Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 572
________________ भ्यायविनिश्चयविवरणे [१।१५१ सन्निवेशादिवद् वस्तु सांवृतं किन्न कल्प्यते । इति । ___ सनिवेशो रचनाविशेषः संस्थानमिति यावत् । स आदिर्यस्य सदृशपरिणामादेः स इव तद्वत् "सुप इव" [शाकटा० ३।३।२] इति प्रथमान्तात् वत् प्रत्ययः । वस्तु रूपादिः सांवृतं संवृतेः कल्पनाया आगतम् किं कस्मात् न कल्प्यते ? कल्प्यत एव शक्यं हि ५ वक्तुम्-अरूपादिव्यावृत्त्या रूपादिरपि कल्पनोपदर्शित एव न तात्विक इति । रूपाधभावे कस्यारूपादेः व्यावृत्तिरिति चेत् ? स्थूलादेरभावेऽपि कस्यास्थूलादेः व्यावृत्तिः १ रूपादेरेव, तस्यैव स्थूलादितया परिकल्पनादिति चेत् ; अन्यत्रापि स्थूलादेरेव, तस्यैव रूपादितया परि. कल्पनादिति समानश्चः। भवतु वस्त्वपि सांवृतमेवेति चेत् ; कुतस्तस्य परिक्षानम् ? अवस्तुस्वेन स्वतस्तद. १० योगात् । अन्यत इति चेत ; न ; ततोऽप्यतदाकारात्तदसम्भवात् । तदाह अप्रसिद्धं पृथसिद्धम् [उभयात्मकमञ्जसा] अप्रसिद्धं प्रमाणनिश्चि' न भवति । किम् ? पृथक् ज्ञानादर्थान्तरतयाऽनाकारार्प. कत्वेन सिद्धं निष्पन्नं सन्निवेशादिरूपादिकम्; सर्वथा तदाकाराच्च न ततस्तस्य परिज्ञानं तस्यापि तद्वदवस्तुत्वात् । पुनस्तदन्यस्य सर्वथा तदाकारस्य कल्पनायामनवस्थापत्तेः । कथञ्चित्तदा१५ कारत्वे च सिद्धं तद्वास्तवेतरस्वभावं तदाह-'उभयात्मकम्' इति । भवतु ततः किम् १ इत्यत्राह-अञ्जसा इत्यादि । सन्निवेशादि वदन्तीति सन्निवेशादिवदो जैना: ? 'विच्येवं रूपात् तेषां वस्तु रूपस्थूलादिरूपतयाऽनेकान्तात्मकं सांवृतं भवदभिप्रायेण किन्नेष्यते ? इध्यत एव । कथम् ? अञ्जसा परमार्थेन । तात्पर्यमत्र सत्येतरस्वभावं चेदेकं वस्तूपगम्यते । वस्तुतस्तर्हि रूपादिसंस्थानाद्यात्मकं तथा ॥ ११५९ ।। तथा च तद्वत्सामान्यविशेषात्मापि तत्त्वतः । वक्तव्यं वस्तु तद्बुद्धिदेवताकोपभीरुभिः ॥ ११६० ॥ अनेकान्तात्मके भावे सत्येवमुपपादिते । खण्डशोऽपि परिज्ञानं न वस्तुषु विरुद्धयते ॥ ११६१ ॥ निरंशार्थप्रवादे हि वस्तुनः सर्वथाग्रहात् । न क्वचिद्विभ्रमो नाम भवेदित्याह शास्त्रकृत् ॥ ११६२ ॥ समग्रकरणादीनामन्यथा दर्शने सति ॥१५०॥ सर्वात्मनां निरंशत्वात् सर्वथा ग्रहणं भवेत् । इति । अन्यथा अनेकान्तादन्येन' प्रकारेणैकरूपेण दर्शने अभ्युपगमे सति विद्यमाने ३० सौगताद नां सर्वथा सर्वेण चन्द्रादेवर्तुलत्वादिनेवैकादित्वादिनापि प्रकारेण ग्रहणं भवेत् । १-पादिकः सां-आ०, ब०, प० । २ विच् प्रत्यये सति । ३ तदा आ०, ९, १०

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618