Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 518
________________ ४४८ म्यायविनिश्चयविवरणे [१।१२१ वस्तुतस्तज्ज्ञानम् अभिलाप्याकारस्य तत्र कल्पितत्वादिति चेत् ; न ; स्वतस्तत्कल्पनस्य प्रत्यक्ष. वदसम्भवात् , अन्यतश्चानवस्थापत्तेः। कुतो वा परस्पराभावरूपत्वं भेदाभेदयोः ? प्रत्यक्षादिप्रेमाणादिति चेत् ; न ; तत्र सम्मूच्छिततदुभयस्वभावस्यैव सर्पादेर्भावस्य प्रतिभासनात् । नयादिति चेत् ; न ; तत्रापि ५ सम्यगभिसन्धिरूपे प्रतिभासमानस्याप्येकस्य अपराभावत्वेनाप्रतिभासनात् , अपरत्र विधिवत् प्रतिषेधस्याप्यनभिसन्धेः । एकावधारणाभिसन्धिस्तु मिथ्यैव प्रमाणव्यापारप्रतिद्वन्द्वित्वादिति न तद्बलेनान्योन्याऽभावरूपत्वं द्रव्यपर्याययोः, यतो द्रव्यस्यैव पर्यायरूपतया पर्यायस्यैव च द्रव्यरूपतया एकस्यैव द्वैरूप्यं न भवेत् । यदप्युक्तम् _ "अन्योन्याभावरूपाश्च पर्यायाः स्युन भेदिनः। तद्विनाशे[5]विनाशि स्याद् द्रव्यं वा कथमन्यथा ॥"[हेतु०टी०पृ० १०६]इति; तत्रापि पर्यायाणामभेदित्वं नाशित्वश्च द्रव्यस्य यदि कथञ्चित् ; अनुमतमेव, द्रव्यमेव नश्यति पर्यायनाशात् , पर्याया एव तिष्ठन्ति द्रव्याविनाशादिति प्रतीतिबलेनाभ्यनुज्ञानात् । एकान्तेन तु तत्कल्पनमनुपपन्नं तद्बलेन प्रतिक्षेपात् ; अन्यथा विकल्पज्ञानमपि तदाकारवदेकान्तेन व्यावृत्तमेव नानुवृत्तमिति प्रत्याकारं तद्भेदान्नोभयात्मकमेकं तद्भवेत् । तथा तदाकारयोरप्येका१५ न्तेनाभेद एवेति निर्विकल्पकमेव तत् न कश्चिदपि विकल्प इति तन्निबन्धनस्य वाङ्मयव्यवहारस्या भावात कथमनेकान्तदोषोद्घोषणम् । विकल्पकमेव वा तदिति कथं तत्स्ववेदनस्य प्रत्यक्षत्वं कल्पनापोढस्यैव तदुपपत्तेः । नाप्यव्यतिरिक्तस्यानुमानत्वमिति अन्यदेव तत्प्रमाणं प्रमाणद्वयनियमव्याघाताय कल्प्येत । न चाऽस्वसंविदितमेव तत् “सर्वचित्तचैत्तानाम्" [न्यायबि० पृ० १९] इत्यादेविरोधात् । ततः कथञ्चिदेव तज्ज्ञानस्य व्यावृत्तत्वमभिन्नत्वञ्च तदाकारयोरिति प्रतीति२० वशात् प्रतिपत्तव्यम् । तथा द्रव्यस्य नाशित्वमभिन्नत्वञ्च पर्यायाणामिति न कश्चिद्व्याघातः । ततो यथा नेदं विकल्पे दूषणम्-'तद्धर्मयोराकारयोः तस्य तंत्र वा तयोरनुप्रवेशे ऐकान्तिको भेदाभेदौ, अननु वशे धर्मधर्मिणोः भेद एव नापरः। तथाहि-येनात्मना ज्ञानं तदाकाराविति च यदि तेन भेदः, तदा भेद एव नैकस्य द्वैरूप्यम् । न च ज्ञानतदाकाराभ्यामपरस्वभावो यन्निमित्त. स्तयोरभेदः। सतोऽपि "तस्माद्यदि ज्ञानतदाकारयोरभेदः सदा "स एव न ताविति तयोः स्वभा. वहानिः "तस्मात्तयोर्भेदोऽप्यस्तीति चेत् ; तत्रापि येनात्मना ज्ञानं तदाकारौ तदन्यश्चेति यदि तेन भेदः; तदा भेद एव तेषामप्यभेदसिद्धये "परस्वभावकल्पनायां पूर्वप्रसङ्गाऽनिवृत्तिः, धर्मित्वश्च तस्यैव स्यात्तदायत्तत्वात् ज्ञानतदाकारयोः । न चापरिनिष्ठितापरापरस्वभावं तज्ज्ञानं प्रतीयते इति । कस्मात् ? एकान्ततोऽनुप्रवेशस्य, ज्ञानतदाकारव्यतिरिक्तस्य तदभेदरूपस्य चानभ्युपगमात् । न चैवं भेद एव तयोः; स्वत एव कथञ्चित्परस्पराभिन्नतया निर्बाधप्रतीत्यपारूढत्वात् । तथा विकल्पज्ञानम् । २-माणभेदादिति आ०,०प०।३ -कमेतन्न कश्चिद्विक-आ०,०प० । ४ प्रत्यक्षत्वोपपत्तः । ५ तदा आ०,ब०प० । ६ यदा आ०,ब०प०। ७ सप्तमीद्विवचनम् । ८ विकल्पस्य । ९ विकरुपे । १. अपरखभावात् । ११ अभेद एव । १२ अपरखभावात् । १३ -द्धपर-आ०,ब०प० ।

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618