________________
१।१२८ ] प्रथमः प्रत्यक्षप्रस्तावः
४८१ नातत्कार्यकर्कादिव्यपोहनिष्ठा । तस्याञ्च यद्वाह्य खण्डादिष्वेकं कर्कादिभ्यश्च व्यावृत्तं रूपमवभाति तत्सतत्त्वमेव न निस्तत्त्वं परीक्ष्यमाणस्योपपत्तेः । तन्नेदमपि परीक्षासहं परस्य वचनम्
"तत्स्वभावग्रहाद्या धीस्तदर्थे वाप्यनर्थिका । विकल्पिकाऽतत्कार्यार्थभेदनिष्ठा प्रजायते ॥ तस्यां यद्पमाभाति बाह्यमेकमिवान्यतः ।
व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्गभावतः॥"[प्र. वा० ३।७५-७६] इति ।
यदि पुनः स्वभावनियमोऽपि नेष्यते ; न तर्हि अभेदप्रत्यवमर्शः तन्निमित्तः। तदभावान्न कल्पितमपि सामान्यमिति - कथं ततो धर्मिधर्मसामानाधिकरण्यादिव्यवस्थानर्तनं बौद्धस्य ? ततो वस्तुसामान्योपायेन तन्नर्तनप्रवृत्तं जैनमभिसमीक्ष्य निरुपायतयैव प्रवर्तमान ताथागतमुपहसद्भिः देवैरुचितमेवेदमुक्तम्
"अखण्डताण्डवारम्भविकटाटोपभूषणम् । शिखण्डिमण्डलं वीक्ष्य काकोऽपि किल नृत्यति ॥” [ ] इति ।
कुतश्च स्वलक्षणस्य अन्वयस्य वा प्रतिपत्तिः ? अप्रतिपत्तौ ताभ्यामेव सर्वव्यवस्थेति प्रतिज्ञानुपपत्तेः । याथासङ्ख्येन प्रत्यक्षादनुमानाच्चेति चेत् ; न; प्रत्यक्षस्य यथाकल्पनमप्रतिपत्तेः । न हि परकल्पितम् एकान्तनिरंशक्षणक्षीणनीलादिस्वलक्षणाकारं प्रत्यक्षं दिदृक्षवोऽपि वीक्षामहे, १५ यतस्तेन स्वलक्षणप्रतिपत्तिं प्रतिलभेमहि । अनुमानस्य च यथा नाभिजल्पसम्पर्कयोग्याकारस्य प्रतिपत्तिः तथा निवेदितमेव । अप्रतिपन्नादपि तत एव तत्प्रतिपत्तिरिति चेत; अत्राह
प्रामाण्यं नागृहीतेऽर्थे प्रत्यक्षतरगोचरौ ॥१२७॥ [भेदाभेदी प्रकल्प्येते कथमात्मविकल्पकैः।] इति ।
प्रमाणकर्म प्रामाण्यं परिच्छित्तिलक्षणं तत् न सम्भवति । कस्मिन् ? अगृ. २० हीते स्वयमप्रतिपन्ने प्रत्यक्षादौ "अप्रत्यक्षोपलम्भस्य" [
] इत्यादि वच. नात् । कस्मिन् परिच्छेद्ये तत्तत्र न सम्भवति ? अर्थे स्वलक्षणे सामान्ये च । सामान्यस्यार्थत्वम् अर्थकत्वाध्यवसायेन परैरभ्युपगमात् । ततः किम् ? इत्याह --'प्रत्यक्षतरगोचरौ भेदाभेदी प्रकल्प्येते कथम्' इति । प्रत्यक्षतरगोचरौ प्रत्यक्षानुमानविषयौ भेदाभेदी स्वलक्षणसामान्यलक्षणौ प्रकल्प्येते प्रकर्षण स्थाप्येते । कथम् ? न कथञ्चित् । ११ कैः ? आत्मविकल्पकैः आत्मानं वस्तुस्वभावं विकल्पयन्ति भिन्दन्ति इत्यात्मविकल्पकाः भेदैकान्तवादिनः सौगताः तैरिति । न हि “तदप्रतिपन्नयोस्तयोस्तद्विषयत्वम् , अतद्विषयस्यैवाभावप्रसङ्गादिति मन्यते । भवतु यथाप्रतिभासमेव प्रत्यक्षं तत्पूर्वकञ्चानुमानं स्वलक्षणे सामान्य
१ व्यावृत्तिमिव आ०, ब०, ५०।२-तं चैवमभि-आ०, ब०, प० । ३- ये तत्र आ०, ब०, ५० । ४" ताभ्यां प्रत्यक्षानुमानाभ्यामप्रतीतयोः । "-ता. टि. ।