________________
१११२५]] प्रथमः प्रत्यक्षप्रस्ताव
४७३ प्रामाण्यम् नाभेदे, तस्यासत एव समवायोपनीतस्य तत्र प्रतिभासादिति चेत् ; कथं तदेव प्रमाणतदाभासत्वाभ्यां भिन्नम् ? अभिन्नं तथैव दर्शनादिति चेत् ; न ; तदर्शनस्य तदभेदवत् द्रव्यपर्यायाभेदेऽपि तद्दर्शनस्य प्रामाण्योपनिपातात् । अथ तस्याऽपि तेत्र तन्नेष्यते समवायोपनीतस्य असत एव तस्य तत्र प्रतिभासनादिति ; तन्न ; तत्राऽपि 'कथं तदेव' इत्यादेरनुषङ्गात् अनवस्थितेश्च ।
तस्माद् दूरं गतेनाऽपि प्रमाणेतरभागयोः । एकत्वं तात्त्विकं वाच्यमनवस्थानभीरुणा ।।१११८।। द्रव्यपर्यायतादात्म्यं निर्बाधज्ञानबोधितम् । तद्वदेवानुमन्तव्यं न्यायमार्गानुवर्तिना ॥१११९।। न च नास्त्येव तज्ज्ञानमास्ते शेते च माणवः । इत्यासनाद्यभेदेन माणवस्यावबोधनात् ॥११२०॥ अपह्नवे तु तस्य स्याद् भेदज्ञानमपहृतम् । निद्रायितं जगत्प्राप्तं ततश्चैतन्यवर्जनात् ॥११२१॥ समवायादभेदश्चेत् असन्नेवावभासते । भेदः सर्वोऽप्यसन्नेव किन्नैकस्मात्प्रकाशताम् ? ॥११२२॥ यद्ब्रह्मैव परं तत्त्वं न भवेत् सर्वशक्तिमत् । पर्यालोच्येदमेवोक्तं मण्डनेन मनीषिणा ॥११२३॥
"समवायसामर्थ्याच्चेत् भेदवतोरभेदावभासः, हन्तैकस्यैव वस्तुनः सामर्थ्य विशेषात् नानावभासोऽभ्युपेयताम् व्यर्था वस्तुभेदकल्पना" [ब्रह्मसि०पृ० ६१] इति । तन्न तत्राभेदप्रतीतिः असती मिथ्या वा, इत्युपपन्नमेतत्- 'तेन अन्योन्यात्मकत्वेन भावस्तद्भावः २० परिणामः' इति ।
स किमित्याह-स्यात् स विकल्पस्य लक्षणम् इति । स परिणामो विकल्पस्य विविधं स्वमतानुरूपेण 'तीयः कल्प्यत इति विकल्पः, चेतनेतरलक्षणो भावः तस्य लक्षणं स्वरूपं स्यात् भवेत् , प्रत्यक्षेणे विषयस्य तथैव प्रतिपत्तेरिति भावः ।
तत्रैवानुमानमाह
तदेव वस्तु साकारमनाकारमपोद्धृतम् ॥१२५।। इति ।
वस्तु चेतनमन्यच्च धर्मि तदेव परिणामलक्षणमेव नैकान्ततः क्षणिकं कूटस्थं वा इत्येवकारः । कुत इत्याह साकारम् इति । आ समन्तात् क्रियन्ते कार्याणि यैस्त आकाराः शक्तिपर्यायाः तैः सह तत इति साकारं सशक्तिकं यत इति ।
. प्रत्यक्षमेव । २ प्रत्यक्षभेददर्शनस्य । ३ द्रव्यपर्यायाभेददर्शनस्य। ४ प्रत्यक्षाभेददर्शनस्यापि ५ प्रत्यक्षाभेदे । ६ अभेदस्य । ७ चेद्भद एव तद्वतोरभे-ता०। ८ तीर्थैः आ०, ब०, प०। ९-ण तद्विषमा०, ब,०प०।
६०