________________
४८४
न्यायविनिश्चयविवरणे
[ १२१२८-१३१
सङ्गृह्य कथयन्नाह
उत्पादविगमध्रौव्यद्रव्यपर्यायसङ्ग्रहम् ॥१२८॥
सद्भिन्नप्रतिभासेन स्याद्भिन्नं सविकल्पकम् । इति ।
सद् अर्थक्रियासमर्थमिदं धर्मि, सत्रेदं साध्यम्-उत्पादविगमधोव्याण्येव द्रव्यम् ५ "उप्पायद्विदिभंगा हवंति दव्वियलक्खणं एयं ।" [सन्मति०१।१२] इति वचनात् , तच्च पर्यायाश्च तेषां सङ्ग्रहः परस्परतादात्म्येन स्वीकारो यस्मिन् तत्तथोक्तम् । कुत एतत् ? इत्यत्राह-सविकल्पकम् सांशं यतः । निरंशत्वे हि तत्समहत्वं सतो न स्यात् । सविकल्पकत्वे हेतुमाह-स्यात् कथञ्चिद् भिन्न भिन्नतया प्रतिपन्नम्। केन ? भिन्नप्रतिभासेन ।
यद्येवं भिन्नमेव तदस्तु नाभिन्नमित्यत्रांह
अभिन्नप्रतिभासेन स्यावभिन्नम् [ स्वलक्षणम् ] ॥१२९॥ इति । सुबोधमिदम् । सामान्यमेव तादृशमिति चेत् ; आह-'स्वलक्षणम्' इति । कथं पुनः परस्परविरुद्धभेदाभेदधर्माधिष्ठानमेकं वस्त्विति चेत् ? आह
विरुद्धधर्माध्यासेन स्याविरुद्धं न सर्वथा । इति । एतदेव कुत इत्याह
असम्भवदतादात्म्यपरिणामप्रतिष्ठितम् ॥१३०॥
असम्भवंश्वासावतादात्म्यपरिणामश्च असम्भवदतादात्म्यपरिणामः सम्भव. त्तादात्म्यपरिणाम इत्यर्थः । तत्र प्रतिष्ठितं प्रमाणेन पूर्व स्थापितं यत ति । अनेने भेदाभेदयोरेकत्र समवाय एव न तादात्म्यमिति प्रतिक्षिप्तम् ।
पुनरपि तद्विशेषणमाह
समानार्थपरावृत्तमसमानसमन्वितम् । इति ।
समानार्थाःशक्तिसादृश्येन तुल्याः मृत्पिण्डस्य दण्डादयः तेभ्यः परावृत्तमपसृतम् । अनेन साङ्ख्यकल्पितं वस्तुसाङ्कय प्रतिक्षिप्तम्। असमानो विसदृशपरिणामः तेन समन्वितं सङ्गतम् । अनेनापि 'सर्वमेकान्तेनाभिन्नम्' इति ब्रह्मवादिमतं प्रतिध्वस्तम् । कुतः पुनः तदित्थमित्याह
[प्रत्यक्षं बहिरन्तश्च परोक्षं स्वप्रदेशतः। ॥१३०॥ २५ प्रत्यक्ष प्रत्यक्षवेद्यं यतः । क ? 'बहिरन्तश्च' इति । यद्येवं प्रत्यक्षत एव तथा
तस्य प्रतिपत्तेः, प्रमाणान्तरस्य वैफल्यमिति चेत् ; आह-'परोक्षं स्वप्रदेशतः' इति । ततो न तद्वैफल्यमिति भावः । कथं पुनरेकमेव स्वलक्षणं तथा प्रत्यक्षं परोक्षश्चेति चेत् ? अत्राह
सुनिश्चितमनेकान्तमनिश्चितपरापरैः । इति ।।
१-भंगा भवन्तिद -ता० । २ अनेकभेदा-आ०, ब०, ५० ।