________________
न्यायविनिश्चयविवरणे
[१।१४८ णामिभावलक्षणेषु भवनादेस्तत्रैव प्रतिपत्तेः । क्षणक्षीणपरमाणुरूपाणि स्वलक्षणान्येव वस्तूनि तत्र च तस्यैव भावादिः प्रतीयते न साकारस्येति चेत् ; न; तेषामेव प्रमाणाभावेनाप्रतिपत्तेः । न हि तदप्रतिपत्तौ तत्र भावादेरन्यतरस्य वा प्रतिपत्तिः सम्भवति । तदेवाह-समानश्चासौ मान
सहित आकारश्च समानाकारः तेन शन्येषु व्यावर्णितस्वलक्षणेषु । कथं तच्छ्न्ये षु ? ५ सर्वथा सर्वेण प्रत्यक्षविषयत्वेनानुमानविषयत्वेन च प्रकारेण अनुपलम्भतः तस्य वस्तुषु भावादेरिति विभक्तिपरिणामेन सम्बन्धः ।
कथं पुनस्तेषां समानाकारशून्यत्वम् , यावता प्रत्यक्षमेव तेषु प्रमाणमिति चेत् ? तदपि यथाकल्पनम् , यथाप्रतिभासं वा भवेत् ? न तावदाद्यम् । तस्याप्रतिपत्तेः । न हि
निर्विकल्पं प्रत्यक्षं कचिदपि दृश्यते यतः तत्स्वलक्षणप्रतिपत्तिः । "प्रथममिन्द्रियज्ञानं तदेव १. दृश्यते केवलं तत्पृष्ठभाविनैकस्थूलविकल्पेन प्रत्यूहान्न निश्चीयत इति चेत् ; कथमनिश्चित
तदास्ति ? कथं वा प्रामाणम् ? अन्यथैवमपि स्यात्- सकलमपि प्रत्यक्षं व्यावृत्तवस्तुविषयमेव केवलं भेदविकल्पेन प्रत्यूहान्न निश्चीयत इति । भेदाभावे प्रत्यक्षादन्यो विकल्प एव न सम्भवतीति चेत ; न ; अनेकान्ताभावेऽपि तदसम्भवस्य निवेदितत्वान् । अविचारि.
तरम्यया तु कल्पनया तत्सम्भवस्योभयत्राविशेषात् , तथा च सर्वाभेदरूपस्य पुरुषस्य प्रसिद्धः १५ "यः सर्वेषु लोकेषु तिष्ठन् सवभ्यो लोकेभ्योऽन्तरो यं सर्वे लोका न विदुर्यस्य सर्वे
लोकाः शरीरं यः सर्वान् लोकानन्तरो यमयति स आत्मान्तर्याम्यमृतः" [बृहदा० ३।७।१५] इत्याद्याः श्रुतयोऽर्थवत्यो भवेयुः ।
___ न चैवं निर्विकल्पा भ्रान्तिरपि । शक्यं हि वक्तुम्-'पश्यन्नयमेकमेव चन्द्रमसं पश्यति द्वित्वारोपविकल्पान्न पुनर्निश्चिनोति' इति । तथा च व्यर्थमभ्रान्तग्रहणं कल्पनापोढपदेनैव २० द्वित्वभ्रान्तेर्विनिवर्तनात् । निर्विकल्पैव तद्धान्तिः इन्द्रियभावाभावानुरोधित्वेनैन्द्रियत्वादर्थ
सन्निधिसापेक्षत्वात प्रतिसङ्ख्यया चानिरोध्यत्वादिति चेत ; न; तत एव जातिप्रतिपत्तेरप्यमानसत्वापत्तेः । तदुक्तम्
"न चेदं व्यवसायात्मप्रत्यक्षं मानसं मतम् ।
प्रतिसङ्खथानिरोध्यत्वादर्थसन्निध्यपेक्षणात् ॥" [सिद्धिवि०परि० १] इति । । तत्र तद्भावाभावानुरोधित्वादिकमध्यारोपितमेव न तात्त्विकमित्यपि नोत्तरम् ; द्वित्वभ्रान्तावपि तथैव तत्प्रसङ्गात् ।
अपि च "विषयसरूपं तत्प्रत्यक्षम् अन्यथा वा ? तत्राद्ये विकल्पे वस्त्वेव सामान्यं सारू
१-रूपादिस्व-आ०, ब०, प० । २ "नीरूपस्य सामान्यस्य"-ता. टि.। ३ भवनादिः आ०, ब०, प० । ४ वा न भ-आ०, ब०, प० । ५ प्रथमेन्द्रिय-आ०. ब०, प० । ६ निर्विकल्पमेव । ७ “यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो..."-बृहदा० । ८ प्रत्यक्षलक्षणे । ९ चानुरोध्य-आ०,व०प० । १० विषयस्वरूमा०, ब०, ५०।