Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 563
________________ १।१४५ ] प्रथमः प्रत्यक्ष प्रस्तावः तथा सुप्तप्रबुद्धयोः । अंशयोर्यदि तादात्म्यमभिज्ञानमनन्यवत् ॥ १४५ ।। इति । ४९३ सुतश्च गाढनिद्राविष्टः । उपलक्षणमिदम्- तेन मूच्छितश्च । प्रबुद्धश्व प्रत्युत्पन्नप्रबोधः । इदमप्युपलक्षणम्-तेम जागरितश्च । तयोः सुप्तप्रबुद्धयोः मूर्छितजागरितयोश्च । तादात्म्यम् एकत्वं तथा तेनानन्तरोक्तेन कथञ्चिदिति प्रकारेण । कीदृशयो: ? अंशयोः ५ जीवभागयोः । अस्तु नाम तद्भागत्वं प्रबुद्धजागरितयोः विज्ञानस्वभाववत्वात् न सुप्तमूर्च्छितयोः विपर्ययादिति चेत्; न; विज्ञानस्यैव क्षणभङ्गादिविज्ञानवत् निश्चयविकलस्य सुप्तादित्वात् । स्वापादौ तस्याभाव एव किन्न स्यादिति चेत् ? क्षणभङ्गादावपि किन्न स्यात् ? नीलादावपि तत्प्रसङ्गादिति चेत्; अन्यत्रापि प्राणाद्यभावप्रसङ्गादिति ब्रूमः । प्राण: देव" तो प्राणादिर्न १० विज्ञानादिति चेत्; न; तदानीं सन्तानान्तरप्रतिपत्तिः देहान्तरभाविनो व्याहारादेरपि व्याहा रादिप्रभवत्वेन बुद्धिपूर्वत्वाभावात् । अस्तु जाप्रज्ज्ञानादेव स इति चेत्; कथं क्रमवत्त्वम् ? नाक्रमात् क्रमवतोस्तस्योत्पत्तिः, "नाक्रमात् क्रमिणो भावा:" [ प्र०वा० १/४५ ] इत्यस्य विरोधात् । क्रमवांश्चापरापरः प्राणादिस्तदवस्थायामुपलभ्यते ततस्तत्कारणेन ज्ञानेनापि क्रमवता तदा भवितव्यम् । ततस्तस्य निश्चयवैकल्यमेव स्वापादिर्नाभावः । तदपि निश्चय- १५ स्वरूपमेव ज्ञानत्वात् प्रबोधज्ञानवत् किन्न भवतीति चेत् ? भवतोऽपि क्षणभङ्गादावपि तैतु समारोपविलमेव तत्रवान्नीलादिवत् किन्न स्यात् ? तत्त्वाविशेषेऽपि कारणवशात् कचित्तदवैकल्ये निश्चयवैकल्यमपि स्यात् । ततो युक्तं सुप्तादेरप्यात्मभागत्वम् । कुतस्तयोस्तादात्म्यम् ? इत्याह- अभिज्ञानम् इति । अत्र च 'यदि' इत्येतत्सबन्धनीयम् । तच्च निपातत्वात् यत इत्यत्रार्थे द्रष्टव्यम् । तदयमर्थ:- अभिज्ञानं 'य एवाहं २० सुप्तः स एव प्रबुद्ध:' इति प्रत्यभिज्ञानं सुप्तप्रबुद्ध सङ्कलनात्मकम्, यदि यत इति । न हि सुप्तात् प्रबुद्धस्यात्यन्तव्यतिरेके तस्य तदेकत्वसङ्कलनं युक्तम्, अन्यसुप्तापेक्षयापि प्रसङ्गात् । सन्तानभेदान्नेति चेत्; न; सन्तानव्यवस्थाया अप्येकत्वाभावेऽनुपपत्तेः । चिन्तितञ्चैतत् । स्यान्मतम् - व्यवसायात्मन एव ज्ञानात् संस्कारः " व्यवसायात्मनो दृष्टेः संस्कारः" [[सिद्धिवि०परि० १] वचनात् सुप्तज्ञानस्य चाव्यवसायत्वात् कथं ततः संस्कारो यतः २५ स्मृतिरुद्भवन्ती प्रत्यभिज्ञानमवकल्पयेदिति ? मा भूत "तत्कृतः संस्कारः, जाप्रज्ज्ञानकृतस्तु संस्कारोऽप्युत्थानावस्थायां विकासमुपनीयमानः स्मृत्युपस्थापनद्वारेण जागरितेनेव सुप्तेनापि प्रबुद्धस्यैकत्वं सङ्कलयति । कथमन्यकृतात् संस्कारादन्यत्र सङ्कलनमिति चेत् ? न ; अत्यन्ताय तयोरन्यत्वाभावात् । न चेदं सङ्कलनं भ्रान्तं यतस्तदेकत्वन्न साधयेत् । तदाह- अनन्यवत् । १ निश्चयस्य । २ स्वापादौ । ३ विज्ञानम् । ४ - विकल्पमेत्र आ०, ब०, प० । ५ तत्कृतसं आ०, ब०, प० । सुप्तज्ञानकृतः । ६ अपिशब्दः एवार्थकः ।

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618