________________
४८६
न्यायविनिश्चयविवरणे
[१२१३२.१३४ प्रत्यभिज्ञाविशेषात्तदुपादानं प्रकल्पयेत् ॥१२॥ अन्योन्यात्मपगवृत्तभेदाभेदावधारणात् । मिथ्याप्रत्यवमर्शेभ्यो विशिष्टात् परमार्थतः ॥१३३॥ इति ।
तत् विवक्षितं वस्तु उपादानम् उत्तरस्य कार्यस्य सजातीयं कारणं प्रकल्पयेत् ५ समर्थयेत् सौगतो यतः, तस्माञ्च सुनिश्चितमनेकान्तमिति। कुतस्तत्प्रकल्पयेत् ? प्रत्यभिज्ञैवान्यस्मात् विशिष्यमाणत्वात् विशेषस्तस्मात् प्रत्यभिज्ञाविशेषात् । इदमेवाह-मिथ्याप्रत्यवम. शेभ्यो लूनपुनर्जातनखकेशाधेकत्वप्रत्यभिज्ञानेभ्यः , उपलक्षणमिदम् , तेन सादृश्यप्रत्य. भिज्ञानेभ्यश्च विशिष्टात् तत्त्वतः परमार्थतः। कुतस्तदित्थम् ? अन्योन्यमात्मानौ परावृत्तौ च यौ भेदाभेदी तयोरवधारणात् निश्चयनात् ।
तदिति स्मरणम् इदमिति च प्रत्यक्षम्, न ताभ्यामन्यत् प्रत्यभिज्ञानं यतस्तयोरवधारणमिति चेत् ? अत्राह
तथा प्रतीतिमुल्लङ्य यथास्वं स्वयमस्थिते ।
नानकान्तग्रहग्रस्ता नान्योन्यमतिशेरते ॥१३४॥ इति ।
नानाऽनेकरूपाः क्षणिकायेकान्ता नानैकान्ताः त एव ग्रहाः व्यामोहनिबन्धनत्वात् १५ तेप्रेस्ता वशीकृताः सौगतादयो नान्योन्यं न परस्परम् अतिशेरते अतिशयं लभन्ते ।
कस्मात् ? यथास्वं स्वमतानतिक्रमेण स्वयम् आत्मना अस्थितेः अवस्थानाभावात् । किं कृत्वा अस्थिते: ? तथा तेन तदिदमित्युभयोल्लेखाभेदप्रकारेण वा या प्रतीतिस्तामुल्लड्य प्रतिक्षिप्य । तथा हि
यथा न प्रत्यभिज्ञानं प्रत्याकारं विभेदैनात् । तद्वत् प्रत्यणु निर्भेदात् प्रत्यक्षमपि नो भवेत् ॥ ११४३।। अनुमानञ्च तत्पूर्व प्रत्यक्षासम्भवे कथम् ? । तदत्यये कुतस्तत्त्वं सौगताः साधयन्त्यमी ॥ ११४४।। अद्वैतशून्यवादौ तु प्रागेव प्रतिभाषितौ । अनेकाकारमेकं तत् प्रत्यक्षं युक्तकल्पनम् ॥११४५।। तदिदं द्वितयोल्लेखं तद्वत् प्रत्यवमर्शनम् । भेदेतरात्मनोऽर्थस्य ततः किन्नावधारणम् ॥ ११४६ ॥ तत्प्रतीत्यपलापे तु तदन्यार्थाप्रवेदनात् ।
एकान्तवादिनः सर्वे नान्योन्यमतिशेरते ॥ ११४७ ॥ भवतु तत्र सुनिश्चितमनेकान्तं यत्र पूर्ववदुत्तरस्यापि दर्शनम् , प्रत्यभिज्ञानस्य
१-भयोर्लेखाभे-आ०, ब०, ५०।२ विभेदतः आ०, ब०, प० ।