________________
४७९
१।१२७ )
प्रथमः प्रत्यक्षप्रस्ताव व्यतिरेकैकरूपं तद्यथान्यस्माद् विविच्यते । तथा स्वतोऽपि नीरूपं तदुपायः क्वचित्कथम् ? ॥११३५।। अन्यस्मादेव तस्यास्ति विवेको न स्वतो यदि । कथं तथैकरूपत्वमविवेकविवेकयोः ॥११३६।। अविवेकविवेकाभ्यां तदभेदस्य सम्भवे । तदेव वस्तु सामान्यं तत्कथं तन्निषिध्यताम् ।।११३७।। न च तत्कल्पितं रूपं स्वालक्षण्यविरोधतः । अस्पृश्यं कल्पनाभिर्यलक्ष्यतेऽन्यैः स्वलक्षणम् ॥११३८॥ वस्तुसामान्यसंसिद्धेः तद्वौद्धेनेह बिभ्यता । स्वरूपतोऽपि व्यावृत्तमेकान्तेन तदिष्यताम् ।। ११३९॥ स्वलक्षणे चासत्येवमन्यव्यावृत्तयः क ताः । न हि व्यावृत्तकाभावे सन्ति तास्तदुपाश्रयाः ॥११३०॥ तदभावे कथन्नाम कल्प्यन्तां तन्निबन्धनाः । जातयो बहुधा भिन्ना यतः सूक्तमिदं वचः ॥११४१।। "ततो यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः । जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥" [प्र०वा० ३।४०] इति । " जात्यभावे कथञ्च स्यात् धर्मिधर्मादिसम्भवः ।
अनुमानव्यवस्था ते यतस्तेनावकल्प्यताम् ॥११४३॥ सत्यपि स्वलक्षणस्य व्यावृत्तिभेदे कथं तन्निबन्धनस्य सामान्याकारस्य विकल्पादपि प्रतिपत्तिः? कथञ्च न स्यात् ? तस्यावस्तुत्वेन तर्दकारणत्वात् । अकारणस्यपि स्वहेतुजनितात् शक्ति. २० विशेषात् प्रतिपत्तौ कैमर्थक्याद् वस्तुन्यपि स्वज्ञानं प्रति कारणत्वपरिकल्पनम् , तस्यापि ततः शक्तिविशेषादेव तादृशात् प्रतिपत्तिसम्भवात् ? सर्वस्यापि वस्तुनः तत एव प्रतिपत्तिः स्यादकारणत्वाविशेषादिति चेत् ; अवस्तुनोऽपि स्यात् , तथा च शब्दविकल्पेनैव शब्दत्ववत् कृतकत्वादिकमपि प्रतीयता निरवशेषजातिविशेषाधिष्ठानतया शब्दधर्मिणः प्रतिपत्तेः हेतुसाध्यविकल्पानां कथन्न कैमर्थक्यम् ? यत इदं सुभाषितम्
"ततो यो येन धर्मेण विशेषः सम्प्रतीयते । नस शक्यस्ततोऽन्येन तेन भिन्ना व्यवस्थितिः॥” [प्र०वा० ३।४१] इति ।
शक्तिनियमादकारणस्यापि तस्य नियतस्यैव प्रतिपत्तिः न सर्वस्येत्यपि समाधानं न वस्तप्रति.
खलक्षणम् । २ खलक्षणस्य । ३ तद्बोधेनेह आ०, ०,१०। ४ व्यावृत्त एवं व्यावृत्तकः । ५ कथं साधु कल्प्यतां तनि- मा०, ब०, ५०। ६ विकल्पज्ञानाऽकारणत्वात् । ७ शब्दवत् आ०, ब०, ५०।- पत्तिहतसाभा.,ब०, ५०।९ कैमर्थक्यमिति प्रश्नः ।