________________
४८२
न्यायविनिश्वयविवरणे
[१।१२८
लक्षणे च प्रमाणमिति चेत् ; न; तत्रापि सम्भवक्रमाभ्यां वस्तुभूतानेकधर्माधिष्ठानस्यैव भावस्य प्रत्यवभासनात् न निरंशक्षणिक परमाणुरूपस्य नाप्यवस्तुसामान्यात्मनः ।
भवत्वेवम्, तथापि तदेव तत्र प्रमाणमिति चेत्; आह— 'प्रामाण्यं नागृहीतेऽर्थे' इति । प्रमाणभावः प्रामाण्यम् अविसंवादित्वम्, अन्यद्वा प्रत्यक्षादेः न सम्भवति । कस्मिन् ? ५ अस्वलक्षणौ । कथम्भूते ? अगृहीते अप्रतिपन्ते । असम्बन्धेन प्रामाण्यस्य अत्रैव निराकरणादिति भावः । ततः किम् ? इत्याह- 'प्रत्यक्ष' इत्यादि । व्याख्यानमंत्र पूर्ववत् ।
भवेदपि प्रत्यक्षस्य प्रामाण्यं तत्रार्थप्रतिभासात्, नानुमानश्य तत्रावस्तुविपयत्वेन तदभावात् । तत्रापि खण्डादयोऽर्था एव अतत्कार्यकारिकर्कादिव्यावृत्तिविशिष्टाः प्रतिभासन्ते, तएव च तेषां सामान्यं नापरमेकं गोत्वादि तद्व्यवहारस्य तादृगर्थगोचरैरेव ज्ञानाभिधानैः १० प्रवर्तमानत्वेन मिध्यार्थत्वात् । तदुक्तम्
अर्थज्ञाने निविष्टास्ते ( अर्था ज्ञाननिविष्टास्ते ) यतो व्यावृत्तिरूपिणः । तेनाभिन्ना इवाभान्ति व्यावृत्ताः पुनरन्यतः ॥ त एव तेषां सामान्यं समानाकारगोचरैः । ज्ञानाभिधानैर्मिथ्यार्थो व्यवहारः प्रतायते ॥ " [ प्र० वा० ३। ७७-७८ ]
१५ इति चेत्;
२०
कथं पुनर्भेदस्य तत्स्वभावस्यापरामर्शे तेपां प्रतिभासनम् ? 'त एव प्रतिभासन्ते न प्रतिभासन्ते च' इति व्याघातात् । भेदरूपेणैवाप्रतिभासनं न रूपान्तरेणेति चेत् ; न ; निरंशवस्तुवादिनामेकत्र रूपभेदाभावात् । कल्पनया त कल्पितमेव रूपान्तरं तत्प्रतिभासिसामान्यं नार्थस्वरूपम्, इत्ययुक्तमुक्तम्- 'त एव तेषां सामान्यम्' इति । कथचैवं "पररूपं स्वरूपेण " [प्र०वा० ३।७० ] इत्यादिना संवृतिस्वरूपमेव सामान्यम् भावनानात्वप्रच्छादनमिति पूर्वं प्रतिपाद्य इदानीमन्यथावचनमुपपन्नं विस्मरणशीलतापत्तेः ? तन्न ततोऽर्थप्रतिभासनम्, अप्रतिभासि वन तस्य प्रामाण्यम् । तदाह - 'प्रामाण्यम् नागृहीतेऽर्थे' इति । यदि स्यात् ; नित्यत्वाद्यनुमानस्यापि किन्न स्यात् ? तस्यै तत्र प्रतिबन्धस्याप्यभावादिति चेत्; क्षणक्षयाद्यनुमानस्य कुतस्तत्र प्रतिबन्ध: ? प्रत्यक्षादिति चेत्; न; परकल्पितस्य तस्यैवाप्रतिपत्तेः । प्रतिपत्तावपि ततो नार्थवत् तत्कार्यस्यानुमानस्य परिज्ञानम्; स्वयं तदाकारत्वेन सविकल्पकापत्तेः । न च उभयोरपरिज्ञाने तत्सम्बन्धस्य परिज्ञानम्, “द्विष्ठसम्बन्ध संवित्ति - नैकरूपप्रवेदनात् ” [ प्र० वार्तिकाल ० १ | १ ] इति स्वयमेवाभिधानात् । विकल्पादपि न तत एव तस्य प्रतिपत्तिः ; तेन स्त्रग्रहणेऽपि अर्थस्याग्रहणात् । विकल्पान्तरेणापि स्वांशमात्रपर्यवसायित्वेन तद्व्यतिरिक्तस्य तस्याग्रहणात् । न च तद् अनुमानादन्यदेव; तृतीयस्यापि
२५
१ "विषयविषयिभावसम्बन्धाभावेन" - ता०टि० । २ " न हीतरप्रतिपन्नयोस्तयोस्तद्विपयत्वमित्यादिना "ता० टि० । ३ " अर्था ज्ञाननिविष्टास्ते यतो व्यावृत्तरूपकाः " - प्र० वा० । ४ " अनुमानात् " - ता०वि० । ५ नित्यत्वाद्यनुमानस्य । ६ नित्यत्वादौ । ७ क्षणक्षयादौ । ८ क्षणक्षयायनुमानत एव । ९ प्रतिबन्धस्य । १० विकल्पान्तरम् ।