Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 564
________________ ४९४ न्यायविनिश्चयविवरणे [१।१४६ अन्यः कल्पितरूपो विभ्रमनामा विषयो यस्य तदन्यत् तस्मादन्यद्- अनन्यवत् वास्तव. तत्तादाम्यविषयं बाधकामावादिति यावत् । इदानीं तेन द्रव्यपर्यायादीनामन्योन्यात्मकत्वेन भाव इति परिणामलक्षणं सङ्गव दर्शयन्नाह___ संयोगसमवायादिसम्बन्धाद्यदि वर्तते । अनेकत्रैकमेकत्रानेकं वा परिणामिनः ॥१४६॥ इति । संयोगश्च समवायश्च संयोगसमवायावादी यस्य संयुक्तैकार्थसमवायादेः स एव सम्बन्धः तस्मात् यदि चेत् वर्तते, के किम् ? अनेकत्र शरीरदेशेषु एकम् आत्मद्रव्य संयोगेन शरीरं समवायेन, एकत्र शरीरे अनेक कटककुण्डलादि संयोगेन, कटकत्वादि १० संयुक्तसमवायेन, रूपसंस्थानादि समवायेन वा, रूपत्वादि समवेतसमवायेन, शरीरसमवेते रूपादौ तस्य समवायात् । एवमन्यत्रापि योग्यम् । वेति समुच्चयार्थम् । तत्र समाधानम्परिणामिन इति । परिणाम उक्तलक्षणो विद्यतेऽस्येति परिणामी भावः तस्य परिणामिनः संयोगसमवायादिसम्बन्ध इति विभक्तिपरिणामेन सम्बन्धः । तथा हि- अप्राप्तयोः प्राप्तिः संयोगः । प्राप्तिश्च यदि शरीरादर्थान्तरम् ; कथं प्राप्तं शरीरमिति तद्रूपतया तत्र प्रत्ययः ? १५ सम्बन्धादिति चेत ; ततोऽपि ताद्रूप्यस्य सम्भवे सिद्धः परिणामः । शरीरस्यैव ततोऽतद्रूपस्य तद्रूपतयोत्पत्तेरसम्भवे कथं ततोऽपि तथा प्रत्ययः ? कथं वा तस्याभ्रान्तत्वम् अतस्मिंस्तगृहात् ? भान्साच कथं ततः ताप्यवत् शरीरस्यापि प्रतिपत्तिः ? ताद्रूप्य एवासौ भ्रान्तो न शरीर इति घेत् ; कथमेकस्यैव भान्तिरभ्रान्तिश्च स्वरूपं विरोधात् ? अविरोधे वा कथमेकस्यैव क्रमेणाप्राप्तिः प्राप्तिश्च स्वरूपं न भवेत् ? इति सिद्धः परिणामिन एव संयोगसम्बन्धः ।। तथा समवायोऽपि शरीरस्य तदाधारे तदवयवकलापे इहेति प्रत्ययहेतुः । तदा. धारत्वञ्च तत्कलापस्य यदि यावद्व्यभावि ; सशरीरस्यैव तस्य प्रतिपत्तिः स्यात् आधेयविरहितस्याधारस्यासम्भवात् । अयावद्र्व्यभाविनोऽपि तस्माद् व्यतिरेके 'तदाधारस्तत्कलाप:' इति न तद्रूपतया तत्प्रतिपत्तिः । सम्बन्धात्तथा तत्प्रतिपत्तौ : तहिमेतरकल्पनायां च पूर्वव त्प्रसङ्गात् । अव्यतिरेके सिद्धस्तत्कलापः परिणामी प्रागतदाधारस्य तदाधारतया तदुत्पत्यव२५ स्थायां परिवर्तनादिति समवायोऽपि परिणामिन एव ! एवं संयुक्तसमवायादिरपि । नन्वेवमशक्यपरिहारत्वे परिणामस्य किमवयवगुणविशेषेभ्यो गुण्यवयविसामान्यानामर्थान्तरत्वेन ? अवयवादीनां तद्रूपेणापि परिणामोपपत्तेरिति चेत ; अभिमतमेवैतत् । अत एवेदमपि व्याख्यानम्- अवयवादय एवावयव्यादिरूपेण परिणामिनः परिणामशीला इति । . क्वचिदने-आ०, ब०, ५०।२ -द्रव्यसंयो-आ०, ब०, ५०। ३ -वायादिः स-आ०, ब०, प० । ४-मिन यद्येवं आ०,०, प० ।५ किमवमवीव गु-आ०, ब०,५०। ६ तद्रूपत्वेनापि आ०, ब०,५०। अवयव्यादिरूपेणापि।

Loading...

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618