________________
१।१२५ ]
प्रथमः प्रत्यक्षप्रस्तावा पुनः नित्यादेकस्वभावात् कालभिन्नमनेक कार्यम् ? तत्स्वभावभेदादेव तदुपपत्तः, तदभ्युपगमे च कथं तदेकम् ? तदनन्तरत्वेन तत्राऽपि भेदस्यैवोपपत्तेरिति चेत् ; कथमिदानी प्रदीपादेरपि क्षणिकादेकस्वभावादेव देशभिन्नस्य कार्यस्य कजलादेरुत्पत्तिः ? स्वभावभेदावक्लप्तौ निरंशवादव्यापत्तेः । 'एकोऽपि स्वभावस्तस्य तादृश एव यतो नानादेशमनेक कार्यम्' इति प्रतिवचनं न नित्यपक्षेऽपि वैमुख्यमुद्वहति, नित्यादप्येकस्वभावादेव कालभिन्नस्य कार्यस्योत्पत्तेः, ५ न तद्भेदेन भेदः क्षणिकवत् । तदुक्तम्
"प्राक शक्तानश्वरात कार्य पश्चात् किन्नाविनश्वरात् । कार्योत्पत्तिविरुध्येत न वै कारणसत्तया ॥ यद्यदा कार्यमुत्पित्सु तत्तदोत्पादनात्मकम् ।
कारणं कार्यभेदेऽपि न भिन्न क्षणिकं यथा ॥" [सिद्धिवि०परि० ३] इति । १० तन्न क्षणिकात् कार्यम् ।
नाप्यक्षणिकात, ततो यथेकस्वभावादेव देशादिभिन्नं कार्यम् ; क्षणिकादपि किन्न स्यात्? तस्य कार्यकालप्राप्त्यभावात् तत्प्राप्तस्यैव कारणत्वादिति चेत् ; अनुत्पन्नस्य कार्यस्य कः कालो यस्य प्राप्तिः ? उत्पन्नस्येति चेत् ; न परस्पराश्रयात्-तत्प्राप्तात् उत्पत्तिः , उत्पन्नस्य च कालभावात् तत्प्राप्तिरिति । तत्प्राप्त्या च कारणत्वे अतिप्रसङ्गः-सर्वस्य नित्यस्य एकत्र कार्ये १५ तत्त्वापत्तेः । प्राप्तमपि तत्र यदेव समर्थं तदेव कारणं न सर्वमिति चेत् ; पर्याप्त प्राप्त्या, तद्विकलस्यापि सति सामर्थ्य तत्वाविरोधात् । प्राप्त्यभावे तदेव कथमवगम्यत इति चेत् ? न; अन्वयव्यतिरेकाम्यां तदवगमात् । तावपि प्राप्तिभावाभावावेति चेत् ; कुत एतत् १ तथा प्रतीतेरिति चेत् ; क प्रतीतिः ? नित्य एवेति चेत् ; न; क्षणिकवन्निरंशस्य तस्याप्रतिपत्तेः । तन्न एकस्वभावं तत्कारणम् । स्वभावभेदस्य तु तदनन्तरस्यावक्लृप्तौ तन्निरंशवादस्य व्याघातः, २० अर्थान्तरस्य तु सहकारिसन्निधिरूपस्यावकल्पनं प्रागेव निवारितम् । तन्न नित्यादपि कार्य क्षणिकवत् । 'प्राक् शक्तात्' इत्यादिकन्तु देवैः साम्यापादनबुद्ध्य वाभिहितं न वस्तुतः तत्कारणत्वनिवेदनबुद्धया । कथमन्यथा "मिथ्र्यकान्ते विशेषो वा कः स्वपक्षविपक्षयोः" [लघी० श्लो० ४१] इति तद्वचनं न विरुध्येत ? ततः क्षणिकादिलक्षणात् विपक्षात् बाधकप्रमाणबलेन व्यावर्तितस्य साकारत्वस्य निश्चितान्यथानुपपत्तिकत्वेन गमकत्वोपपत्तेः अवि. २५ रुद्धम् ततो वस्तुनः परिणामलक्षणत्वसाधनमिति" सूक्तमेतत्-'तदेव वस्तु साकारम्' इति ।
नन्वेवं वस्तुवत् तद्धर्माणामपि शक्तिमत्त्वेन तल्लक्षणत्वे क्रमाक्रमाभ्यामनेकान्तात्मकत्वम् ; पुनस्तद्धर्माणामपि तथा 'तत्त्वमिति एकवस्तुधमैरेव सकलस्यापि जगतोऽभिव्याप्तत्वान्न
क्षणिकादिस्ख- आ०, ब०, प० । २ कार्यभेदेन नित्यस्य खभावभेदः । ३ नश्वरं का- आ०, ब०, ५०। ४ तत्तथोत्पा- आ०, ब०, प० । ५ क्षणिकस्य । ६ कार्यकालप्राप्त्या । ७ कारणत्वापत्तेः । ८ सामर्थ्यमेव । ९ अन्वयव्यतिरेकावपि । १० अकलङ्कदेवैः । ११-धनत्वमिति भा०,ब०प० । १२ क्रमाक्रमाभ्यामनेकान्तात्मकत्वम् ।