________________
४९२
म्यायविनिश्चयविवरणे
[२११४५
प्रत्यक्षत्वानुपपत्तेः । व्यतिरेके च तस्य तद्वद् वेदने विभ्रमासम्भवात् । विकल्पान्तरात् तत्सम्भवे चानवस्थानस्य निवेदितत्वात् । अवेदने तु यथा न तस्य प्रत्यक्षत्वं बुद्धरतदाभत्वादेव नान्यतो विभ्रमात् , तथा प्रतिक्षणविशेषाणां तद्धर्मिणां परमाणूनामपि । एतदेवाह
अर्थाकारविवेकवत् इति । अर्थो दर्शनविकल्पैकत्वरूपो विभ्रमाकारः तस्माद् विवेको ५ विकल्पस्वसंवेदनस्य स इव तद्वत् प्रतिक्षणं विशेषा न प्रत्यक्षाः परमाणवश्चेति ।
एवञ्च यज्जातं परस्य तदर्शयन्नाह
अत्यन्ताभेदभेदौ न तद्वतो न परस्परम् ।
दृश्याश्यात्मनोवुद्विनि सक्षणभङ्गयोः ॥१४४॥ इति ।
बुद्धिनिर्भासश्च स्वसंवेदनात्मा क्षणभङ्गश्च सयोः उपलक्षणमिदम् । तेने नीलादि. १० क्षणभङ्गयोरित्यपि द्रष्टव्यम् । तयोः तद्वतः तदधिकरणात ज्ञानादर्थाच्च अत्यन्ती ऐकान्तिको
अभेदभेदौ तादात्म्यव्यतिरेको न नापि परस्परम् । कीदृशयोः १ दृश्यादृश्यात्मनोः दृश्यात्मा नीलादिबुद्धिनिर्भासश्च अदृश्यात्मा क्षणभङ्गस्तयोरिति ।
कुत एतत् ? 'इत्यत्राह
सर्वथार्थक्रियायोगात् [तथा सुप्तप्रवुद्धयोः।] इति ।
तथा हि'- यदि नीलादिक्षणभङ्गयोः बुद्धिनिभीसक्षणभङ्गयोश्च तद्वत एकान्तादव्यतिरेकः तदा पिण्डस्योपसंहारात् परमाणुरेवावशिष्येत् तस्य चाप्रतिपत्तेरभावो'ब्रह्मवदिति । ततः सर्वथा सर्वेण योगपद्येन क्रमेण वेति एकस्वभावेनानेकस्वभावेन वेति प्रकारेण अर्थस्य कार्यस्य क्रिया निष्पत्तिः तस्या अयोगात, नीरूपात्तदनुपपत्तेः ।
एवं यदि नीलादेः क्षणभङ्गोऽव्यतिरिक्त तद्वदेव दृश्यः स्यात्, वथा च किं तदनुमानस्य २० फलम् ? निश्चय इति चेत् ; किं तदभावे न भवेत् ? व्यवहार इति चेत् ; न; नीलादिदर्शना
देव तदुपपत्तेः। तत्रापि निश्चयादेव स इति चेत् ; स एव तर्हि क्षणभङ्गस्यापि निश्चयः स्याद. व्यतिरेकादिति न तत्फलं तदनुमानस्य । नापि समारोपव्यवच्छेदः, निश्चिते समारोपाभावात् । एतदेवाह -सर्वथा सर्वेण दर्शनहेतुत्वेन निश्चयनिमित्तत्वेन समारोपव्यवच्छेदकत्वेन च
प्रकारेण अर्थक्रियायाः क्षणभङ्गानुमितेः अयोगादिति । नीलादेः क्षणभङ्गादत्र्यतिरेके तु ११. साध्यान्तःपातित्वेन धर्मिहेतुदृष्टान्तानामसम्भवादनुमानानुपपत्तेः सुव्यक्तमेतत्-'सर्वथार्थक्रियायोगात्' इति । तन्नैकान्तेन तयोः परस्परं तद्वतश्चाभेदो नापि भेदस्तद्वतः, नीलादे. बुद्धिनि सस्य च नित्यत्वापत्तेः, नित्याच, क्रमयोगपद्यादिना सर्वप्रकारेण सर्वथाऽर्थक्रियायोगात् ।
भवतु कथश्चिदेव तयोस्तद्वतः परस्परं चाभेदो भेदो वेति चेत् ; अत्राह
१ तेन क्षण-आ०, ब०,प० । २ इत्याह आ०, ब०, ५०।३ -हि नी-आ०,ब०प० । ४ तदापि पिआ०, ब०, प० । ५ क्षणभङ्गानुमानस्य । ६ निश्चयाभावे ।