________________
प्रथमः प्रत्यक्षप्रस्ताव
१११३५.१३६]
४८७ तन्निश्चयहेतोस्तत्र सम्भवात् , यत्र तु पूर्वस्यैव दर्शनं न परस्य तत्र कथं वेत् ? न ह्यप्रतिपन्नस्य पूर्वाभेदेनान्यथा वा प्रत्यभिज्ञानं सम्भवतीति चेत् ; अत्राह
शब्दादेरुपलब्धस्य विरुद्ध परिणामिनः । पश्चादनुपलम्भेऽपि युक्तोपादानवद्गतिः ।।१३५॥ इति ।
शब्दस्य आदिशब्दाद् विद्युदादेश्च उपलब्धस्य मध्यावस्थायां प्रत्यक्षस्य विरुद्ध- ५ परिणामिनो विरुद्धो दृश्याददृश्यः स एव परिणामः स विद्यतेऽन्येति विरुद्धपरिणामी तस्य । पश्चाद् उत्तरकालम् अनुपलम्भेऽपि अदर्शनेऽपि युक्ता उपपन्ना गतिरानुमानिकीति । निदर्शनमुपादानस्येव उपादानवदिति।
एतदुक्तं भवति - शब्दादेरुत्तरपरिणामस्यायोग्यत्वेनादर्शनेऽपि अनुमानतोऽवगमात् कथन्न प्रत्यभिज्ञानं यतस्तत्रापि सुनिश्चितमनेकान्तं न भवेदिति युक्तम्-उपादानस्योपलब्धाच्छब्दादेख्नुः ।। मानम् तस्य निरुपादानस्यायोगात,नोपादेयस्य,कारणस्य कार्यवत्त्वनियमाभावादिति चेत् ;अत्राह
तस्यादृष्टमुपादानमदृष्टस्य न तत्पुनः ।
अवश्यं सहकारीति विपर्यस्तमकारणम् ॥१३६।। इति ।
तस्य उपलब्धस्य शब्दादेः अदृष्टम् अनुपलब्धम् उपादानं पूर्वशब्दाद्युपादानम् । अदृष्टस्य उत्तरतत्परिणामस्य तत् शब्दादि पुनरिति वितकें न उपादानम् इति एवं सौगतेन १५ विपर्यस्तं वैपरीत्यं नीतम् शब्दादिकमवस्तुकृतमिति यावत् । अत्र निमित्तम्-अकारणमजनक यत इति । न हि अकारणस्य वस्तुत्वं व्योमकमलवत् । सजातीयमकुर्वतोऽपि विजातीयस्य योगिज्ञानादे: करणात् कथमकारणत्वं तस्येति चेत् ? आह-अवश्यं नियमेन सहकारि योगिज्ञानादिकार्यसचिव नेति सम्बन्धः, सजातीयमतन्वतो रूपादेरिव तदयोगात्, अन्यथा तस्यापि कदाचित् तदेव स्यात् न सजातीयोपादानत्वमित्यसङ्गतमिदं भवेत्.-"रूपादे रसतो २० गतिः"[प्र.वा०३।८] इति, तस्यासन्तानितस्य रसकाले सम्भवाभावात् । ततः सजातीयवद् विजातीयेऽपि तस्याकारणत्वादवस्तुत्वमापतत् तत्कारणपरम्परामप्यवस्तुभूतामुपकल्पयेत् । न चैवम्, अतस्तस्योभयत्रापि कारणत्वादुपपन्ना तस्मादुपादानवदुपादेयस्यापि प्रतिपत्तिः । कथमेवं कार्यस्वभावानुपलब्धिभेदेन त्रिविधमेव लिङ्गं कारणस्यापि लिङ्गत्वान् ? तस्य स्वभावहेतावन्त
र्भावादिति चेत्, न; साध्यादर्थान्तरत्वेन स्वभावहेतुत्व नुपपत्तेः । तथाविधस्यापि तत्साधर्म्यात् २५ तत्त्वमविरुद्धमेव । नैरपेक्ष्यश्च तस्य तत्साधर्म्यम् । प्रसिद्ध हि कृतकत्वादेस्तद्धेतोरनित्यत्वादी नैरपेक्ष्यम्, तस्य तन्मात्रानुबन्धित्वात् , तथा कारणस्याप्यन्त्यक्षणप्राप्तस्य कार्ये तस्यापि तन्मात्रा.
कथं संभवानह्य-आ०, ब०, प० । २ "सुनिश्चितमनेकान्तमित्यत्रापि सम्बन्धः।"-ता. टि.। ३ यदुक्त' भवति आ०, ब०, ५०। ४ अनुमानमिति सम्बन्धः। ५-लब्धं पूर्व-आ०, ब०,५०। ६ अकारणजन-आ०, ब०, प० । ७ सहकारित्वायोगात् । ८ -वन्तर्भाव इति आ०, ब०, ५०। ९ तस्वमपि विरु-आ०, ब०, ५०।१० 'नरपेक्ष्यम्' इत्यन्वयः।