Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 562
________________ ४९२ म्यायविनिश्चयविवरणे [२११४५ प्रत्यक्षत्वानुपपत्तेः । व्यतिरेके च तस्य तद्वद् वेदने विभ्रमासम्भवात् । विकल्पान्तरात् तत्सम्भवे चानवस्थानस्य निवेदितत्वात् । अवेदने तु यथा न तस्य प्रत्यक्षत्वं बुद्धरतदाभत्वादेव नान्यतो विभ्रमात् , तथा प्रतिक्षणविशेषाणां तद्धर्मिणां परमाणूनामपि । एतदेवाह अर्थाकारविवेकवत् इति । अर्थो दर्शनविकल्पैकत्वरूपो विभ्रमाकारः तस्माद् विवेको ५ विकल्पस्वसंवेदनस्य स इव तद्वत् प्रतिक्षणं विशेषा न प्रत्यक्षाः परमाणवश्चेति । एवञ्च यज्जातं परस्य तदर्शयन्नाह अत्यन्ताभेदभेदौ न तद्वतो न परस्परम् । दृश्याश्यात्मनोवुद्विनि सक्षणभङ्गयोः ॥१४४॥ इति । बुद्धिनिर्भासश्च स्वसंवेदनात्मा क्षणभङ्गश्च सयोः उपलक्षणमिदम् । तेने नीलादि. १० क्षणभङ्गयोरित्यपि द्रष्टव्यम् । तयोः तद्वतः तदधिकरणात ज्ञानादर्थाच्च अत्यन्ती ऐकान्तिको अभेदभेदौ तादात्म्यव्यतिरेको न नापि परस्परम् । कीदृशयोः १ दृश्यादृश्यात्मनोः दृश्यात्मा नीलादिबुद्धिनिर्भासश्च अदृश्यात्मा क्षणभङ्गस्तयोरिति । कुत एतत् ? 'इत्यत्राह सर्वथार्थक्रियायोगात् [तथा सुप्तप्रवुद्धयोः।] इति । तथा हि'- यदि नीलादिक्षणभङ्गयोः बुद्धिनिभीसक्षणभङ्गयोश्च तद्वत एकान्तादव्यतिरेकः तदा पिण्डस्योपसंहारात् परमाणुरेवावशिष्येत् तस्य चाप्रतिपत्तेरभावो'ब्रह्मवदिति । ततः सर्वथा सर्वेण योगपद्येन क्रमेण वेति एकस्वभावेनानेकस्वभावेन वेति प्रकारेण अर्थस्य कार्यस्य क्रिया निष्पत्तिः तस्या अयोगात, नीरूपात्तदनुपपत्तेः । एवं यदि नीलादेः क्षणभङ्गोऽव्यतिरिक्त तद्वदेव दृश्यः स्यात्, वथा च किं तदनुमानस्य २० फलम् ? निश्चय इति चेत् ; किं तदभावे न भवेत् ? व्यवहार इति चेत् ; न; नीलादिदर्शना देव तदुपपत्तेः। तत्रापि निश्चयादेव स इति चेत् ; स एव तर्हि क्षणभङ्गस्यापि निश्चयः स्याद. व्यतिरेकादिति न तत्फलं तदनुमानस्य । नापि समारोपव्यवच्छेदः, निश्चिते समारोपाभावात् । एतदेवाह -सर्वथा सर्वेण दर्शनहेतुत्वेन निश्चयनिमित्तत्वेन समारोपव्यवच्छेदकत्वेन च प्रकारेण अर्थक्रियायाः क्षणभङ्गानुमितेः अयोगादिति । नीलादेः क्षणभङ्गादत्र्यतिरेके तु ११. साध्यान्तःपातित्वेन धर्मिहेतुदृष्टान्तानामसम्भवादनुमानानुपपत्तेः सुव्यक्तमेतत्-'सर्वथार्थक्रियायोगात्' इति । तन्नैकान्तेन तयोः परस्परं तद्वतश्चाभेदो नापि भेदस्तद्वतः, नीलादे. बुद्धिनि सस्य च नित्यत्वापत्तेः, नित्याच, क्रमयोगपद्यादिना सर्वप्रकारेण सर्वथाऽर्थक्रियायोगात् । भवतु कथश्चिदेव तयोस्तद्वतः परस्परं चाभेदो भेदो वेति चेत् ; अत्राह १ तेन क्षण-आ०, ब०,प० । २ इत्याह आ०, ब०, ५०।३ -हि नी-आ०,ब०प० । ४ तदापि पिआ०, ब०, प० । ५ क्षणभङ्गानुमानस्य । ६ निश्चयाभावे ।

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618