Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 553
________________ १११२८ ] प्रथमः प्रत्यक्ष प्रस्तावः ४८३ प्रमाणस्य प्रसङ्गात् । अनुमानमेव अर्थक्रियाप्राप्तिलिङ्गेजमिति चेत्; न; तस्यापि तत्रागृह प्रतिबन्धात् प्रामाण्ये 'कुतस्तत्र प्रतिबन्ध:' इत्यनुषङ्गात् अनवस्थापत्तेश्च । तदनेन मणिप्रभामणिज्ञानस्यापि मणौ प्रतिबन्धश्चिन्तयितव्यः । तत इदमपि निर्विषयमेव परस्य भाषितम् “लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि । प्रतिबन्धात्तदाभासशून्य योरप्यवञ्चनम् ||" [ प्र० वा० २।८२ ] इति । को वा सोऽर्थो यत्र तस्य प्रतिबन्धः, यतोऽप्यर्थक्रियावाप्ति: ? एकान्तनिरंशक्षणिकपरमाणुलक्षण इति चेत्; न; तादृशस्य मणेरप्यप्रतिपत्तेः । तत इदमशक्योपपादनमेव “मणिप्रदीपप्रभयोर्मणिबुद्धयाभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ।। यथा तथा [s] यथार्थत्वेऽप्यनुमानतदाभयोः । अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥” [प्र०वा० २।५७-५८ ] इति । दृष्टान्ते दाष्टन्तिके च परकल्पितस्यार्थस्याभावे तदर्थक्रियाया एवासम्भवात् 'विशेषोऽर्थक्रियां प्रति' इति, 'अर्थक्रियानुरोधेन' इति च वक्तुमशक्यत्वात् । 1 नन्वेवंविचारे नानुमानं न च तदभ्यासजं प्रत्यक्षमिति सकलव्यवहारविलोप:, ततो १५ व्यवहारं परिपालयता तत्प्रामाण्यमकृत विचारमेवाभ्युपगन्तव्यमिति चेत्; न; नित्यत्वाद्यनुमानस्यापि तथा तदभ्युपगमप्रसङ्गात् व्यवहारस्य प्रायशः तद्विषयादेवोपपत्तेः । तदाह'प्रत्यक्षेतरगोचरौ' प्रत्यक्षादितरदनुमानं तस्य गोचरौ विषयौ कथं न प्रकल्प्येते ?, प्रकल्प्येते एव, कथमित्यस्य प्रक्रान्तेन नया सम्बन्धात् । कौ ? तद्गौचरो कथं न प्रकल्प्येते भेदाभेदौ । भेदश्च उपलक्षणमिदं निरंशत्वादेः, अभेदश्च, इदमप्युपलक्षणं व्यापित्वादेः, २० तौ इति । अभेदस्यैव तद्गोचरत्वप्रकल्पना वक्तत्र्या न भेदस्य तत्र सौगतस्यापि ( स्याविप्रतिपत्तेरिति चेत्; न; दृष्टान्तार्थस्वात् तद्वचनस्य । यथा भेदस्याकृतविचारमेव तद्गोचरत्वं तद्वदभेदस्यापि वक्तव्यमिति । कैः पुनस्तौ तथा कथन्न प्रकरूप्येते ? इत्याह- आत्मविकल्पकैः । आत्मानं कूटस्थ नित्यमीश्वरादिकं ये विशेषेण कल्पयन्ति नैयायिकादयः तैरिति । ततो नित्यत्वाद्यनुमानव्युदासेन क्षणिकत्वाद्यनुमानस्यैव प्रामाण्यं व्यवस्थापयता २५ वस्तुग्राहित्वं तस्याभ्युपगन्तव्यम् । तथा च सिद्धं तद्वदेव सम्भवक्रमानेकधर्माधिष्ठानभावविकल्पस्यापि वस्तुविषयत्वं निर्बाधत्वात्, अन्यथाऽर्थवेदिनः संवेदनस्यैवाप्रतिपत्तेरिति स्थितं सामान्यविशेषात्मकत्वं प्रत्यक्षविषयस्य । साम्प्रतमुक्तमेवार्थमनुग्रहपरत्वात् शिष्याणामनुस्मरणाय १ - लिङ्गमिति आ०, ब०, प० । २ -भामणैर्ज्ञा - ता० । श्लोकानां विंशत्या १०

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618