________________
૧૮૮
न्यायविनिश्चयविवरण
[१११३८ नुबन्धित्वाविशेषादिति चेत् ; किमिदं तस्य तन्मात्रानुबन्धित्वम् ? न सहभावनियमः; पश्चादेव भावात् । स्वकालेऽवश्यम्भाव इति चेत् ; न; कार्यहेतोरपि तद्धेतुत्वप्रसङ्गात् । न हि तस्मिन्नपि सति स्वकालेनावश्यम्भावः कारणस्य, कार्यहेतोरेवाभावप्रसङ्गात् । तदीयतेः स तस्य नेति
चेत् ; माभूत् तथापि तन्मात्रानुबन्धिनस्तस्य प्रत्यायने नैरपेक्ष्यस्य कृतकत्वादिसाधर्म्यस्याविशे५ षात्, तथा चैकः स्वभावहेतुः स्यानापरः, अनुपलब्धेरपि तद्विशेपत्वेनाभ्यनुज्ञानात् । ततो
यथा तत्साधम्र्येऽपि कार्यस्य ततो भेद एव साध्यादर्थान्तरत्वात् तथा कारणस्यापि । ततो निरोकृतमेतत--
"हेतुना यः समर्थेन कार्योत्पादोऽनुमीयते । अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः ॥” [प्र०वा० ३।६] इति ।
एवं सति सङ्ख्याव्याघात इति चेत् ; भवतु परस्यैवायं दोपः । न दोषः,तस्य स्वभा. वान्तर्भावाभावेऽपि कार्यहेतावन्तर्भावात् , कारणमप्यवश्यम्भावि कार्य कार्यान्न विशिष्यते इत्यभ्युपगमादिति चेत् , एवमपि कार्यमेवैको हेतुर्भवेत् स्वभावस्यावश्यम्भाविसाध्यस्यैव तत्कार्यतापत्तेः । तदभेदे कथं तत्कार्यतेति चेत् ?साधनता कथम् ?भेदकल्पनाचेत् ;न; तत एव तत्का.
यत्वस्याप्युपपत्तेः । तादात्म्यादेव गमकत्वे किं तत्कार्यत्वेनेति चेत् ? न; तत एव गमकत्वे कि १५ तादात्म्येनेत्यप्युपनिपातात, प्रत्युत तत्कार्यत्वमेवात्रोपपन्नकल्पनम् , साध्यसाधनभावभेदानुकूल.
त्वात्, न तादात्म्यं विपर्ययात् । तन्नायमत्र परिहार इति लिङ्गसङ्खमविरोधि चतुर्थमेव तस्लिङ्गमिति कथं न परस्यायं दोषः ? निगमयन्नाह
तदेवं सकलाकारं तत्स्वभावैरपोद्धृतः। निर्विकल्पं विकल्पेन नीतं तत्त्वानुसारिणा ॥१३७॥
समानाधारसामान्यविशेषणविशेष्यताम् । इति ।
तत् उक्तलक्षणं स्खलक्षणम् एवम् अनेन प्रकारेण सकलाः सम्पूर्णाः आकाराः गुणपर्यायलक्षणा यस्य तत् सकलाकारम् । कैस्तत्तथेत्याह--तस्यैव स्वभावाः स्वधर्माः तैरेव नान्यदीयैः । अस्तु तैस्तत्र समवेतैस्तत्तथेति चेत् ; आह-- निर्विकल्पम् तेभ्यस्तस्य पृथक्त्वं विकल्पः तस्मानिष्क्रान्तम् । कथश्चित्तदव्यतिरिक्तं तथैव प्रतीतिभावादिति भावः । यदि वा , येमात्मानमाश्रित्य भेदो यच्चाश्रित्याभेद इति यो विकल्पः. सौगतादेः तस्मान्निष्क्रान्तम् । प्रत्यक्षतः तत्रात्मभेदस्याप्रतिपत्तौ तथा विकल्पस्यानुपपत्तेः । यदैवं कथं तत्र सामानाधि. करण्यादिकं तस्य भेदोपाश्रयत्वादिति चेत् ? न ; तैरेव तत्स्वभावैः नयबुद्ध्या पृथक्कृतैः तदुपपत्तेः । तदाह-तत्स्वभावैरपोधृतैः परस्परतो निष्कृष्टैः । केन ? विकल्पेन
तदायत्ते खत-आ०, ब०, ५०।२-यत्वापत्तेः आ०, ब०, ५०।३ -क्षणमनेन आ०, ब०, ५० ४ कैस्तथे -आ०, ब०, प० । ५ “यदि स भेदः सामान्यविशेषयोः यमात्मानमाश्रित्य सामान्यं विशेष इति तेनात्मना भेदस्तदा व्यतिरेक एव ..."-प्र. वा० स्थवृ०३। १८०। ६ यथैवं आ०, ब०, प० ।