Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 554
________________ ४८४ न्यायविनिश्चयविवरणे [ १२१२८-१३१ सङ्गृह्य कथयन्नाह उत्पादविगमध्रौव्यद्रव्यपर्यायसङ्ग्रहम् ॥१२८॥ सद्भिन्नप्रतिभासेन स्याद्भिन्नं सविकल्पकम् । इति । सद् अर्थक्रियासमर्थमिदं धर्मि, सत्रेदं साध्यम्-उत्पादविगमधोव्याण्येव द्रव्यम् ५ "उप्पायद्विदिभंगा हवंति दव्वियलक्खणं एयं ।" [सन्मति०१।१२] इति वचनात् , तच्च पर्यायाश्च तेषां सङ्ग्रहः परस्परतादात्म्येन स्वीकारो यस्मिन् तत्तथोक्तम् । कुत एतत् ? इत्यत्राह-सविकल्पकम् सांशं यतः । निरंशत्वे हि तत्समहत्वं सतो न स्यात् । सविकल्पकत्वे हेतुमाह-स्यात् कथञ्चिद् भिन्न भिन्नतया प्रतिपन्नम्। केन ? भिन्नप्रतिभासेन । यद्येवं भिन्नमेव तदस्तु नाभिन्नमित्यत्रांह अभिन्नप्रतिभासेन स्यावभिन्नम् [ स्वलक्षणम् ] ॥१२९॥ इति । सुबोधमिदम् । सामान्यमेव तादृशमिति चेत् ; आह-'स्वलक्षणम्' इति । कथं पुनः परस्परविरुद्धभेदाभेदधर्माधिष्ठानमेकं वस्त्विति चेत् ? आह विरुद्धधर्माध्यासेन स्याविरुद्धं न सर्वथा । इति । एतदेव कुत इत्याह असम्भवदतादात्म्यपरिणामप्रतिष्ठितम् ॥१३०॥ असम्भवंश्वासावतादात्म्यपरिणामश्च असम्भवदतादात्म्यपरिणामः सम्भव. त्तादात्म्यपरिणाम इत्यर्थः । तत्र प्रतिष्ठितं प्रमाणेन पूर्व स्थापितं यत ति । अनेने भेदाभेदयोरेकत्र समवाय एव न तादात्म्यमिति प्रतिक्षिप्तम् । पुनरपि तद्विशेषणमाह समानार्थपरावृत्तमसमानसमन्वितम् । इति । समानार्थाःशक्तिसादृश्येन तुल्याः मृत्पिण्डस्य दण्डादयः तेभ्यः परावृत्तमपसृतम् । अनेन साङ्ख्यकल्पितं वस्तुसाङ्कय प्रतिक्षिप्तम्। असमानो विसदृशपरिणामः तेन समन्वितं सङ्गतम् । अनेनापि 'सर्वमेकान्तेनाभिन्नम्' इति ब्रह्मवादिमतं प्रतिध्वस्तम् । कुतः पुनः तदित्थमित्याह [प्रत्यक्षं बहिरन्तश्च परोक्षं स्वप्रदेशतः। ॥१३०॥ २५ प्रत्यक्ष प्रत्यक्षवेद्यं यतः । क ? 'बहिरन्तश्च' इति । यद्येवं प्रत्यक्षत एव तथा तस्य प्रतिपत्तेः, प्रमाणान्तरस्य वैफल्यमिति चेत् ; आह-'परोक्षं स्वप्रदेशतः' इति । ततो न तद्वैफल्यमिति भावः । कथं पुनरेकमेव स्वलक्षणं तथा प्रत्यक्षं परोक्षश्चेति चेत् ? अत्राह सुनिश्चितमनेकान्तमनिश्चितपरापरैः । इति ।। १-भंगा भवन्तिद -ता० । २ अनेकभेदा-आ०, ब०, ५० ।

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618