Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 559
________________ ४८९ १।१३९ । प्रथमः प्रत्यक्षप्रस्ताव नयापरनामधेयेन नीतं प्रापितम् । काम् ? समानाधारश्च गौः शुक्लः इत्यादिशब्दप्रवृत्तिनिमित्तभेदस्यैकमधिकरणम्', सामान्यञ्च गवां गोत्वमिति , विशेषणं च भेदकं नीलमिति , विशेव्यच भेद्यमुत्पलमिति , तेषां भावं समानाधारसामान्यविशेषणविशेष्यताम् । विकल्पस्यावस्तुविषयत्वेन मिध्यैव तन्निबन्धनं तन्नयनमिति चेत् ? ने ; तद्वस्तुविषयत्वस्य व्यवस्थापितत्वात् । अत एवोक्तम्-तत्त्वानुसारिणा इति । कथं पुनस्तत्रासतां तेषां तेनाप्य- ५ पोद्धार इति चेत् ? न; प्रमाणतोऽनेकधर्माधिष्ठानतया वस्तुनः प्रतिपत्तौ तदसत्त्वायोगात् । अत एवाई 'भेवानां बहुभेदानां तत्रैकत्रापि सम्भवात् ।' यद्येवं प्रमाणत एव भेदविषयात् सामानाधिकरण्यादिव्यवहारोपपत्तेः किं तदर्धन नयकल्पनेनेति चेत् ? न ; भेदस्याभेदोपश्लिष्टस्यैव तेन प्रतिपत्तेः अगुणप्रधानभावेन १० चोपेक्षिताभेदो गुणप्राधानभाषी च भेदः प्रस्तुतव्यवहारोपयोगी , न च तस्य नयादन्यतः प्रतिपत्तिः । न चैवं व्यवहारानङ्गमेव प्रमाणम् ; आपोद्धारिकव्यवहारस्यातन्निबन्धनत्वेऽपि सकलधर्मकलापालङ्कृतजोवादिपदार्थव्यवहारस्य तत एवोपपत्तेः । ___तदेवं वस्तुभूतादेव धर्मभेदात् व्यवहारोपपत्तौ यत्तदर्थ व्यावृत्तिभदेन जातिभेदोपकल्पनं तस्यायुक्तत्वं तत्कल्पनकृतान्चास्थानभीरुत्वं दर्शयन्नाह अत्र दृष्टविपर्यस्तमयुक्त परिकल्पितम् ॥१३८॥ मिथ्याभयानकग्रस्तैमंगैरिव तपोवने । इति । अत्र एतस्मिन् वस्तुनि कथितव्यवहारनिमित्तं यजातिजातं परिकल्पितं स्वेच्छाविरचितम् । कीदृशम् ? दृष्टात् प्रत्यक्षप्रतिपन्नात् वस्तुभूताद् धर्मभेदात् विपर्यस्तं विपरीतम् अवस्तुरूपमिति यावत् , तत् अयुक्तम् अवस्तुत्वेन व्यवहारफलेनासम्बन्धात् , अन्यत एव च तस्य २० भावाप प्रतिपत्तिफलेन वा । निवेदितं चैतत् । कैस्तत्परिकल्पितम् ? भयानकाः भयहेतवोsनेकान्तविषयाः संशयादयः, मिथ्या च से भयानकाश्च मिध्याभयानकास्तेषां दोपाभासत्वेन साक्षाद् भयानकत्वाभावात् तैर्मस्ता वशीकृता मिथ्याभयानकग्रस्ताः तैः सौगतैः । अत्र निदर्शनं मृगैरिव तपोवने । तथा मृगैः मिथ्याभयानकप्रस्तैः क्षेमस्थानेऽपि वैपरीत्यं कल्प्यते तथा विवेकविकलैः सौगतैरपि वस्तुनि वस्तुभूतानेकधर्माधारे निशेषनिश्रेयसाभ्यु- २५ दयनिबन्धने संशयादिमिथ्यादोषविभीषितावलोकनविह्वलैः व्यवहारार्थमवस्तुभूतभेदाधारत्वं परिकल्पितमिति । मिथ्याभयानकत्वमेव तेषां दर्शयन्नाह १-करणं च सा आ०, ब०,१०।२ न्यायवि० श्लो. १२२ । ३ प्रमाणतः। ४ -पाभावत्वेन आ०, ब०,५०।५ कल्पिते आ०, ब०,५०।

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618