________________
[ १।१२७
पत्तावपि पक्षपातं परित्यजति । ततो विज्ञानशक्तिपरिज्ञानवैकल्यादेवेदं धर्मकीर्तेर्वचनम् - " नाकारणं विषयः " [ ] इति । न कारणत्वात्तरयं ततः प्रतिपत्तिः अपि तु तदत्र्यतिरेकादिति चेत्; न; तद्वत्तस्यापि स्वालक्षण्यप्रसङ्गात् । स्वलक्षणं हि विकल्पः स्वसंवेदनाध्यक्ष विपयत्वात् तत्कथं तदव्यतिरेकिणः सामान्यरूपत्वम् ? विभ्रमादिति चेत् ; कस्य ५ विभ्रमः ? तस्यैव विकल्पस्येति चेत्; न; ततः स्वलक्षणतयैव तदाकारस्य स्वतः प्रतिपत्तेः । विकल्पान्तरात् सामान्याकारतया प्रतिपत्तिरिति चेत् ; न ; ततोऽपि तदाकारस्याव्यतिरेके स्वलक्षणताय ' एवोपपत्तेः । पुनः विकल्पान्तरात् सामान्याकारतया प्रतिपत्तौ अप्रतिपत्तिरेव अनवस्थोपनिपातात् । तन्न सविकल्पबुद्धेः अव्यतिरेकी सामान्याकारः सम्भवति, यत्प्रच्छादितभेदत्वात् भावा अभेदिन इव प्रत्यवभासेरन् । ततो दुर्भाषितमेतत् असम्भवद्विषयत्वात्"पैररूपं स्वरूपेण यया संन्धि (संवियते धियाँ ।
एका प्रतिभासिन्या भावानाश्रित्य भेदिनः ॥
तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् ।
१०
म्यायविनिश्वयविवरणे
४८०
अभेदिन इवाभान्ति भावारूपेण केनचित् ॥" [प्र०वा०स्त्र० ३ । ७०-७१] इति । कुतश्चायम् अभेदप्रत्यत्रमर्शी 'गौरयम्, अयमपि गौ: ' इति विकल्पः खण्डमुण्डा१५ दिवेवन कर्कशोणबर्करादिष्वपि भेदाविशेषात् ? तेष्वेव तद्धेतोः स्वभावस्य नियमात् दृश्यन्ते हि सत्यपि भेदे केचिदेव कचित् स्वभावतो नियताः यथा रूपदर्शने चक्षुरादय एव ज्वरादिशमने च गुडूच्यादय एव नापरे, तद्वत् गवाद्यभेदपरामर्शेऽपि खण्डादय एव ततो नियता न कर्कादयः । तदुक्तम्
२०
" एकप्रत्यवमर्शार्थज्ञानाद्ये कार्थसाधने ।
भेदेऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ॥ ज्वरादिशने काश्चित् सह प्रत्येकमेव वा ।
यथा वौषधयो नानात्वेऽपि न चापराः ||" [प्र० वा० ३।७२-७३ ] इति चेत्; उच्यते — कर्कादिव्यतिरेकेण खण्डादिष्वेव नियम्यमानस्तत्स्वभावः कल्पितः, ताकि वा ? कल्पितश्चेत्; कुतस्तत्रैव तत्कल्पनं न कर्कादिष्वपि ? तन्निबन्धन२५ स्यापि स्वभावस्य तत्रैव नियमादिति चेत्; न; तस्यापि कल्पितत्वे 'कुतस्तत्रैव' इत्यादेर्दोषात्, अनवस्थानुपङ्गाच्च । तन्नासौ कल्पितः । तात्त्विकश्चेत्; सिद्धं तात्त्विकमेव सामान्यम्, तस्यैव खण्डादिसाधारणस्य स्वभावस्य तत्त्वात । नयनादेरपि दर्शनहेतोः स्वभावस्य सामान्यस्येष्टौ अनिष्टानुषङ्गाभावात् । तथा च तत्स्वभावग्राहिणी बुद्धिः अर्थवत्येव नानर्थिका, वस्तुनिष्ठैव
१ “सामान्याकारस्य विकल्पात् " - ता० टि० । २ सामान्याकारस्यापि । ३ - तया एवो- आ०, ब०, प० । ४ असम्भवाद्विष- आ०, ब०, प० । ५ " अन्यव्यावस्थात्मक सामान्यम्" - ता० टि० । ६ संहियते भा०; ब०, प० । ७ " विशिष्टबुद्धया" - ता० टि० ।