________________
४७२ म्याथविनिश्चयविवरणे
[१।१२५ अविकृतिस्वस्यासम्भवात् । तन्न एकप्रधानहेतुकत्वं जगतः प्रातीतिकम् , तद्भेदस्य भिन्नोपादानतायामेव प्रतीतिभावादित्युपपन्नं स्वरूपादिमिरेव तस्य भवनम् ।।
____ तथा, 'तस्यैकस्य भावः तद्भावः स परिणामः' इत्यन्यत्'; अनेनापि 'अवयवा एव नावयवी' इति प्रतिक्षिप्तम् ; तेषामेव कथञ्चिदेकभावस्य अवयविनोऽपि प्रतीतेः । अन्यथा ५ शून्यवादापत्तेर्निरूपितत्वात् । कथं पुनरनेकभावस्यापरित्यागे तेषामेकभावः ? प्राच्याकार.
परित्यागाजहद्वृत्तिकस्यैव उत्तराकारोपादानस्य परिणामस्योपगमात् । तत्परित्यागे च कथं सस्य स्थवीयस्त्वम् अनेकावयवसाधारणत्वाभावादिति ? कल्पयतोऽप्यवयविनं न परमाणुवादामिर्मुक्तिरिति चेत ; न ; कथञ्चिदेव तस्य परित्यागात् । अनेकभावस्य हि अनेकभावापत्ति
योग्यतयैव प्रत्येकदशाभाविन्या परित्यागः, न पुनरेकभावापत्तियोग्यतया परस्परसमवायसमय. १० भाविन्या। तयापि तत्परित्यागे तदेकभावस्यैवानुत्पत्तिप्रसङ्गात् । ततः सत्यप्येकभावे
कथञ्चिदनेकभावस्यापरित्यागान्न परमाणुवादापत्तिः । एवमपि अवयवस्य अवयवान्तरेणैकमावे पररूपेणापि भावः प्रतिपन्नो भवति, तथा च तैः स्वरूपादिभिरेव भावः तावः' इति व्याख्यानं व्याकुलीभूतं भवति । न चैवं दधिभक्षणे चोदितस्य करभेऽपि निवृत्तिः दध्नस्ते.
नाप्येकभावसम्भवादिति चेत् ; न ; तदेकभावस्य तत्तद्रूपतयाँ चित्रकसंवेदनवनियमेन ततस्तस्य १५ पररूपत्वाभावात् तथा प्रतीतेः । न चैवं दघ्नोऽपि करभेणैकभावः प्रतीत्यभावात् । सम्भावनया
तु तद्भावे अतिप्रसङ्गात् । दधिक्षणस्य उत्तरतत्क्षणेनेव करभक्षणेनापि एकसन्तानत्वापत्तो भवन्मतेऽपि दधिखादने चोदितस्य करभेऽपि प्रवृत्तिप्राप्तेः । ततः प्रातीतिकमिदम्- 'तस्यैकस्य भावः तद्भावः' इति ।
तथा'तेन परस्परैकत्वेन द्रव्यपर्यायाणां भावः तद्भावः परिणामः' इत्यपरम् ; २० अनेनापि द्रव्यात् पर्यायाणां तेभ्यश्च तस्य आत्यन्तिकं भेदं प्रत्याचष्टे, कथञ्चिदभेदस्यापि प्रतिपत्तः।
मिध्यैवेयम्'; भेदप्रतिपत्त्या बाध्यमानत्वादिति चेत् ; कृतस्तत्प्रतिपत्तिः ? प्रत्यक्षादिति चेत् ; न ; अभेदप्रतिपत्तेरपि तत एव भावेन बाध्यत्वायोगात् । कथमुभयोरेकतो भावो विरोधादिति चेत् ? किमिदानीं भेदप्रतिपत्तिरेव ? तथा चेत् ; "कस्या: "तया बाधनम् ? अभेदसंस्कार
परिपाकोपनीताया. अभेदप्रतिपत्तेरेवेति चेत् ; न तस्याः सहभावो ज्ञानोत्पत्तियोगपद्यस्या२५ निष्टस्य प्रसङ्गात् । नाऽपि पश्चात् ; प्रतिपत्तिभेदस्याप्रतिवेदनात् । अप्रतिवेदन लघुवृत्तेरिति
चेत् ; न ; प्रतिपत्त्योरपि "तदव्यतिरेकेण तत्प्रसङ्गात् । प्रतिविदितेतरात्मकत्वे तु तयोः । भेदाभेदात्मकत्वेन किमपराद्धं भवतो यत्तदेव द्रव्यपर्याययोर्न क्षम्यते ? तन्न इयमन्यैव अभेदप्रतिपत्तिः प्रत्यक्षात् , प्रत्यक्षादेवैकस्मात् भेदवदभेदस्याऽपि प्रतिपत्तेः । एवमपि भेद एव तस्य'
१ वाक्यमित्यन्वयः । २ अवयवानाम् । ३ "पूर्वाकारपरित्यागाजहद्वृत्तोत्तराकारान्वयपत्यविषयस्योपादानत्वप्रतीतेः ।"-अप्टसह० पृ. ६५। ५ नित्यत्वम् । ५ -भागस्यै-आ०, 40, प० ।। -रेणैव भावे भा०, ब०, प०। ७ तदतद्रूपतया ता०। ८ वाक्यमित्यन्वयः। ९ अभेदप्रतिपत्तिः। १० तस्यास्तथा वा-मा.. ब०, प० । ११ भेदप्रतिपत्त्या । १२ लघुवृत्यभेदेन । १३ प्रत्यक्षस्य ।