________________
म्यायविनिश्वयविवरणे
[ १११२६
वस्त्वन्तरतद्धर्माणामवकाशः स्यादिति चेत्; आह- अनाकारमपोद्धृतम् इति । न विद्यते आकारोऽनेकान्तरूपस्वभावो यस्य तत्-अनाकारं वस्त्विति सम्बन्धः । कीदृशं तथा ? अपोद्धृतं द्रव्यरूपतया पर्यायेभ्यः तद्रूपतया द्रव्यात् परस्परतश्च नयबुद्धया पृथककृतम्, अपृथक्कृतस्यैव अनेकान्तात्मत्वापगमादिति भावः । यद्येवं व्यभिचारी हेतु: साका. ५ रत्वादिति, तेषां शक्तिमत्वेऽपि परिणामलक्षणत्वाभावादिति चेत्; न; तेषां पृथक्शक्तिमवाभावात् । न चैवमवस्तुत्वमेव नयबुद्ध्याऽपि वस्तुतादात्म्यस्याप्रतिक्षेपात् दुर्नयत्वानुषङ्गात् । ततो नयार्पणया एकान्तात्मकत्वं प्रमाणार्पणया त्वनेकान्तात्मकत्वं वस्तुन इति व्यवस्थितम् ।
यत्पुनरिदम् अनेकान्तनिराकरणाय व्यासस्य सूत्रम् - "नैकस्मिन्नसम्भवात् " [झसू० २।२|३३] इति । अस्यार्थः - नानेकान्तवासे युक्तः । कुत एतत् ? एकस्मिन् धर्मिणि १० सदसत्वनित्यानित्यत्वनानैकत्वादीनां विरुद्धधर्माणामसम्भवादिति; तत्राह
KE
भेदानां बहुभेदानां तत्रैकत्रापि सम्भवात् । इति ।
परिणामलक्षणमेव वस्तु । कुतः ? भेदानां सदसत्वादीनाम् । कीदृशानाम् ? बहुभेदानाम् अनेकप्रकाराणां तत्र तस्मिन् परप्रसिद्धे एकत्रापि " एकमेवाद्वितीयम्” [छान्दो० ६।२।१] इत्याम्नातेऽपि न केवलं स्याद्वादिप्रसिद्ध 'जीवादावेव इत्यपिशब्दः सम्भ१५ वात् । तथा हि
२०
२५
व्यावृत्तं चेन्न तद्ब्रह्म प्रपञ्चादव कल्प्यते । तस्याप्यवस्तुरूपत्वं तद्वदेव प्रसज्यते ॥ ११२४ ॥ तस्मादिव स्वरूपाच्च तच्चेद् व्यावृत्तमुच्यते । नैरात्म्यवादनिर्मुक्तिः कथं ते ब्रह्मवादिनः ? ॥ ११२५ ॥ स्वरूपादनिवृत्त तत् व्यावृत्तं चेत् प्रपञ्चतः । सदसद्धर्मभेदोऽयं कथं तत्र न सम्भवी ? ॥ ११२६ ॥ प्रपञ्चात्तद्विवेकश्चेत् कुतश्चिदवगम्यते ।
प्रपञ्चाधिगमस्तत्र न भवत्येव सर्वथा ॥ ११२७ ॥ तद्विवेकवदन्यच्च तद्रूपञ्चेन्न वेद्यते ।
सर्वथा वदनिर्भासं न प्रधानाद्विभिद्यते ॥ ११२८ ॥ सत्यज्ञानात्मना वित्तिः तस्य नो चेद्विवेकतः । विदिताविदितात्माऽयं तत्र भेदोऽस्तु सम्भवी ॥ ११२९ ॥ अमृतत्वञ्च नित्यञ्चेत तस्य ब्रह्माविवेकतः ।
मुमुक्षूणां प्रयासस्य किमन्यत्फलमुच्यताम् ॥ ११३० ॥
१- मत्वे परि - आ०, ब०, प० । २- द्धवाद एवे- आ०, ब०, प० । ३. प्रपञ्चवदेवा
४ ब्रह्मणि ।