________________
४९४ न्यायविनिश्चयविवरणे
[१।१४६ अन्यः कल्पितरूपो विभ्रमनामा विषयो यस्य तदन्यत् तस्मादन्यद्- अनन्यवत् वास्तव. तत्तादाम्यविषयं बाधकामावादिति यावत् ।
इदानीं तेन द्रव्यपर्यायादीनामन्योन्यात्मकत्वेन भाव इति परिणामलक्षणं सङ्गव दर्शयन्नाह___ संयोगसमवायादिसम्बन्धाद्यदि वर्तते ।
अनेकत्रैकमेकत्रानेकं वा परिणामिनः ॥१४६॥ इति ।
संयोगश्च समवायश्च संयोगसमवायावादी यस्य संयुक्तैकार्थसमवायादेः स एव सम्बन्धः तस्मात् यदि चेत् वर्तते, के किम् ? अनेकत्र शरीरदेशेषु एकम् आत्मद्रव्य
संयोगेन शरीरं समवायेन, एकत्र शरीरे अनेक कटककुण्डलादि संयोगेन, कटकत्वादि १० संयुक्तसमवायेन, रूपसंस्थानादि समवायेन वा, रूपत्वादि समवेतसमवायेन, शरीरसमवेते
रूपादौ तस्य समवायात् । एवमन्यत्रापि योग्यम् । वेति समुच्चयार्थम् । तत्र समाधानम्परिणामिन इति । परिणाम उक्तलक्षणो विद्यतेऽस्येति परिणामी भावः तस्य परिणामिनः संयोगसमवायादिसम्बन्ध इति विभक्तिपरिणामेन सम्बन्धः । तथा हि- अप्राप्तयोः प्राप्तिः
संयोगः । प्राप्तिश्च यदि शरीरादर्थान्तरम् ; कथं प्राप्तं शरीरमिति तद्रूपतया तत्र प्रत्ययः ? १५ सम्बन्धादिति चेत ; ततोऽपि ताद्रूप्यस्य सम्भवे सिद्धः परिणामः । शरीरस्यैव ततोऽतद्रूपस्य
तद्रूपतयोत्पत्तेरसम्भवे कथं ततोऽपि तथा प्रत्ययः ? कथं वा तस्याभ्रान्तत्वम् अतस्मिंस्तगृहात् ? भान्साच कथं ततः ताप्यवत् शरीरस्यापि प्रतिपत्तिः ? ताद्रूप्य एवासौ भ्रान्तो न शरीर इति घेत् ; कथमेकस्यैव भान्तिरभ्रान्तिश्च स्वरूपं विरोधात् ? अविरोधे वा कथमेकस्यैव क्रमेणाप्राप्तिः प्राप्तिश्च स्वरूपं न भवेत् ? इति सिद्धः परिणामिन एव संयोगसम्बन्धः ।।
तथा समवायोऽपि शरीरस्य तदाधारे तदवयवकलापे इहेति प्रत्ययहेतुः । तदा. धारत्वञ्च तत्कलापस्य यदि यावद्व्यभावि ; सशरीरस्यैव तस्य प्रतिपत्तिः स्यात् आधेयविरहितस्याधारस्यासम्भवात् । अयावद्र्व्यभाविनोऽपि तस्माद् व्यतिरेके 'तदाधारस्तत्कलाप:' इति न तद्रूपतया तत्प्रतिपत्तिः । सम्बन्धात्तथा तत्प्रतिपत्तौ : तहिमेतरकल्पनायां च पूर्वव
त्प्रसङ्गात् । अव्यतिरेके सिद्धस्तत्कलापः परिणामी प्रागतदाधारस्य तदाधारतया तदुत्पत्यव२५ स्थायां परिवर्तनादिति समवायोऽपि परिणामिन एव ! एवं संयुक्तसमवायादिरपि ।
नन्वेवमशक्यपरिहारत्वे परिणामस्य किमवयवगुणविशेषेभ्यो गुण्यवयविसामान्यानामर्थान्तरत्वेन ? अवयवादीनां तद्रूपेणापि परिणामोपपत्तेरिति चेत ; अभिमतमेवैतत् । अत एवेदमपि व्याख्यानम्- अवयवादय एवावयव्यादिरूपेण परिणामिनः परिणामशीला इति ।
. क्वचिदने-आ०, ब०, ५०।२ -द्रव्यसंयो-आ०, ब०, ५०। ३ -वायादिः स-आ०, ब०, प० । ४-मिन यद्येवं आ०,०, प० ।५ किमवमवीव गु-आ०, ब०,५०। ६ तद्रूपत्वेनापि आ०, ब०,५०। अवयव्यादिरूपेणापि।