Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 574
________________ ५०४ न्यायविनिश्चयविवरणे [१।१५४ इदमेवाह तस्माद् दृष्टस्य भावस्य न दृष्टस्सकलो गुणः ॥१५३॥ इति । तस्मात् प्रागुक्तादनेकान्तात् तमाश्रित्य दृष्टस्य उपलब्धस्य भावस्य चन्द्रादेः न दृष्टो नोपलब्धः सकलः समप्रो गुणः स्वभावः विप्लवाकारविवेकादिलक्षणो नैकान्तात् तत्र ५ दृष्टस्यादृष्टस्वभावविरोधात् । भवतु दृष्ट एव तत्र सकलोऽपि गुण इति चेत् ; उत्तमत्र- कुतो विभ्रम इति । अन्यत इति चेत् ; न ; ततोऽप्यचन्द्रप्रतिमासात् तत्र विभ्रमे अतिप्रसङ्गात् । नापि चन्द्रप्रतिभासात् ; तत्रापि सर्वगुणतयैव तस्य प्रतिभासात् । तत्राप्यन्यतो विभ्रमकल्पना. यामनवस्थापत्तेः । ततो यदुक्तम् "तसाद् दृष्टस्य मावस्य दृष्ट एवाखिलो गुणः ।" [प्र.वा० ३।४४] इति; तदुपपद्यत एवैकान्तो यदि लभ्येत । इदं तु न युक्तम् "भ्रान्तेनिश्चीयते नेति साधनं सम्प्रवर्तते ।” [प्र०वा० ३।४४] इति ; सर्वात्मना वस्तुदर्शने भ्रान्त्यभावस्य निवेदितत्वात । तदेवं रूपसंस्थानात्मकत्ववत् दृश्येतरात्मकत्ववच्च सामान्यविशेषात्मके वस्तुनि व्यवस्थिने सति यत्परस्यापद्यते तदाह प्रत्यक्षं कल्पनापोढं प्रत्यक्षादिनिराकृतम् । इति । प्रत्यक्ष प्रत्यक्षवेद्यं 'ज्ञानज्ञेयलक्षणं वस्तु कल्पनापोढं जात्यादिकल्पनारहित यत्परस्येष्टं तत् प्रत्यक्षेण आदिशब्दादनुमानादिना च निराकृतम् । अनेन "प्रत्यक्ष कल्पनापोढम्" [ प्र० वा० २।१२३ ] इत्यस्य पक्षाभासत्वं अवता न हेतुभिः परित्राणमित्यावेदितं भवति । निगमयमाह अध्यक्ष लिङ्गतस्सिद्धमनेकात्मकमस्तु सत् ॥१५४॥ इति । सत् विद्यमानम् अनेकात्मकम् अनेकस्वभावम् अस्तु भवतु। कुतः ? सिद्धं निश्चितं यतः । कुतस्सिद्धम् ? अध्यक्षलिङ्गतः अध्यक्षश्च लिङ्गच ताभ्यां ततः । न हि प्रमाणसिद्धे वस्तुन्यनस्तुकारः प्रेक्षावतो युक्त इति भावः। भवतु नाम प्रत्यक्षात् तत् "सिद्धं तस्य निश्चितलक्षणत्वात् लिङ्गात्तु कथं तस्य निश्चेष्यमाणलक्षणत्वादिति चेत् ; न ; तस्यापि 'विषयतः प्रत्यक्षनिश्चयादेव निश्चयात् । न हि प्रत्यक्षविषयादन्यथा तस्य विषयः प्रत्यक्षवा. धित्वेनाप्रामाण्यप्रसङ्गात् । न चैवं पुनस्तन्निश्चयकरणस्यापार्थकत्वम् ; तस्य लक्षणविप्रतिपत्ति. २० १ज्ञानं ज्ञे-आ.,ब०, ५०।२न तस्य हेतुभिस्त्राणमुत्पतम्नेव यो हतः।"-ता. टि०। ३ वस्तुन्यवस्तुका-श्रा०, ब०, प० । ४ अखीकारः । ५ सिद्ध निश्चि-आ०,०,प. लिङ्गस्य ।

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618