Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
१।१४८ ]
भथमः प्रत्यक्ष प्रस्तावः
४९७
प्यस्यैव तत्त्वात् । तदपि तत्रातात्विकमेवेति चेत्; न; भ्रान्तत्वेनाप्रत्यक्षत्वप्रसङ्गात् । एतेन कल्पितमिति प्रत्युक्तम् । कल्पिताकारस्यापि प्रत्यक्षत्वानुपपत्तेः । सर्वथा च विषयसारूप्ये विषयवत् तस्यापि जडत्वापत्तेः न स्वतः प्रतिपत्तिः । अन्यतश्च सरूपात् प्रतिपत्तावनवस्थापत्तिः । असरूपात् प्रतिपत्तौ विषयस्यापि तत एव प्रतिपत्तेः व्यर्थं तत्रापि सारूप्यकल्पनम् । असरूपमपि नाप्रतिपन्नमेव तत्प्रमाणम् अनभ्युपगमात् । प्रतिपत्तौ च प्रतिपत्तिफलस्य व्यापारस्य ५ स्वरूप एवोपक्षयात् कुतस्ततो विषयप्रतिपत्तिः ? व्यापारान्तरादिति चेत्; न; उभयव्यापारात्मत्वे तस्य वस्तुतः सामान्यविशेषात्मत्वस्याप्यनिवारणापत्तेः । तन्न यथाकल्पनं तत् । नापि यथाप्रतिभासम्; तत्र स्वपरव्यवसायात्मनि बहिरन्तश्च नानावयवसाधारणस्य स्थूल. स्यैव प्रतिपत्तेः । तन्न प्रत्यक्षतः स्वलक्षणप्रतिपत्तिः ।
नाप्यनुमानात; तस्य विकल्पैनिषेधेन निषेधात्, प्रत्यक्षाभावेऽनवताराच । ततो १० वस्त्वेव सामान्यं तदन्यापोहात्मकत्व हेतूनां विरुद्धत्वात् ।
स्यान्मतम्-खण्डादीनां कर्कादिभ्य इव परस्परतोऽपिं ́ भेदाविशेषेऽपि 'त एव सामान्यं गोत्वं बिभ्रति न कर्कादयः' इत्यत्र तन्नियता शक्तिरेवावलम्बनम्, तया च तद्भरणमकृत्वा किन्न तद्व्यवहारमेवानुगतप्रत्ययादिरूपं ते कुर्वीरन् ? एवं हि कल्पनागौरवं परिहृतं भवति शक्ति: सामान्यं तद्व्यवहारश्चेति । तन्न सामान्यमर्थवदिति तदयुक्तम्; एवं हि विशेषाणामप्यपरिकल्पनप्रसङ्गात् । शक्यं हि वक्तुम्-यया प्रत्यासत्त्या गोत्वमेव खण्डादीन् विशेषान् बिभर्ति नाश्वत्वं तया तद्विशेषव्यवहारमेव कुर्वीतालं तद्विशेषैरिति । एवञ्च न कश्चिदपि विशेषो जीवितुमर्हति सर्वविशेषव्यवहाराणां सन्मात्रादेव महासामान्यादुपपत्तेः । विशेषाभावे कथं तद्व्यवहारः तस्यापि विशेषरूपत्वादिति चेत् ? सामान्याभावेऽपि तद्व्यवहारः कथं तस्याप्यनुगतप्रत्ययादेः सामान्यरूपत्त्रात् । कल्पित एव व्यवहारो विचारपीडां न सहत इति चेत्; न; विशेषव्यवहारस्यापि तादृशत्वात् । कथं पुनरेकस्वभावात् सामान्याद् देशकालादिभेदी तद्व्यवहारः, कारणभेदादेव कार्यभेदस्योपपत्तेरिति चेत् ? न; दाहपाकादिकार्यभेदेऽपि तद्धेतोः पावकस्य भेदाभावात् । तत्रापि शक्तिभेदादेव तद्भेद इति चेत्; कुतस्तदव्यतिरेकात् शक्तिमतोऽपि न भेद: ? तन्नानात्वेन तदेकत्वस्याविरोधादिति चेत्; महदिदमद्भु ं यत्- अनर्थान्तरशक्तिसमवायिना तन विरुद्ध अर्थान्तर कार्यसमवायिना तु विरुद्धयते इति ! व्यतिरिक्तैव शक्तिस्तद्वत इति चेत्; २५ न तत एव कार्यनिष्पतेः शक्तिमतो वैयर्थ्यापतेः । नायं दोष:, तेन तद्भेदस्य करणादिति चेत्; न तस्याप्यपरेण तद्भेदेन करणेऽनवस्थापत्तेः । स्वतस्तत्करणे कार्यभेदेन किमपराद्धं यतस्तमेव न कुर्वीत ? तथा च पावकवदेव सदात्मनः सामान्यस्यैव सकलजगद्भेदै निर्माणसामर्थ्योपपत्तेः व्यर्थमेव तदर्थं भावभेदपरिकल्पनम् । उक्तञ्च मण्डनेन
१ स्वरूपव्यव - आ०, ब०, प० । २ -ल्पे नि-आ०, ब०, प० । ३ -तू प्रत्यक्षात् प्रत्य-आ०, ब०, प०। ४ - रतो भेदा-आ०, ब०, प० । ५ शक्तिसा-आ०, ब०, प० । ६ यया प्रतीत्या आ०, ब०, प० । ७ दाहपावका-आ०, ब०, प० । ८ - निर्वाणसा-आ०, ब०, प० ।
६३
१५
२०

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618