________________
१।१२४]
प्रथमः प्रत्यक्षप्रस्तावः 'वस्तुनैव विकल्पान्तरेण ग्रहणमिति चेत् ; न ; तत्रापि 'कथमतदाकारेण' इत्यादेर्भमणाद. परिनिष्ठानाच्च । कथञ्चित्तदाकारत्वं तु नानेकान्तविद्विषामुपपन्नम् । तदुक्तम्
___ "विरोधानोभौकात्म्यं स्याद्वादन्यायविद्विपाम्”[आप्तमी० श्लो० ३] इति ।
वस्तुतो विविक्त एव विकल्पस्तदाकारात , अविवेकस्तु विभ्रमादिति चेत् ; विवेकस्य ५ प्रतिपत्तौ कथं विभ्रमः ? निश्चयाभावादिति चेत् ; न ; प्रत्यक्षेऽपि तदापत्तेः । तथा च कथमेतत्- "प्रत्यक्षं कल्पनापोडं प्रत्यक्षेणैव सिद्ध्यति ।" [प्र. वा. २।१२३] इति , तद्विभ्रमाक्रान्तादेव तदभावप्रसिद्धरयोगात् । तत्र तदाकारस्यासन्निधानान्न विभ्रम इति चेत् ; इतरत्र कुतस्तत्सन्निधानम् ? वासनात इति चेत् ; न ; तस्याः प्रत्यक्षसमयेऽपि भावात् । सत्या अपि नै प्रबोधः तद्धेतोरभावात् पश्चात्तु प्रत्यक्षादेव सदृशापरापरविपयात् तत्प्रबोधे युक्तं १० ततस्तत्सन्निधानं तदविवेकविभ्रमश्च "विकल्प इति चेत् ; कुतस्तर्हि प्रधानादिवासनाप्रबोधः यतस्तद्विकल्पः । न चायं नास्त्येव ; बहुलमुपलम्भात् । अदृष्टबलात्तु प्रत्यक्षेऽपि स्यात् । तन्न तद्विवेकप्रतिपत्तौ तद्विभ्रमः ।
सत्यमिदम् , न हि विकल्पस्यापि स्वतस्तद्विभ्रमः, विकल्पान्तरादेव तद्भावादिति चेत् ; न 'ततोऽपि , तदविषयात ; तदयोगात् । तद्विषयत्वे च पूर्ववत्प्रसङ्गात् । तत्रापि १५ 'तदन्तरात्तत्कल्पनायाम् अनवस्थापत्तेः।
मा भूद्विकल्प एवेति चेत् ; किमिदानी कल्पनापोढग्रहणेन व्यावाभावात् ? कि वाऽभ्रान्तग्रहणेन मानसवदैन्द्रियस्यापि विभ्रमस्य तुल्यन्यायतयाऽनुपपत्तेः । ततः सति विभ्रमे तद्विवेकः तज्ज्ञानस्याऽप्रतिपन्न एव वक्तव्यः । न च तावता बोधरूपतयाऽपि तस्याऽप्रतिपत्तिरेव विभ्रमासिद्धिप्रसङ्गात् "अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यति" [ ] इति २० वचनात् । भवत्वेवमिति चेत ; सिद्धा तर्हि क्षणभङ्गस्यापि प्रत्यक्षे तद्वदप्रतिपत्तिः । एतदेवाह
तथाऽयं क्षणभङ्गो न ज्ञानांशः सम्प्रतीयते ।
अर्थाकार विवेको न विज्ञानांशो यथा कचित् ॥१२४॥ इति । तथा तेन प्रकारेण अयं परप्रसिद्धः क्षणभङ्गः न सम्प्रतीयते। कीदृशः ? ज्ञानांशः ज्ञानस्य प्रत्यक्षादेः अंशो भागः । क्व क इव ? इत्याह कचित् विकल्पादौ विभ्रमज्ञाने यथा २५ येन तदनुभवाभावप्रकारेण अर्थाकारात् स्थूलादिलक्षणात् विवेको नानात्वं न सम्प्रती. यते । कीटशः विज्ञानांश इति । तदंशत्कच तस्मात् प्रतिपन्नात् अप्रतिपन्नत्वेन कथञ्चि. भेदात् ।
प्रत्यक्षे यदि क्षणभङ्गस्य न स्वतः प्रतिपत्तिः, मा भूत् अनुमानात्तु भवत्येव । तथा हि
वस्तुन्येव-आ०, ब०, प० । २ वासनायाः । ३ न बोधः आ०, ब०, प० । ४ "ईप"ता.टि.। सप्तमीत्यर्थः । ५ ततोप्यतद्विष-आ०, ब०, ५०। ६ तदनन्तरा-आ०, ब०,५०। ७ तत्त्वसं० प. पृ० ४.१। तुलना-तत्त्वसं० श्लो० २०७४ ।