________________
४९०
भ्यायविनिश्चयविवरणे
[१।१४१ यस्यापि क्षणिकं ज्ञानं तस्यासन्नादिभेदतः ॥१३९॥
प्रतिभासभिदां धत्तेऽसकृत्सिद्धं स्वलक्षणम् । इति ।
तात्पर्यमत्र-संशयादिभयादनेकान्तं परित्यजतो ज्ञानम् आसन्नादिविषयमेकमनेकार्थम्, प्रत्यर्थनियतं वा भवेत् ? तत्रादाविदम्-'अत्र च अपिशब्दो भिन्नप्रक्रमत्वात् तस्येत्यस्यानन्तरं ५ द्रष्टव्यः । तदयमर्थः- यस्य सौगतस्य क्षणिकं ज्ञानं तस्यापि न केवलं जैनस्य प्रति.
भासभिदां वस्तुभूतमाकारभेदं तज्ज्ञानं धत्ते। कुतः १ आसन्न आविर्यस्यासनतरादः तद्विषयस्य तस्य भेदस्तमाश्रित्य तत् इति । आसन्ने हि तद्विशदं विशदतरमासन्नतरे 'विशदतम चासन्नतमे इति । भवत्वेवमिति चेदाह- असकृदनेकवारं सिद्धं यनिश्चित प्राक् स्वलक्ष.
णम् अन्यत्रापि योज्यम् , तदपि प्रतिभासभिदा धत्ते, निर्दोषप्रतिपत्तिविषये तत्रापि संशयादेः १० तज्ज्ञानवदनवतायत् । द्वितीयेऽप्याह
विलक्षणार्थविज्ञाने स्थूलमेकं स्खलक्षणम् ॥१४०॥
तथा ज्ञानं तथाकारमनाकारनिरीक्षणे । इति ।
अर्थस्यासनादेः विज्ञानम् अर्थविज्ञानं विलक्षणं च तत्परीक्षाबलेन प्रतिपरमाणु भिन्नमर्थविज्ञानं च तस्मिन्नपि, अपिशब्दस्यात्रापि योजनात् । स्थूलं नानावयवसाधारणम् १५ एकम् अवयवैः कथश्चिदव्यतिरिक्त स्वलक्षणं चेतनाचेतनलक्षणं प्रतिभातीति शेषः । कुत
एतत् १ तथा तेन स्थूलमेकमिति प्रकारेण ज्ञानमनुभवो यत इति । ततोऽनुभवविरुद्धं प्रत्यर्थनियतज्ञानकल्पनं परस्येति भावः । तथा ज्ञानेऽपि कस्मान्न तद्वाह्यं विलक्षणमेव भवतीति चेत् ?
आह-तथाऽऽकारं विलक्षणाकारं स्खलक्षणं भवति। कदा ? अनाकारनिरीक्षणे सति निर्विकल्पदर्शनेन स्थूलैकविज्ञाने। न हि अतज्ज्ञानात तत्सिद्धिः। ततोऽपि तत्सिद्धी दूषणमाह__अन्यथार्थात्मनोस्तत्त्वं मिथ्याकारैकलक्षणम् ॥१४१॥ इति ।
अन्यथा अन्येन स्थूलज्ञानात् सूक्ष्मसिद्धिप्रकारेण अर्थात्मनोः विषयविषयिणोस्तत्त्वं क्षणक्षयनैरंश्यनानात्वादिकं मिथ्या वितथं किं तर्हि स्यात् ? आकारेषु प्रामारामादिप्रपन्च. रूपेष्वेकमनुगतं लक्षणं स्वरूपं यस्य तत् आकारैकलक्षणं परब्रह्म तत्तत्त्वमिति सम्बन्धः । एवं मन्यते
वनादौ स्थूलसंवित्ते/दा यत्तत्त्वतो यथा । घटादावपि तद्बुद्धिस्तदायत्तैव कल्प्यते ॥११४८॥ तथा तरङ्गचन्द्रेषु भेदबुद्धेरिव त्वया । परस्या अपि तद्बुद्धेरेकाधीनत्वमुच्यताम् ॥११४९॥ इति ।
तद्विशद -आ०, ब०,५०। २ एकमवयवम् आ०, ब०, १०।३-त्मनस्तत्त्वं आ०, ब०,५०। ४ परं ब्रह्म ०, ब०,५०।