________________
१।१२५ ]
प्रथमः प्रत्यक्ष प्रस्तावः
अतश्च समानश्रुतिकत्वेन एकोच्चारणगम्यमनेकं वाक्यमुन्मज्जति - 'तैः स्वरूपादिभिः भवनम् आत्मलाभः तद्भावः स परिणामः' इत्येकम् ! अनेन च पररूपादिना भवनं प्रत्याचक्षाणः साङ्ख्यमतं प्रत्याचष्टे । सर्वभेदरूपेण आत्मानं प्रतिलभमानस्य प्रधानस्य प्रतीतौ कथं तत्प्रत्याख्यानम् ? अस्ति हि प्रधानस्य प्रतीतिरानुमानिकी । तथा हि- 'ये यदन्वितास्ते तद्धेतुका यथा मृदन्विताः शिवकादयो मृद्धेतुकाः, सुखाद्यन्विताश्च भेदा महदादयः, ५ तस्मात्तद्धेतुकाः । यश्च सुखदुःखमोहात्मकस्तदन्वयी तद्धेतुः तत्प्रधानमिति चेत् ; न ; सुखाद्यन्वयस्य भेदेष्वप्रतिभासनात् । न हि यथा शिवकादिषु मृदन्वयः तथा भेदेषु सुखाद्यन्वयः प्रतिभासते, अन्यथा प्रधानमेव प्रतिभासितं भवेत् तदन्वयस्यैव तत्त्वात् । तथा च किं तत्रानुमानेन प्रत्यक्ष प्रतिपन्ने तद्वैयर्थ्यात् मृदादिवत्, अन्यथा मृदादावपि तत्कल्पनायां निदर्शनान्तरं तत्रापि तत्कल्पनायां तदन्तरमित्यनवस्थापत्तेः; सत्यम्; न तस्य भेदेषु अन्वितस्यैवानुमानं प्रतिपनत्वात् अपि तु सँर्गप्राग्भाविनो निर्भेदस्य । तस्य चातिसूक्ष्मत्वेनानुपलब्धेर्न वैयर्थ्यमनुमा. नस्येति चेत्; माभूद्वैयर्थ्यम्, असम्भवस्तु स्यात् निदर्शनाभावात् । शिवकादिरेव निदर्शन मिति चेत्; भवत्येव निदर्शनं यदि तत्रापि मृद्रूपं नि दमेव कारणमिति प्रसिद्धम् । न चैवम्, तदप्रतिपत्तः । न हि निर्भेदस्य सामान्यस्य प्रतिपत्तिः । भेदान्वितस्य तु प्रतिपत्तौ कथं निर्भेदस्य प्रधा
६०
,
४७१
?" अग्नेः प्रतिपत्तौ तद्विपरीतस्यापि कल्पनमिति चेत्; किमिदं विपरीतत्वम् ? अनाधारत्वमिति चेत्; न; तदकल्पनात् । अनियताधारत्वमिति चेत्; न तर्हि प्रधानस्यापि निर्भेदत्वम, अनियतभेदत्वस्यैवोपप: । तन्न निर्भेदस्य प्रधानस्य हेतुत्वं यस्य सर्गप्राग्भाविनः सूक्ष्मत्वेनानुपलभ्यस्य महदादेस्तत्कार्यात् प्रतिपत्तिः । ततो न युक्तमुक्तम्
१५
"सौक्ष्म्यात्तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धेः ।
महदादि तच्च कार्य प्रकृतिविरूपं सरूपञ्च ॥" [सां० का० ८ ] इति । २० भवतु सभेदमेव सर्वदा तदिति चेत्; न तहींदमुपपन्नम् - " प्रकृतेर्महान् " [सां०का० २२ ] इति तद्भेदात् 'महान' इत्युपपत्तेः । तद्भेदस्य सतोऽपि महदुत्पत्तावनन्वयात् प्रकृतेस्तु विपर्ययादेवं वचनमिति चेत्; न तर्हि महदादेरहङ्कारादिरपि तस्यापि भेदत्वेन तदुत्पत्तावनन्वयात् इत्यसङ्गतमेतत् " महादाद्याः प्रकृतिविकृतयः सप्त " [सां० का॰ ३] इति । विकृतित्वस्यैव तत्र सम्भवान्न प्रकृतित्वस्य । "मूलप्रकृतिः” [सां० का० ३] २५ इत्यपि न बन्धुरम् ; भेदानुगतायाः प्रकृतेरपि भेदान्तरकार्यत्वस्यावश्यम्भावात् मूलत्वस्य
"
१ "सुखदुःखमोहसमन्विता हि बुद्ध्यादयोऽध्यवसायादिलक्षणाः प्रतीयन्ते । यानि च यद्रूपसमनुगतानि तानि तत्स्वभावाव्यक्तकारणकानि, यथा मृद्धेमपिण्डसमनुगता घटमुकुटादयो मृद्धेमपिण्डाव्यक्तकारणका इति कारणमस्त्यव्यक्त' भेदानामिति सिद्धम् ।" - सां० त० कौ० पृ० १०८ । सां० का० जयम० १५ । २ प्रधानत्वात् । ३ स्वर्गप्रा-आ०, ब०, प० । ४ - स्याग्निप्रति आ०, ब०, प० । ५ यथा महानसे धवखदिरादि काष्टाग्निप्रतिपत्तावपि अनुमानात्तद्विपरीतस्य तार्ष्णपार्ष्णाग्नेः कल्पनं भवति तथैवेति भावः । ६ - भेदस्यैवोपपत्तेर्न नि-भा०, ब०, प० । ""प्रकृतिसरूपं विरूपच " - सां० का० ।