________________
४६८
न्यायविनिश्चयविवरणे
[ १।१२३
ततो यदुक्तम्- "प्रत्यक्षं कल्पनापोढमर्थसामर्थ्यादुत्पत्तेः " [
] इति तत्र अर्थो
"
यदि परमाणुः ; असिद्धो हेतुः । स्थूलश्चेत्; उक्तनीत्या विरुद्धः । ततो यदि भ्रान्तम् ; न निर्विकल्पम्, तच्चेत्; न भ्रान्तम् इति महानयं सङ्कटप्रवेशः परस्य । ततः सिद्धं प्रत्यक्षत एव सहविवर्तिभिरेकं स्वलक्षणम् । व्यावहारिकमेव तत्तथा न तात्त्विकमिति चेत ; न; ५ व्यवहारादन्यस्य तत्त्वस्याभावात् अप्रतिपत्तेः । तन्न सञ्चितपरमाणुनिबन्धनत्वं प्रत्यक्षस्य । निरस्तश्च तत्सञ्चयः सान्तरनिरन्तर चिन्तया । तदेवाह - अनंशानां न राशयः । राशिबहुत्वापेक्षया बहुवचनम् । ततो निषिद्धमेतत् अर्चस्य --
9
२०
"भागा एवावभासन्ते सन्निविष्टास्तथा तथा ।" [हेतु० टी० पृ० १०६ ] इति ; सनिवेशस्यैव अनंशेष्वभावात, स्थूलप्रतिभासस्यैव च भागप्रतिभास विरोधिनोऽनुभवात् ।
१०
,
कुतः पुनरिदमगवन्तव्यम्- 'कमविवर्तिभिरेकम्' इति ? प्रत्यक्षत इति चेत् ; न; तेन क्षणभङ्गना सन्निहितस्यैव गुणस्य ग्रहणात् न परापरसमयभाविनां तदा तस्याभावात् । तथापि ग्रहणे देशकालव्यवहितस्य सर्वस्यापि ग्रहणात् सर्वस्य सर्वदर्शित्वं प्रमाणान्तरवैयर्थ्य प्राप्नुयात् । न च तेषामग्रहणे तदेकत्वं स्वलक्षणस्य शक्यमवगन्तुम्, व्यापक. प्रतिपत्तेर्व्याप्यप्रतिपत्तिनान्तरीयकत्वादिति चेत् भवेदेवम्, यदि तस्य क्षणभङ्गः सिद्धो १५ भवेत्, न चैवम् । तथा हि- उन तस्य स्वत एव तत्सिद्धिः ; तेन पूर्वापरयोरग्रहणे तव्यावृत्तिरूपस्य तस्य दुरवबोधत्वात् व्यावृत्तिप्रतिपत्तेः व्यावर्त्यप्रतिपत्तिनान्तरीयकत्वात् । ग्रहणञ्च यद्यतत्कालेन; बहिर्विवर्तानामपि भवेत् । तत्कालेन चेत् ; " तत्कालेनैव तत्कालव्यावृत्तिरात्मनो गृह्यते" [ ] इति । नाप्यन्यतः प्रत्यक्षात् ; "अत एव, अनभ्युपगमाञ्च तद्भङ्गस्य तत्स्वभावत्वात् । पूर्वापरापरिज्ञानेऽपि भवत्येव स्वतः प्रतिपत्तिरिति चेत् ; तद्विपर्ययस्यापि किन्न तथा बहिरन्तश्च प्रतिपत्तिः तस्यापि कथञ्चित्तत्स्वभावत्वस्याविशेषात् ? क्षणिकतयैव उभयत्रापि वस्तूनां प्रतिभासनादिति चेत् ; न; एकतयापि प्रतिपत्तेर्दर्शनात् । अध्यारोपितमेवैकत्वं तत्र विकल्पेन प्रतीयते न वास्तवमिति चेत्; विकल्पेनापि कथमतदाकारेण तस्य ग्रहणम् आकारवादवैफल्यप्रसङ्गात् ? तदाकारत्वच्च न सर्वथा तद्वदवस्तुत्वापत्तेः । न चावस्तुना तत्प्रतिपत्तिः अन्यत्रापि ज्ञानवैयर्थ्यापत्तेः ।
व्याहतमेतत्
;
"अर्थस्य सामर्थ्यन समुद्भवादित्याह । तद्धि अर्थस्य सामर्थ्यनोत्पद्यमानं तद्रूपमेवानुकुर्यात् । " - प्र० वार्तिकाल० २।१९२ । २ गुणग्रह-आ०, ब०, प० । ३ " न तस्य स्वत एव तत्सिद्धिरित्यत्र न तस्य प्रत्यक्षान्तरात्तत्सिद्धिरिति वक्तव्यम् । तत्कालेनैव तत्कालव्यावृत्तिरात्मनो गृह्यत इत्यत्र आत्मशब्देन प्रथमप्रत्यक्षं ग्राह्यम्.. 'ननु तत्कालेन त्रिकालानुयायिना प्रत्यक्षान्तरेण प्रथमप्रत्येक्षस्य तत्कालव्यावृत्तिर्गृह्यत इत्यत्र व्यास्वभावात् व्याहृतमेतदित्युक्त कथं युक्तं स्यादिति न शङ्कनीयम्; प्रत्यक्षस्य यथा कालत्रयवृत्तित्वेनाक्षणिकत्वं तथा प्रकृतप्रत्यक्षस्यापि अक्षणिकत्वं सम्भवत्यविसंवादात, तथा परस्य क्षणभङ्गो न सिध्यतीत्यभिप्रायेणोक्तत्वात् । " - ता० टि० । ४ कालेन आ०, ब०, प० । ३ " तथा हीत्यादि प्रतिपादितप्रक्रियात एव ।" - ता० दि० । गस्य आ०, ब०, प० । ७ - वस्थावि-आ०, ब०, प० । ८ अक्षणिकतया ।
६ तद्भा