________________
भथमः प्रत्यक्षप्रस्तावः
४६७
___एकज्ञानाद्धि तदेकसिद्धिः, तच्चैकस्य नानावयवसाधारण्य(ण)स्थूलस्य ज्ञानमतीन्द्रियम् एकज्ञानम् न तस्मादेवैकस्मात् , अपि तु अनेकतः अनेकस्मात् परमाणोः। कीदृशात्? शेषपरावृत्तेः शेषाः तज्ज्ञानं प्रत्यहेतवः प्रत्येकावस्थाः परमाणवः तेभ्यः परावृत्तिः सञ्चयलक्षणा यस्मिन् तस्मादिति । तथा हि-घटादावेकज्ञानं सञ्चितानेकनिबन्धनम् एकज्ञानत्वात् दूरविरलकेशेषु तज्ज्ञानवत् । ततो न तद्बलात् अक्रमादनेकस्वभावस्यैकस्य सिद्धिरिति परस्या- ५ कूतम् । 'यदि' इति तदवद्योतनार्थम् । अत्रोत्तरमाह
अनर्थमन्यथाभासम् [ अनंशानां न राशयः ] ॥१२३॥ इति ।
'एकज्ञानम्' इत्यनुवर्तते । तत् न विद्यते अर्थः अर्थक्रियासमर्यः यस्मिंस्तत् अनर्थम् , 'नमोऽर्थात्' [ शाकटा० २।१।२२८ ] इति कजभावः, समासान्तस्यानित्यत्वात् । अथवा अर्थो न भवतीत्यनर्थः स्थूलाकारः, सोऽस्यास्तीत्यनर्थम् , अभ्रादिपु दर्शनादकार. १. प्रत्ययात् । अनर्थत्वे निमित्तम् 'अन्यथाभासम्' इति । अर्थो येन व्यवस्थितोऽनेकाऽस्थूलप्रकारेण तस्मादन्येन एकस्थूलप्रकारेण भासः परिच्छेदो यस्मिन् तद् अन्यथाभासम् । यद. न्यथाभासं तदनर्थम् यथा दूरविरलकेशेषु स्थूलैकज्ञानम् , तथा च घटादावपि तज्ज्ञानम् , तथा च कथं तस्य प्रत्यक्षत्वं भ्रान्तत्वात् १ स्थूलाकार एव तस्य तत्त्वं न नीलादाविति चेत् ; कथमेकस्यैव तत्त्वमतत्त्वश्चापि रूपम् ? अन्यथा घटादेरपि नानैकरूपत्वस्याविरोधात् न स्थूला. १५ कारेऽपि तस्य विभ्रम इति कथं तत्रापि तत्प्रत्यक्षं न भवेत् ? दूरे तदाकारस्य असत एव दर्शनान्नैवमिति चेत् ; नीळमदावपि नैवम् , तस्यापि क्वचिदसत एवोपलम्भात् । यत्र बाधोप. निपातः तत्रैव तस्यासत्त्वं न सर्वत्रेति चेत् ; न; स्थूलाकारेऽपि तुल्यत्वात् ।
___ कथं वा दूरोपलभ्यस्य तदाकारस्यासत्त्वम् ? प्रत्यासत्तौ तद्विविक्तानामेव केशानामुपलम्भादिति चेत् ; कीदृशास्ते केशाः ? स्वावयवापेक्षया स्थूला एवेति चेत् ; असन्त एव वस्तुत: २० तर्हि तेऽपीति कथं तेषां सञ्चयः? कथं वा स्थूलघनज्ञानहेतुत्वम् असतां तदयोगात् । निरंशपरमाणुस्वभावा एवेति चेत् ; न तेषां प्रत्यासत्तावप्युपलम्भ इति कथं ततस्तदाकारस्यासत्त्वं यतस्तनिदर्शनात् घटादावपि तदसत्त्वम् ?
___ भवतु स्थूलवत् नीलादावपि तस्य नानावयवसाधारणतया सविकल्पत्वेन विभ्रम एव "सर्वमालम्बने भ्रान्तम्" [ ] इति वचनात् । प्रत्यक्षत्वं तु तस्य व्यवहर्तृ. २५ प्रसिद्धादविभ्रमादिति चेत् ; न तर्हि ततो बहिनिरंशार्थसिद्धिः अतदाकारत्वात् , अन्यथा आकारवादव्याघातात् । ततः स्थूलार्थस्यैव सिद्धिश्वेत ; न तर्हि तस्ये निर्विकल्पकत्वम्, तद्विषयस्य साधारणतया सविकल्पकत्चेन तत्सामर्थ्यजन्मनि तस्मिन्नपि तत्त्वस्यैवोपपत्तेः।
१ इतिसूत्रेण विहितस्य कच प्रत्ययस्याभावः । २ "अभ्रादिभ्यः"-शाकटा० ३।३।१४२। ३ भ्रान्त. त्वम् । ४ "परमार्थतस्तु सकलमालम्बने भ्रान्तमेव ।"-प्र. वार्तिकाल. २११९६ । ५ तदाकारज्ञानस्य । ६ ज्ञानेऽपि ।