________________
१।१४५ ]
प्रथमः प्रत्यक्ष प्रस्तावः
तथा सुप्तप्रबुद्धयोः ।
अंशयोर्यदि तादात्म्यमभिज्ञानमनन्यवत् ॥ १४५ ।। इति ।
४९३
सुतश्च गाढनिद्राविष्टः । उपलक्षणमिदम्- तेन मूच्छितश्च । प्रबुद्धश्व प्रत्युत्पन्नप्रबोधः । इदमप्युपलक्षणम्-तेम जागरितश्च । तयोः सुप्तप्रबुद्धयोः मूर्छितजागरितयोश्च । तादात्म्यम् एकत्वं तथा तेनानन्तरोक्तेन कथञ्चिदिति प्रकारेण । कीदृशयो: ? अंशयोः ५ जीवभागयोः ।
अस्तु नाम तद्भागत्वं प्रबुद्धजागरितयोः विज्ञानस्वभाववत्वात् न सुप्तमूर्च्छितयोः विपर्ययादिति चेत्; न; विज्ञानस्यैव क्षणभङ्गादिविज्ञानवत् निश्चयविकलस्य सुप्तादित्वात् । स्वापादौ तस्याभाव एव किन्न स्यादिति चेत् ? क्षणभङ्गादावपि किन्न स्यात् ? नीलादावपि तत्प्रसङ्गादिति चेत्; अन्यत्रापि प्राणाद्यभावप्रसङ्गादिति ब्रूमः । प्राण: देव" तो प्राणादिर्न १० विज्ञानादिति चेत्; न; तदानीं सन्तानान्तरप्रतिपत्तिः देहान्तरभाविनो व्याहारादेरपि व्याहा रादिप्रभवत्वेन बुद्धिपूर्वत्वाभावात् । अस्तु जाप्रज्ज्ञानादेव स इति चेत्; कथं क्रमवत्त्वम् ? नाक्रमात् क्रमवतोस्तस्योत्पत्तिः, "नाक्रमात् क्रमिणो भावा:" [ प्र०वा० १/४५ ] इत्यस्य विरोधात् । क्रमवांश्चापरापरः प्राणादिस्तदवस्थायामुपलभ्यते ततस्तत्कारणेन ज्ञानेनापि क्रमवता तदा भवितव्यम् । ततस्तस्य निश्चयवैकल्यमेव स्वापादिर्नाभावः । तदपि निश्चय- १५ स्वरूपमेव ज्ञानत्वात् प्रबोधज्ञानवत् किन्न भवतीति चेत् ? भवतोऽपि क्षणभङ्गादावपि तैतु समारोपविलमेव तत्रवान्नीलादिवत् किन्न स्यात् ? तत्त्वाविशेषेऽपि कारणवशात् कचित्तदवैकल्ये निश्चयवैकल्यमपि स्यात् । ततो युक्तं सुप्तादेरप्यात्मभागत्वम् ।
कुतस्तयोस्तादात्म्यम् ? इत्याह- अभिज्ञानम् इति । अत्र च 'यदि' इत्येतत्सबन्धनीयम् । तच्च निपातत्वात् यत इत्यत्रार्थे द्रष्टव्यम् । तदयमर्थ:- अभिज्ञानं 'य एवाहं २० सुप्तः स एव प्रबुद्ध:' इति प्रत्यभिज्ञानं सुप्तप्रबुद्ध सङ्कलनात्मकम्, यदि यत इति । न हि सुप्तात् प्रबुद्धस्यात्यन्तव्यतिरेके तस्य तदेकत्वसङ्कलनं युक्तम्, अन्यसुप्तापेक्षयापि प्रसङ्गात् । सन्तानभेदान्नेति चेत्; न; सन्तानव्यवस्थाया अप्येकत्वाभावेऽनुपपत्तेः । चिन्तितञ्चैतत् ।
स्यान्मतम् - व्यवसायात्मन एव ज्ञानात् संस्कारः " व्यवसायात्मनो दृष्टेः संस्कारः" [[सिद्धिवि०परि० १] वचनात् सुप्तज्ञानस्य चाव्यवसायत्वात् कथं ततः संस्कारो यतः २५ स्मृतिरुद्भवन्ती प्रत्यभिज्ञानमवकल्पयेदिति ? मा भूत "तत्कृतः संस्कारः, जाप्रज्ज्ञानकृतस्तु संस्कारोऽप्युत्थानावस्थायां विकासमुपनीयमानः स्मृत्युपस्थापनद्वारेण जागरितेनेव सुप्तेनापि प्रबुद्धस्यैकत्वं सङ्कलयति । कथमन्यकृतात् संस्कारादन्यत्र सङ्कलनमिति चेत् ? न ; अत्यन्ताय तयोरन्यत्वाभावात् । न चेदं सङ्कलनं भ्रान्तं यतस्तदेकत्वन्न साधयेत् । तदाह- अनन्यवत् ।
१ निश्चयस्य । २ स्वापादौ । ३ विज्ञानम् । ४ - विकल्पमेत्र आ०, ब०, प० । ५ तत्कृतसं आ०, ब०, प० । सुप्तज्ञानकृतः । ६ अपिशब्दः एवार्थकः ।