________________
११२६ ]
प्रथमः प्रत्यक्ष प्रस्तावः
संसारस्य निवृत्तिश्चेत् मुक्तौ संसारिता कथम् ? 1
विभ्रमाच्चेत् स एवायं सत्यां मुक्तौ कथं भवेत् ? ॥ ११३१॥ कथञ्चिदेव तन्नित्यममृतत्वं यदीष्यते ।
नित्यानित्यस्वभावोऽयं भेदो ब्रह्मणि सम्भवेत् ॥ ११३२॥ एवं बहुप्रभेदस्य तन्निर्भेदस्य सम्भवे ।
परिणामस्वरूपत्वं तस्य केन निवार्यते ।। ११३३ ॥
.
तदनेकान्तविद्वेषे न ब्रह्मं व्यवतिष्ठते ।
तस्माद्ब्रह्मविलोपीदं सूत्रं व्यासोपवर्णितम् ॥ ११३४॥
यत्पुनः सर्वमनेकान्तात्मकमेव इति निर्धारणे भाष्यकारस्य दूषणम् - "नेति ब्रूमः, निरङ्कुशं कान्तं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वाविशेषात् स्यादस्ति स्या- १० नास्ति इत्यादि विकल्पोपनिपातादनिर्धारणात्मकतैव स्यात् ।” [ ब्रह्म० शां० २।२।३३ ] इति तदपि भवत्येव यदि धर्मिण्येव तस्य निर्धारणवदनिर्धारणमपि । न चैवम्, तंत्र निर्धारणस्यैव भावात् अनिर्धारणं तु धर्मापेक्षया तदभावात् धर्माणाञ्च द्विकलानां ब्रह्मण्यपि निवेदनात् ।
;
यच्च तस्येदमपरम् – “एवं सति कथं प्रमाणभूतः सन् तीर्थकर : प्रमाणप्रमेय- १५ प्रमातृप्रमितिषु अनिर्धारितासु उपदेष्टुं शक्नुयात् ?” [ब्रह्म० शां० २।२।३३] इति ; तदपि न सुन्दरम् ; खरूपादिना प्रमाणादीनां सत्तयैव निर्धारणात्, तैया तदनिर्धारणं तु पररूपादिना तदभावात् । एवमन्यदपि तस्य दुर्विलसितमपासितव्यम् । ततो यदुक्तम्"अनिर्धारितार्थ शास्त्रं प्रणयन् मत्तोन्मत्तवदनुपादेयवचनः स्यात्" [ब्रह्म० शां० २।२।३३] इति ; तत्र कथमनिर्धारितार्थं शास्त्रम् ? प्रकारान्तरेण चेत्; न; तस्याभावात् । उक्तप्र- २० कारण चेत्; कथं तत्प्रणयतो मत्तादिसादृश्यम् ? प्रमाणोपपन्नवस्तुवादिनः तदनुपपत्तेः, अन्यथा वेदोऽपि मत्तादिवदनुपादेयवचनः स्यात् तेनापि सदसदादिस्वभावं ब्रह्मोपदिशता 'सदेव तत् असदेव वा' इत्यनिर्धारितस्यैव तस्य प्रणयनात् । अथ ब्रह्मणि परमार्थसति न प्रपचो नाम कश्चिदस्ति यद्विवेकस्य तत्र रूपान्तरत्वात् सदेव इत्यनिर्धारितं तद्भवेदिति चेत्; न तदानीमनेकान्तदोषोऽपि तस्यापि प्रपञ्चान्तर्गतत्वेन तदभावे सम्भवाभावादि - २५ त्यलमतिनिर्बन्धेन ।
259
"
...
१ ब्रह्मा आ०, ब०, प० । २ धर्मिणि । ३ निर्धारणाभावात् । ४ निर्धारणशून्यानाम् । ५ सत्तया । ६ सत्ताSभावात् । ७ " सच्च त्यचाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं 'वानृतं च सर्वमभवत् । ” - तै० उ० २ । ६ । " सच्च मूर्त त्यच्चामूर्तमभवत् निरुक्तं नाम निष्कृष्य समानासमानजातीयेभ्यो देशकालविशिष्टतयेदं तदित्युक्तमनिरुक्तं तद्विपरीतं निलयनं नीडमाश्रयो... अनिलयनं तद्विपरीतं... विज्ञानं चेतनमविज्ञानं तद्रहितमचेतनं पाषाणादि सत्यं... अनृतं च तद्विपरीतम् । " तै० उ० शां० भा० २ । ६ । " सदसच्चाहमर्जुन" - भ० गी० ९ । १९ । ८ रूपान्तर्गतत्वात् आ०, ब० । ९ - तं न तद्भ- आ०, ब०, प० ।
५