________________
१११२८ ]
प्रथमः प्रत्यक्ष प्रस्तावः
४८३
प्रमाणस्य प्रसङ्गात् । अनुमानमेव अर्थक्रियाप्राप्तिलिङ्गेजमिति चेत्; न; तस्यापि तत्रागृह प्रतिबन्धात् प्रामाण्ये 'कुतस्तत्र प्रतिबन्ध:' इत्यनुषङ्गात् अनवस्थापत्तेश्च ।
तदनेन मणिप्रभामणिज्ञानस्यापि मणौ प्रतिबन्धश्चिन्तयितव्यः । तत इदमपि निर्विषयमेव परस्य भाषितम्
“लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि ।
प्रतिबन्धात्तदाभासशून्य योरप्यवञ्चनम् ||" [ प्र० वा० २।८२ ] इति । को वा सोऽर्थो यत्र तस्य प्रतिबन्धः, यतोऽप्यर्थक्रियावाप्ति: ? एकान्तनिरंशक्षणिकपरमाणुलक्षण इति चेत्; न; तादृशस्य मणेरप्यप्रतिपत्तेः । तत इदमशक्योपपादनमेव
“मणिप्रदीपप्रभयोर्मणिबुद्धयाभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ।। यथा तथा [s] यथार्थत्वेऽप्यनुमानतदाभयोः ।
अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥” [प्र०वा० २।५७-५८ ] इति । दृष्टान्ते दाष्टन्तिके च परकल्पितस्यार्थस्याभावे तदर्थक्रियाया एवासम्भवात् 'विशेषोऽर्थक्रियां प्रति' इति, 'अर्थक्रियानुरोधेन' इति च वक्तुमशक्यत्वात् ।
1
नन्वेवंविचारे नानुमानं न च तदभ्यासजं प्रत्यक्षमिति सकलव्यवहारविलोप:, ततो १५ व्यवहारं परिपालयता तत्प्रामाण्यमकृत विचारमेवाभ्युपगन्तव्यमिति चेत्; न; नित्यत्वाद्यनुमानस्यापि तथा तदभ्युपगमप्रसङ्गात् व्यवहारस्य प्रायशः तद्विषयादेवोपपत्तेः । तदाह'प्रत्यक्षेतरगोचरौ' प्रत्यक्षादितरदनुमानं तस्य गोचरौ विषयौ कथं न प्रकल्प्येते ?, प्रकल्प्येते एव, कथमित्यस्य प्रक्रान्तेन नया सम्बन्धात् । कौ ? तद्गौचरो कथं न प्रकल्प्येते भेदाभेदौ । भेदश्च उपलक्षणमिदं निरंशत्वादेः, अभेदश्च, इदमप्युपलक्षणं व्यापित्वादेः, २० तौ इति । अभेदस्यैव तद्गोचरत्वप्रकल्पना वक्तत्र्या न भेदस्य तत्र सौगतस्यापि ( स्याविप्रतिपत्तेरिति चेत्; न; दृष्टान्तार्थस्वात् तद्वचनस्य । यथा भेदस्याकृतविचारमेव तद्गोचरत्वं तद्वदभेदस्यापि वक्तव्यमिति । कैः पुनस्तौ तथा कथन्न प्रकरूप्येते ? इत्याह- आत्मविकल्पकैः । आत्मानं कूटस्थ नित्यमीश्वरादिकं ये विशेषेण कल्पयन्ति नैयायिकादयः तैरिति । ततो नित्यत्वाद्यनुमानव्युदासेन क्षणिकत्वाद्यनुमानस्यैव प्रामाण्यं व्यवस्थापयता २५ वस्तुग्राहित्वं तस्याभ्युपगन्तव्यम् । तथा च सिद्धं तद्वदेव सम्भवक्रमानेकधर्माधिष्ठानभावविकल्पस्यापि वस्तुविषयत्वं निर्बाधत्वात्, अन्यथाऽर्थवेदिनः संवेदनस्यैवाप्रतिपत्तेरिति स्थितं सामान्यविशेषात्मकत्वं प्रत्यक्षविषयस्य ।
साम्प्रतमुक्तमेवार्थमनुग्रहपरत्वात् शिष्याणामनुस्मरणाय
१ - लिङ्गमिति आ०, ब०, प० । २ -भामणैर्ज्ञा - ता० ।
श्लोकानां
विंशत्या
१०