________________
४८९
१।१३९ ।
प्रथमः प्रत्यक्षप्रस्ताव नयापरनामधेयेन नीतं प्रापितम् । काम् ? समानाधारश्च गौः शुक्लः इत्यादिशब्दप्रवृत्तिनिमित्तभेदस्यैकमधिकरणम्', सामान्यञ्च गवां गोत्वमिति , विशेषणं च भेदकं नीलमिति , विशेव्यच भेद्यमुत्पलमिति , तेषां भावं समानाधारसामान्यविशेषणविशेष्यताम् । विकल्पस्यावस्तुविषयत्वेन मिध्यैव तन्निबन्धनं तन्नयनमिति चेत् ? ने ; तद्वस्तुविषयत्वस्य व्यवस्थापितत्वात् । अत एवोक्तम्-तत्त्वानुसारिणा इति । कथं पुनस्तत्रासतां तेषां तेनाप्य- ५ पोद्धार इति चेत् ? न; प्रमाणतोऽनेकधर्माधिष्ठानतया वस्तुनः प्रतिपत्तौ तदसत्त्वायोगात् । अत एवाई
'भेवानां बहुभेदानां तत्रैकत्रापि सम्भवात् ।'
यद्येवं प्रमाणत एव भेदविषयात् सामानाधिकरण्यादिव्यवहारोपपत्तेः किं तदर्धन नयकल्पनेनेति चेत् ? न ; भेदस्याभेदोपश्लिष्टस्यैव तेन प्रतिपत्तेः अगुणप्रधानभावेन १० चोपेक्षिताभेदो गुणप्राधानभाषी च भेदः प्रस्तुतव्यवहारोपयोगी , न च तस्य नयादन्यतः प्रतिपत्तिः । न चैवं व्यवहारानङ्गमेव प्रमाणम् ; आपोद्धारिकव्यवहारस्यातन्निबन्धनत्वेऽपि सकलधर्मकलापालङ्कृतजोवादिपदार्थव्यवहारस्य तत एवोपपत्तेः ।
___तदेवं वस्तुभूतादेव धर्मभेदात् व्यवहारोपपत्तौ यत्तदर्थ व्यावृत्तिभदेन जातिभेदोपकल्पनं तस्यायुक्तत्वं तत्कल्पनकृतान्चास्थानभीरुत्वं दर्शयन्नाह
अत्र दृष्टविपर्यस्तमयुक्त परिकल्पितम् ॥१३८॥
मिथ्याभयानकग्रस्तैमंगैरिव तपोवने । इति । अत्र एतस्मिन् वस्तुनि कथितव्यवहारनिमित्तं यजातिजातं परिकल्पितं स्वेच्छाविरचितम् । कीदृशम् ? दृष्टात् प्रत्यक्षप्रतिपन्नात् वस्तुभूताद् धर्मभेदात् विपर्यस्तं विपरीतम् अवस्तुरूपमिति यावत् , तत् अयुक्तम् अवस्तुत्वेन व्यवहारफलेनासम्बन्धात् , अन्यत एव च तस्य २० भावाप प्रतिपत्तिफलेन वा । निवेदितं चैतत् । कैस्तत्परिकल्पितम् ? भयानकाः भयहेतवोsनेकान्तविषयाः संशयादयः, मिथ्या च से भयानकाश्च मिध्याभयानकास्तेषां दोपाभासत्वेन साक्षाद् भयानकत्वाभावात् तैर्मस्ता वशीकृता मिथ्याभयानकग्रस्ताः तैः सौगतैः । अत्र निदर्शनं मृगैरिव तपोवने । तथा मृगैः मिथ्याभयानकप्रस्तैः क्षेमस्थानेऽपि वैपरीत्यं कल्प्यते तथा विवेकविकलैः सौगतैरपि वस्तुनि वस्तुभूतानेकधर्माधारे निशेषनिश्रेयसाभ्यु- २५ दयनिबन्धने संशयादिमिथ्यादोषविभीषितावलोकनविह्वलैः व्यवहारार्थमवस्तुभूतभेदाधारत्वं परिकल्पितमिति ।
मिथ्याभयानकत्वमेव तेषां दर्शयन्नाह
१-करणं च सा आ०, ब०,१०।२ न्यायवि० श्लो. १२२ । ३ प्रमाणतः। ४ -पाभावत्वेन आ०, ब०,५०।५ कल्पिते आ०, ब०,५०।