इदमेवाह 'समर्थम्' इति । यस्मात् स्वकार्ये समर्थ शक्तं स्वलक्षणम् तस्मात् असङ्कीर्णम् इति । स्वलक्षणस्य स्वरूपमाह- 'स्वगुणैरेकम्' इति । स्वग्रहणेन परगुणेरेकत्वाभावमावेदयन् "चोदितो दधि खाद" [प्र. वा० ३।१८२ ] इत्यादेरनवकाशत्वं
दर्शयति । गुणशब्देन च, तस्य सामान्यवाचित्वात् गुणपर्यययोरुभयोरपि ग्रहणम , अत २० एवाह- 'सहक्रमविवर्तिभिः' इति । सूत्रे तु पृथपर्ययोपादानस्य प्रतिपादितमेव प्रयोजनम् । कुतः पुनरेवं स्वलक्षणमिति चेत् ? आह- 'समर्थम्' इति ।
अर्थक्रियासमथं यत् स्वलक्षणमुदीरितम् । तद्रव्यपर्ययात्मैव बुद्धिमद्भिर्निबुद्ध्यते ॥१११४॥ न द्रव्यं न च पर्यायो नोभयं व्यतिभेदवत् । शक्तमर्थक्रियायां यत् तत्प्रतीसिन विद्यते ॥१११५॥ निवेदयिष्यते चैतत् यथास्थानं सविस्तरम् ।
विस्रब्धं स्थीयतां तस्मादिदानीमुच्यते परम् ॥११ १६॥ 'सहविवर्तिभिरेकम्' इत्येतदसहमानस्य मतमाशङ्कते
यदि शेषपरावृत्तेरेकज्ञानमनेकतः। इति ।
१-दि य-आ०, ब०, प० । २ एकत्वाम्नायः । ३ -यत् आ ,ब०प० । ४ प्र. वा० २।३ । ५ पर-. स्परानपेक्षम् ।