________________
४७४
भ्यायविनिश्चयविवरणे
[१।१२५ __ सशक्तिकमपि क्षणिकमेव किन्न भवतीति चेत् ? उच्यते-ततो यदि स्वकाल एव कार्य तत्कार्यमपि सैदैव तदैव तैत्कार्यमपि इति निरवकाशैः सन्तानः तन्निबन्धनो व्यवहारश्च । पश्चादिति चेत् ; कः पश्चादर्थः ? तद्विनाशश्चेत् ; सोऽपि यदि कार्यमेव; तदा 'कार्ये कार्यम्'
इत्युक्तं भवेत् , तच्चानुपपन्नम्। भेदाभावात् । भेदे तु नाद्यं कार्य तदन्यस्याभावात्, भावे स ५ एव दोषः तद्योगपद्यात् सन्तानवादो निरवकाश इति । कार्यादन्य एव नाशश्चेत् ; न सोऽपि
कारणसमसमयः पूर्ववदोषात् । पश्चादेवेति चेत् ; न; 'तत्राऽपि कः पश्चादर्थः' इत्याद्यनुगमादव्यवस्थितिदोषानुषङ्गात् । तन्न नाशः पश्चादर्थः । दर्शननिवृत्तिस्तर्हि तदर्थः, कारणदर्शननिवृत्तौ कार्योदयादिति चेत् ; न ; अवृत्तदर्शनस्य अकारणत्वप्रसङ्गात् । न च सर्व वृत्त.
दर्शनमेव संसारिणः; सर्वदर्शित्वापत्तेः । सर्वदर्शिनोऽपि न तत्र तन्निवृत्तिः तद्दशायामसर्व१० दर्शित्वापत्तेः । एतेन दर्शनविषयत्वमेव वर्तमानत्वमिति प्रत्युक्तम् ; देशादिव्यवहितत्वेन
अवृत्तदर्शनस्य अवर्तमानत्वप्रसङ्गात् । योग्यपेक्षया च सर्वस्य वर्तमानत्वे कथमुपायोपेय. भावेन तत्त्वदेशना ? सहभाविनां "तद्भावस्यानभ्युपगमात् । तन्न निवृत्तिरपि तदर्थः ।
नाऽपि कालविशेषः ; तस्यानिष्टेः ।
___ भवतु कार्यमेव तदर्थः ; न चोक्तो दोषः ; तदर्थस्य आधारस्वानवक्लप्तेः", १५ 'नीलादिनेव 'पैश्चात्त्वेनाऽपि स्वरूपेण भवति कार्यम्' इत्येवावकल्पनात् , कालविशेषस्या
प्येवमेव पश्चात्त्वोपपत्तेः, "तदन्तरापेक्षया तत्त्वावक्लप्तौ अनवस्थानस्याप्यवकल्पनादिति चेत् ; कुतस्तस्य तत्त्वप्रतिपत्तिः ? प्रत्यक्षादिति चेत् ; न ; ततः कारणस्थाप्रतिपत्तौ 'अत इदं पश्चात्' इत्यप्रतिपत्तेः । न च ततः कार्यसहचरात् कारणस्य तत्सहचराद्वा कार्यस्य प्रतिपत्तिः
असन्निधानात् । असन्निहितविषयत्वे च अतिप्रसङ्गात् । उभयसहचरत्वे च २०. क्षणभङ्गभङ्गप्रसङ्गात् । तन्न प्रत्यक्षात्" तत्प्रतिपत्तिः । तज्जन्मनो विकल्पादिति चेत् ; न ;
तस्यावस्तुविषयत्वेनाऽप्रमाणत्वात् । न चाप्रमाणिकैव तत्त्वप्रतिपत्तिः ; प्रमाणव्युत्पादनप्रयासवैफल्योपनिपातात् । तन्न कश्चिदपि पश्चादर्थो निश्चयविषयः ।
भवतु वा, तथाऽपि कुतस्तदा कार्यम् ? कारणसामर्थ्याच्चेत् ; न ; तदभावात् । प्राच्यादेवेति चेत् ; अक्षणिकादपि ततस्तथा किन्न कार्य यतः सत्त्वं ततो व्यावहूत ? २५ कार्यकालेऽपि तस्य भावादिति चेत् ; भवतु, न विरोधः । न हि कारणभावेन कार्यविरोधः, तदभावेनैव विरोधस्य सम्भवात् , अन्यथा मृतादपि शिखिनः केकायितं स्यात् । कथं
कार्यकार्यमपि । २ कारणकारणकाले। ३ कार्यकार्यस्य कार्यमपि । ४ सकलोत्तरोत्तरक्षणानामेकस्मिन्नेव क्षणे निपतनात् द्वितीये च निरन्वयविनाशात् समाप्तः सन्तानव्यवहार इति भावः। ५ तु साध्यं का-आ०, १०, प०। ६ तन्नाशः आ०, ब०,५०। ७ दर्शननिवृत्तिः । ८ "दृष्टताऽतीतकालत्वं दृश्यता वर्तमानाता । भाविता द्रक्ष्यमाणत्वमिति कालव्यवस्थितिः॥"-प्र०वार्तिकाल. १११३७ । ९ दृशादि-आ०, ब०, प०।१० उपायोपेयभावस्य । ११-वक्लप्तिः आ०,ब०,१०। १२ पश्चात्तेनापि आ०,ब०प० । १३ कार्यमेवेत्येवा- आ०,ब०प० । १४ तदनम्तरा-आ०, ब०, प० । १५ प्रत्यक्षात् । १६ -क्षात्प्रति- आ०, ब०, प० । १७ तत्प्रति- आ०,व०, प० । १८ चेदाक्षणिकादावपि आ०, ब०, प० ।