________________
४७०
म्यायविनिश्चयविवरणे
[१।१२५ यदैव हेतुः तदैव फलं यथा प्रदीपकाल एव प्रकाशः, वर्तमानसमय एव च प्रत्यक्षहेतुश्चक्षुरा. दिव्यापारः ततः प्रत्यक्षमपि तदैव न पूर्वं नापि पश्चात् तदा तन्नियम एव च तस्य क्षणभङ्ग इति चेत् ; कुतस्तत्समयनियमः तव्यापारस्य ? प्रत्यक्षस्य तत्समयनियमादिति चेत् ; न ; परस्पराश्रयात्-पूर्वेणोत्तरस्य तेन च पूर्वस्य सिद्धेः। तद्विषयात्प्रत्यक्षादिति चेत् ; ततोऽपि कस्मात्तस्य ५ तन्नियम एवावगम्यते न पूर्वापरसमयव्यापित्वमपि ? तस्यापि क्षणभङ्गादिति चेत् ; न तस्यापि स्वतः प्रतिपत्तिः पूर्ववदोषात् । अनुमानादनन्तरोक्तादिति चेत् ; न ; तत्रापि 'कुतस्तत्समयनियमः' इत्यादेरुपस्थानादनवस्थितेश्च । तन्नातोऽनुमानात् तत्प्रतिपत्तिः। नापि वस्तुत्वादिलिङ्गोत्थात् ; ततः परिणामस्यैव सिद्धेरिति निवेदनात् ।
तन्न क्षणभङ्गात प्रत्यक्षस्य ततः एकत्वस्यापरिज्ञानम्'; तद्भङ्गस्यैवासिद्धेः। कथवि. १० तद्विपर्ययस्य तु प्रतीतेः भवत्येव ततस्तत्परिज्ञानमित्यनयैव कारिकया निवेदयति-तथा
अयं लोकप्रसिद्धः क्षणभङ्गोनः कथञ्चिदक्षणिकात्मा ज्ञानांशः प्रत्यक्षादिज्ञानभागो द्रव्यापर. नामा सम्यग् अकल्पितत्वेन प्रतीयते । कथं पुनरवप्रहादिपरापरपर्यायाणां भेदे सति तदात्मनः प्रत्यक्षस्य क्षणभङ्गोनत्वमिति चेत् ? न ; भेदवदभेदेनापि प्रतीतेः । प्रतीते च पर्यनु. योगानुपपत्तेः । प्रतीतिरेव कुतस्तथेति चेत् ? स्वत एव चित्रज्ञानवत् । अस्ति हि नील. पीतादिनानाकारव्यापिनो ज्ञानस्य स्वतः प्रतिपत्तिः । एतदेवाह- 'अर्थ' इत्यादिना । अर्थान् नीलपीतादिस्वलक्षणपरमाणून आकारयन्ति अनुकुर्वन्तीत्यर्थाकाराणि, तानि च तानि विवेकोनानि च अनेन तदेकत्वसाधनं परकीयमशक्यविवेचनत्वं सूचितम् । अर्थाकारविवेकोनानि च तानि विज्ञानानि च नीलाद्यवभासरूपाणि तेषाम् अंशो व्यापकभागः
स यथा अनुभवगतत्वेन क्वचित् चित्रैकज्ञानवादिमते सम्प्रतीयते तथा प्रागुक्तोऽपि इत्येवं २० व्याख्यानार्थमेव चोभयत्रापि अंशग्रहणम , अन्यथैवमेव ब्रूयात्
तथायं क्षणभङ्गोनविज्ञानस्य प्रतीयते ।
अर्थाकारविवेकोनविज्ञानस्य यथा क्वचित् ॥१११७॥ इति ।
चित्रश्च विज्ञानमवश्याभ्युपगमनीयमेव क्षणभङ्गै कान्तवादिनोऽपि इति, अन्यथा सर्वभावनिःस्वभावतापत्तेः । निरूपितञ्चैतत्- "चित्रमेकमनिच्छद्भिः" [ पृ० २५६ । ] २५ इत्यादौ । ततः प्रत्यक्षत एव निर्व्याकुलतया बहिरन्तश्च स्वगुणपर्यायतादात्म्यस्य प्रतिपत्ते: सूक्तमुक्तम्- 'स्वगुणैरेकं सहक्रमवित्तिभिः' इति ।
एवं स्थिते परिणामस्य निर्णाकुलत्वात् तमेव वस्तुलक्षणमागमाविरोधेन कथयन् तल्लक्षणं तत्त्वार्थसूत्रेण दर्शयति
तद्भावः परिणामः [स्यात्सविकल्पस्य लक्षणम् । इति ।
-मयस्तया-आ०, ब०, ५०। २ इत्युक्त घटते इत्यन्वयः। ३ -पर्यस्तु प्रतीतेः आ०, ब०।४ प्रतीतौ च आ०, ब०, प० । ५ अन्यथैवमेवं बे-आ०, ब०, प० । ६ त० सू० ५।४१ ।