________________
१।१४३]
प्रथमः प्रत्यक्ष प्रस्तावः
४९१
;
भवतु निर्विकल्पादेव दर्शनाद्विलक्षणं तत्त्वमिति चेत् कथं तत्र स्थूलप्रतिभास: १ विभ्रमादिति चेत्; न; तद्विवेकस्य दर्शनेन तद्योगात् । सदादिरूपस्यैव तत्र दर्शनं न तद्विवेकस्येति चेत्; अत्राह
विज्ञानप्रतिभासेऽर्थविवेकाप्रतिभासनात् ।
विरुद्धधर्माध्यासः स्याद् व्यतिरेकेण चक्रकम् ॥ १४२ ॥ इति ।
५
9
विज्ञानस्य उपलक्षणमिदं तद्विषयस्य च प्रतिभासे सदादिरूपेण ग्रहणे यस्तस्यार्थात् स्थूलाद्याकाराद् विवेकस्तस्याप्रतिभासनाद् विरुद्वयोर्दृश्यादृश्ययोः "धर्मयोरध्यासः स्याद् भवेत्, तथा सति सुनिश्चितमनेकान्तमनवद्यमिति मन्यते । भवतु तर्हितस्य तस्माद् व्यतिरेक एवेति चेत्; न; तथा सत्यविवेकप्रसङ्गात् व्यतिरेके तस्यावश्यम्भावात् । एवञ्च सिद्धमिदम्- स्थूलमेकं स्वलक्षणं तथा ज्ञानं यत इति । पुनरपि तस्य १० तस्माद् विवेकपरिकल्पनायां वक्तव्यमिदम् - विज्ञानप्रतिभास इत्यादि । तत्रापि भवत्वित्यादिवचने चक्रकम् तथेत्यादेरनुषङ्गात् । एतदेवाह - व्यतिरेकेण अर्थविवेकस्य विज्ञानाद् भेदेन कृत्वा चक्रवदावर्तमानमाक्षेपसमाधानं चक्रकं स्यादिति सम्बन्धः । तन्न जीवति स्थूलज्ञाने निर्भागज्ञानसम्भवो यतः परमाणुसिद्धिः । तदसिद्धौ यदन्यत् प्राप्तं तदप्याह
प्रतिक्षणं विशेषा न प्रत्यक्षाः परमाणुवत् । इति ।
क्षणं क्षणं प्रति प्रतिक्षणं परमाणूनां ये विशेषाः निरन्वयविनाशलक्षणाः ते न प्रत्यक्षाः प्रत्यक्षविषया न भवन्ति । निदर्शनं परमाणव इव तद्वत् । ते च तद्विशेषाश्च कयोपपत्त्या न प्रत्यक्षाः ? इत्याह
१५
अतदाभतया बुद्धेः [ अर्थाकार विवेकवत् ] ॥ १४३ ॥ इति ।
बुद्धेः प्रत्यक्षरूपायाः स्थूलावभासित्वेनान्विताका रावभासित्वेन च' अतदाभतया २० परमाणुतद्विशेषावभासित्वाभावेन ।
स्यान्मतम् - प्रत्यक्षं परमाणुतत्प्रतिक्षणभङ्गविषयमेव स्थूलादिबुद्धिस्तु कल्पनैव केवलं निर्विषया न प्रत्यक्षमिति ; तन्न; तद्विवेकेन प्रत्यक्षस्याप्रतिवेदनात् । अस्त्येव तथा तस्य स्वतः प्रतिवेदनमविवेकविभ्रमस्तु विकल्पादेव कुञ्चचिदिति चेत्; न तावदसौ दर्शनविकल्पाभ्यां प्रागेव, निमित्ताभावात, तयोरेवैकप्रवृत्तिकारणयोस्तन्निमित्तत्वेन परैरभ्यनुज्ञानात् । नापि २५ युगपत् युगपद्विकल्पद्वयानभ्युपगमान् । न पश्चादपि दर्शनविकल्पयोस्तदानीमतिक्रमेण तद्विभ्रमस्य निर्विषयत्वापत्तेः । पूर्वञ्च तत्र सर्वेषां विवेकाङ्गीकारस्यैव प्रसङ्गात् । सम्भवतोऽपि तस्य कुतः प्रतिपत्तिः ? स्वसंवेदनादेव प्रत्यक्षादिति चेत्; न; तस्य विभ्रमादव्यतिरेके
;
१ वातदारम्भतया आ०, ब०, प० । २- बुद्धेस्तु आ०, ब०, प० । ३- दनमिति वि-आ०, ब०, प० । ४ - षामविवे-आ०, ब०, प० ।