Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 569
________________ १११४९] प्रथमः प्रत्यक्षप्रस्ताव ४९९ विशेषभ्यो भेदस्तदाधेयत्वं वा प्रत्यवभासते, कथञ्चित तदव्यतिरेकस्यैव तस्य तत्रावभासनात् । तथापि तत्र तदवभासकल्पनायर्या भवन्तु कुशलिनस्ताथागताः 'परस्परविश्लेषिणामणूनामेव वत्रावभासनम्' इति तेषामपि शक्यत्वात परिकल्पनस्य । खण्डादिषु गोत्वमिति तु प्रतिपत्तिरापोद्धारिकी व्यवहारार्था न तावता तस्य तदाधेयत्वम् , अन्यथा तेषामपि तदाधेयत्वं भवेत् - "सामान्यनिष्ठा विविधा विशेषाः" [ युक्त्यनु० श्लो० ४१ ] इत्यपि प्रतीतेः । कीदृशं ५ तर्हि तत्त्वम् ? इत्याह-उभयात्मकमञ्जसा इति । सामान्यविशेषोभयखभावं तत्त्वम् अञ्जसा परमार्थेनेति । तदात्मत्वेऽपि वस्तुनः सामान्यमेकमेव 'सर्वसर्वगतं न प्रतिव्यक्ति भिन्नं सदृशपरिणामलक्षणम् । तदुक्तम् "यथा च व्यक्तिरेकैव दृश्यमानः पुनः पुनः । . कालभेदेऽप्यभिन्नैवं जातिभिन्नाश्रया सती ।। कात्यावयवशो वृत्तिपृच्छा जातौ न युज्यते । न हि भेदविनिर्मुक्ते कात्य॑भेदविकल्पनम् ॥"[मी० श्लो०वन० ३२.३३] इति चेत् ; न ; व्यक्तिवत्तदन्तरालेऽपि तस्योपलम्भप्रसङ्गात् । अनभिव्यक्तर्नेति चेत् ; व्यक्तावपि न भवेत् , तदन्तरालगतात् तद्गतस्य तद्रूपस्याभेदात् । भेदे व्यक्तिगतमेव तत्सा. १५ मान्यमस्तु तत एव तत्प्रयोजनपरिसमाप्तेः व्यर्थ तदन्तराले तत्कल्पनम् । प्रतिव्यक्ति तस्य भेदे कथमभेदप्रत्ययः 'खण्डो गोर्मुण्डो 'गौरिति' इति चेत् ? अभेदेऽपि कथं क्वचिदभिव्यक्तिरनभिव्यक्तिश्चान्यत्र व्यक्तेरतद्रूपत्वात् ? न हि व्यक्तिर्विषयस्वभावो येन तद्वत्त्वेतराभ्यां तस्य भेदः अपि त्वन्यैव ततः, तत्प्रतिपत्तिरूपत्वादिति चेत् ; कथमेवं तदन्तराले "तदप्रतिपत्तावनभिव्यक्तिरुत्तरम् ? तैयाप्यप्रतिपत्तरेव प्रतिपादनात् । तत्पर्यनुयोगे तस्या एवोत्तरत्वानुपपत्तेः। २० कुतश्च तस्याभिव्यक्तिः ? यत्र "तत् तत इति चेत् ; न ; सर्वतः स्यात् , सर्वसर्वगतत्वेन तस्य सर्वत्र भावात् । यस्य सामयं तत इति चेत् ; "तदपि यदि सामान्यरूपं सर्वसर्वगतञ्च स एव दोष:- तदन्तरालेऽपि ततस्तदभिव्यक्तिरिति । नायं दोषः, "तस्य तत्रानभिव्यक्तत्वेनानभिव्यञ्जकत्वात् । इतरत्र कुतस्तदभिव्यक्तिः ? अन्यस्मात् सामर्थ्यादिति चेत् ; न ; तदपीत्यादेः तत्राप्यनुषङ्गादनवस्थापत्तेश्च । असर्वगतमेव तदिति चेत् ; न ; २५ सर्वगतसामान्यप्रतिज्ञाव्यापत्तेः । सामान्यादन्येव सामर्थ्यम् असर्वगतमनभिव्यक्तञ्च, अन्यथा पूर्ववद् दोषादिति चेत् ; ततोऽपि यद्यभिव्यक्तिस्तव्यापिनी ; सर्वस्य सर्वदर्शित्वप्रसङ्गः, सर्वगतसामान्यव्यापिन्या तदभिव्यक्त्या "तदव्यतिरिक्तसकलवस्तुव्याप्तेरवश्य. १ सर्व सर्व-आ०, २०, ५०।२ -वत्तत्तदन्त-आ०, ब०, ५०।३ -व्यक्तिगतस्य-मा०, ब०,१०। ४ गोरिति चेत् आ०, २०, ५०।५ "अभिव्यक्तः"-ता.टि.। ६ व्यक्त्यन्तराले। . सामान्याप्रतिपत्ती । ८ "अनभिव्यक्तर्न सामान्यप्रतिपत्तिः' इत्युत्तरम् । ९ अनभिव्यक्त्यापि। १० सामान्यम् । ११ सामर्थ्यमपि । १२ सामान्यस्य । १३ असर्वगतसामर्थ्यादपि । १४ तदभिव्यति-आ०,०,५०।

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618