________________
४७८ ग्यायविनिश्चयविवरणे
[१११२७ स्यान्मतम्'-सति सामान्ये सम्भवत्येकत्र भेदः तस्यैव एकार्थत्वात् । न च तदस्ति; व्यक्तिभ्योऽर्थान्तरत्वेन अप्रतिपत्तेः । न च ता एव सामान्यम् ; अनन्वितत्वात् । कथञ्चि. दन्वयकल्पनायाम्; अनवस्थोपनिपातात् । तदभावे कथं धर्मिधर्मादिव्यवस्था ? सामान्यरूप
एव हि शब्दो धर्मी तस्य साध्यसाधनधर्मसाधारणत्वात् । धर्मोऽपि साध्यमनित्यत्वं तद्रूप५ मेव, तस्य पक्षसपक्षसाधारणत्वात् । अन्यथा तदंशव्याप्तेरभावप्रसङ्गात् । हेतुधर्मोऽपि कृतकत्वादिः तत्साधारण एव, अन्यथा अनैकान्तिकत्वप्रसङ्गात; इत्यपि न मन्तव्यम्; व्यावृत्ति. भेदतस्तदुपपत्तेः । अशब्दव्यावृत्तिः शब्दो धर्मी, धर्मश्च अकृतकत्वादिव्यावृत्तिः कृतकत्वादिरिति पर्याप्तमेतावता किं तदर्थेन वस्तुभूतसामान्यपरिकल्पनेन ? परिकल्पितेऽपि तस्मिन् तरे
दस्य अवश्याभ्युपगमनीयत्वात् , अन्यथा भेदव्यवहारप्रच्युतेः । सामानाधिकरण्यादिव्यव. १. हारस्यापि तत एवोपपत्तेः । तद्भेदस्य॑ वस्तुसत्त्वेऽन्वितत्वे च सामान्यस्यैव शब्दान्तरमिदमि.
त्यपि न मन्तव्यम्; कल्पनयैव तस्य तद्रूपत्वात् न वस्तुतः । कल्पनैवे हीयम् अवस्तुसन्तमपि वस्तुसन्तमिव अनन्वितमप्यन्वितमिव अभिन्नमपि भिन्नमिव स्ववासनाप्रकृतेरुपदर्शयन्ती धर्मिधर्मभावादिसामान्यप्रयोजनमुपकल्पयति । तदुक्तम्
"संसृज्यन्ते न मिद्यन्ते स्वतोऽर्थाः पारमार्थिकाः ।
रूपमेकमनेकञ्च तेषु बुद्धरुपप्लवः ॥" [प्र०वा० ३।८६] इति । 'तनैकत्र भेदसम्भवः तस्यैवैकस्याभावादिति; तत्राह
अन्वयोऽन्यव्यवच्छेदो व्यतिरेकः स्वलक्षणम् ॥१२६॥ ततः सर्वा व्यवस्थेति नृत्येकाको मयूरवत् । इति ।
अन्वयः अनुगमः खण्डादिषु गौरिति तन्तुषु अयं पट इति रुचकादौ तदेवेदं सुव२० मिति रूपः, सोऽन्यस्य कर्कादेः वीरणादेः मृदादेश्च व्यवच्छेद एव नापरः। तथा सर्व
स्मात् सजातीयात् विजातीयाच्च व्यतिरिच्यते भिद्यते इति व्यतिरेकः स एव स्वलक्षणम् न पूर्वोक्तम् । ततः तस्मादन्वयात् स्वलक्षणाच्च सर्वा निरवशेषा व्यवस्था स्वाभिमतवस्तुव्यवस्थितिः इति एवं नृत्येत् "नृत्तं कुर्यात् काक इव काकः सौगतः तद्व्यवस्थात्मनि
नृत्यक्रियायामुपायात्मनः पिच्छभारस्याभावात् मयूर इव मयूरो जैनः तत्र तस्य "तदारस्य २५ निवेदनात् स इव तद्वदिति । सौगतस्यापि उक्त एव तत्रोपायः अन्वयः स्वलक्षणन्च
तत्कथमेतदिति चेत् ? न तावत् स्वलक्षणं तत्रोपायः; तस्य
१ बौद्धस्य । २ "सौगत एव परेणापाद्यमानं दूषणमनुवदति"-ता० टी०। ३ सामान्याभावे । १ सपक्षसाधारण एव । ५ "पक्षमात्रे कृतकत्वास्याङ्कीकारप्रकारेण असाधारणानैकान्तिकत्वम्"-ता. टि०। ६-त्वाव्यावत: कृ- आ०,०,०1. "अनित्यः शब्द इति"-ता०टि०। ८ अतद्भदस्य । ९- नैव ह्यवस्तु आ.ब.प.। द्रष्टव्यम्- प्र०वा०ख० ३१७८९३ । १० "भेदानां बहुभेदानां तत्रैकस्मिन्नयोगतः ।" -प्र. वा० ३.८५। " नृत्यं कु- आ०, ब०, प० । १२ तद्भावस्य आ०, व., प० ।