Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 556
________________ ४८६ न्यायविनिश्चयविवरणे [१२१३२.१३४ प्रत्यभिज्ञाविशेषात्तदुपादानं प्रकल्पयेत् ॥१२॥ अन्योन्यात्मपगवृत्तभेदाभेदावधारणात् । मिथ्याप्रत्यवमर्शेभ्यो विशिष्टात् परमार्थतः ॥१३३॥ इति । तत् विवक्षितं वस्तु उपादानम् उत्तरस्य कार्यस्य सजातीयं कारणं प्रकल्पयेत् ५ समर्थयेत् सौगतो यतः, तस्माञ्च सुनिश्चितमनेकान्तमिति। कुतस्तत्प्रकल्पयेत् ? प्रत्यभिज्ञैवान्यस्मात् विशिष्यमाणत्वात् विशेषस्तस्मात् प्रत्यभिज्ञाविशेषात् । इदमेवाह-मिथ्याप्रत्यवम. शेभ्यो लूनपुनर्जातनखकेशाधेकत्वप्रत्यभिज्ञानेभ्यः , उपलक्षणमिदम् , तेन सादृश्यप्रत्य. भिज्ञानेभ्यश्च विशिष्टात् तत्त्वतः परमार्थतः। कुतस्तदित्थम् ? अन्योन्यमात्मानौ परावृत्तौ च यौ भेदाभेदी तयोरवधारणात् निश्चयनात् । तदिति स्मरणम् इदमिति च प्रत्यक्षम्, न ताभ्यामन्यत् प्रत्यभिज्ञानं यतस्तयोरवधारणमिति चेत् ? अत्राह तथा प्रतीतिमुल्लङ्य यथास्वं स्वयमस्थिते । नानकान्तग्रहग्रस्ता नान्योन्यमतिशेरते ॥१३४॥ इति । नानाऽनेकरूपाः क्षणिकायेकान्ता नानैकान्ताः त एव ग्रहाः व्यामोहनिबन्धनत्वात् १५ तेप्रेस्ता वशीकृताः सौगतादयो नान्योन्यं न परस्परम् अतिशेरते अतिशयं लभन्ते । कस्मात् ? यथास्वं स्वमतानतिक्रमेण स्वयम् आत्मना अस्थितेः अवस्थानाभावात् । किं कृत्वा अस्थिते: ? तथा तेन तदिदमित्युभयोल्लेखाभेदप्रकारेण वा या प्रतीतिस्तामुल्लड्य प्रतिक्षिप्य । तथा हि यथा न प्रत्यभिज्ञानं प्रत्याकारं विभेदैनात् । तद्वत् प्रत्यणु निर्भेदात् प्रत्यक्षमपि नो भवेत् ॥ ११४३।। अनुमानञ्च तत्पूर्व प्रत्यक्षासम्भवे कथम् ? । तदत्यये कुतस्तत्त्वं सौगताः साधयन्त्यमी ॥ ११४४।। अद्वैतशून्यवादौ तु प्रागेव प्रतिभाषितौ । अनेकाकारमेकं तत् प्रत्यक्षं युक्तकल्पनम् ॥११४५।। तदिदं द्वितयोल्लेखं तद्वत् प्रत्यवमर्शनम् । भेदेतरात्मनोऽर्थस्य ततः किन्नावधारणम् ॥ ११४६ ॥ तत्प्रतीत्यपलापे तु तदन्यार्थाप्रवेदनात् । एकान्तवादिनः सर्वे नान्योन्यमतिशेरते ॥ ११४७ ॥ भवतु तत्र सुनिश्चितमनेकान्तं यत्र पूर्ववदुत्तरस्यापि दर्शनम् , प्रत्यभिज्ञानस्य १-भयोर्लेखाभे-आ०, ब०, ५०।२ विभेदतः आ०, ब०, प० ।

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618