________________
११४८ ]
प्रथमः प्रत्यक्ष प्रस्तावः
तदेवमवस्थितं यौगपद्यक्रमाभ्यां सामान्यविशेषात्मकं स्वलक्षणम् ।
भवतु सामान्यम्; तत्तु विजातीयव्यावृत्तिरूपमेव तस्य निर्बाधत्वेन वस्तुषु भावात, अर्थक्रियायाश्च तदुपाश्रयतयैव तत्रोपपत्तेः । पावकादिव्यावृत्तिमत एव तोयादेः स्नानादितत्क्रियादर्शनात् । सामान्यवादिभिरपि तस्यावश्याभ्युपगमनीयत्वात्, अन्यथा कर्कादिपरिहारेण खण्डादावेव गोत्वमिति नियमायोगादिति चेत ; अत्राह
४९५
अतद्धेतुफला पोहम विकल्पोऽभिजल्पति । इति ।
सामान्यमिति वक्ष्यमाणमिहाकृष्य सम्बन्धनीयम् । तदयमर्थ:-न विद्येते तस्य खण्डादेः हेतुफले तत्कारणकार्ये येषां ते अतद्धेतुफलाः कर्कादयः तेभ्योऽपोहो व्यावृत्तिः तं सामान्यमभिजल्पति कथयति । अविकल्पो विकल्पज्ञानरहितः सौगतः । न हि सामान्यमनिच्छतः तज्ज्ञानसम्भवः । तस्य हि न स्वालक्षण्यमेव रूपम्, अभिजल्पसम्बन्धा - १० भावापत्तेः । तदभिसम्बन्धिनोऽपि रूपस्य तत्रे भावे कथं सामान्यप्रतिक्षेपः तस्यैव साधारणा त्मनस्तत्त्वात् ? असाधारणत्वे शब्दसङ्केतादेस्तत्राप्यसम्भवात् । भवदपि सामान्यं तदवास्तवमेवापोहत्वादिति चेत्; कथमभिजल्पसम्बन्धं प्रति योग्यत्वम् ? तस्यै वस्तुधर्मत्वात् । तदपि कल्पितमेवेति चेत्; न; तेनैव तदयोगात् । सति तद्योग्यत्वे तस्य विकल्पकत्वं विकल्पत्वे च तेन तत्कल्पनमिति परस्पराश्रयात् । विकल्पान्तरात् तत्र तत्कल्पनमिति चेत ; न; तत्रापि तदन्तरात् १५ तत्कल्पने ऽनवस्थापत्तेः । तन्नापोहवादिनो विकल्पसम्भवः । तदसम्भवे च कुतो व्यावृत्तिसामान्यप्रतिपत्तिः प्रत्यक्षस्यातद्विषयत्वात् ? कुतो वाभिजल्पः तस्य तद्योनित्वेन तदभावे नोपपत्तेरिति मन्यते ।
साम्प्रतं तस्य वस्तुषु भावादीनां वस्तुसामान्य साधनत्वेन विरुद्धत्वमावेदयन्नाह
समानाकारशून्येषु सर्वथानुपलम्भतः ॥ १४७॥ तस्य वस्तुषुभावादि साकारस्यैव साधनम् । इति ।
9
तस्यवस्तुषुभाव आदिर्यस्यार्थक्रियाश्रयत्वादेः तत् तस्यवस्तुषुभावादि । कथं पुनः सुबन्तसमुदायस्य समासस्तस्यासुबन्तत्वात् ? सुबन्तस्य हि सुबन्तेन समास इति वैयाकरणन्यार्यैः । समासेऽपि कथं सुपोऽलुग्भाव इति चेत् ? न; तत्समुदायत्वाभावात् । न हि ' तस्य वस्तुषुभावः' इति सुत्रन्तसमुदायोऽयम् अपि तु तदर्थ - २५ विषयं तत्प्रतिरूपकमखण्डमेव प्रातिपदिकम् तस्य च सुबन्तत्वादुपपन्नः समासः, तद्विधायिनः सुपो लुक् च । न च सुबन्तरमस्ति यंत्रालुग्भावः पर्यनुयुज्येत । तत् किमित्याह - साकारस्यैव । आकारवत एव न नीरूपस्य सामान्यस्य साधनं वस्तुषु परि
;
२०
१ बौद्धः प्राह । २ तत्राभावे आ०, ब०, प०। ३ योग्यत्वस्य । ४ तद्योगित्वेन आ०, ब०, प० । 'विकल्पयोनयः शब्दाः विकल्पाः शब्दगोचराः । " इत्यभिधानात्। ५ “सुप्सुपा" - जैनेन्द्र० १।३ । ३ । ६ यत्र लुग्भा - आ०, ब०, प० ।