Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 548
________________ ४७८ ग्यायविनिश्चयविवरणे [१११२७ स्यान्मतम्'-सति सामान्ये सम्भवत्येकत्र भेदः तस्यैव एकार्थत्वात् । न च तदस्ति; व्यक्तिभ्योऽर्थान्तरत्वेन अप्रतिपत्तेः । न च ता एव सामान्यम् ; अनन्वितत्वात् । कथञ्चि. दन्वयकल्पनायाम्; अनवस्थोपनिपातात् । तदभावे कथं धर्मिधर्मादिव्यवस्था ? सामान्यरूप एव हि शब्दो धर्मी तस्य साध्यसाधनधर्मसाधारणत्वात् । धर्मोऽपि साध्यमनित्यत्वं तद्रूप५ मेव, तस्य पक्षसपक्षसाधारणत्वात् । अन्यथा तदंशव्याप्तेरभावप्रसङ्गात् । हेतुधर्मोऽपि कृतकत्वादिः तत्साधारण एव, अन्यथा अनैकान्तिकत्वप्रसङ्गात; इत्यपि न मन्तव्यम्; व्यावृत्ति. भेदतस्तदुपपत्तेः । अशब्दव्यावृत्तिः शब्दो धर्मी, धर्मश्च अकृतकत्वादिव्यावृत्तिः कृतकत्वादिरिति पर्याप्तमेतावता किं तदर्थेन वस्तुभूतसामान्यपरिकल्पनेन ? परिकल्पितेऽपि तस्मिन् तरे दस्य अवश्याभ्युपगमनीयत्वात् , अन्यथा भेदव्यवहारप्रच्युतेः । सामानाधिकरण्यादिव्यव. १. हारस्यापि तत एवोपपत्तेः । तद्भेदस्य॑ वस्तुसत्त्वेऽन्वितत्वे च सामान्यस्यैव शब्दान्तरमिदमि. त्यपि न मन्तव्यम्; कल्पनयैव तस्य तद्रूपत्वात् न वस्तुतः । कल्पनैवे हीयम् अवस्तुसन्तमपि वस्तुसन्तमिव अनन्वितमप्यन्वितमिव अभिन्नमपि भिन्नमिव स्ववासनाप्रकृतेरुपदर्शयन्ती धर्मिधर्मभावादिसामान्यप्रयोजनमुपकल्पयति । तदुक्तम् "संसृज्यन्ते न मिद्यन्ते स्वतोऽर्थाः पारमार्थिकाः । रूपमेकमनेकञ्च तेषु बुद्धरुपप्लवः ॥" [प्र०वा० ३।८६] इति । 'तनैकत्र भेदसम्भवः तस्यैवैकस्याभावादिति; तत्राह अन्वयोऽन्यव्यवच्छेदो व्यतिरेकः स्वलक्षणम् ॥१२६॥ ततः सर्वा व्यवस्थेति नृत्येकाको मयूरवत् । इति । अन्वयः अनुगमः खण्डादिषु गौरिति तन्तुषु अयं पट इति रुचकादौ तदेवेदं सुव२० मिति रूपः, सोऽन्यस्य कर्कादेः वीरणादेः मृदादेश्च व्यवच्छेद एव नापरः। तथा सर्व स्मात् सजातीयात् विजातीयाच्च व्यतिरिच्यते भिद्यते इति व्यतिरेकः स एव स्वलक्षणम् न पूर्वोक्तम् । ततः तस्मादन्वयात् स्वलक्षणाच्च सर्वा निरवशेषा व्यवस्था स्वाभिमतवस्तुव्यवस्थितिः इति एवं नृत्येत् "नृत्तं कुर्यात् काक इव काकः सौगतः तद्व्यवस्थात्मनि नृत्यक्रियायामुपायात्मनः पिच्छभारस्याभावात् मयूर इव मयूरो जैनः तत्र तस्य "तदारस्य २५ निवेदनात् स इव तद्वदिति । सौगतस्यापि उक्त एव तत्रोपायः अन्वयः स्वलक्षणन्च तत्कथमेतदिति चेत् ? न तावत् स्वलक्षणं तत्रोपायः; तस्य १ बौद्धस्य । २ "सौगत एव परेणापाद्यमानं दूषणमनुवदति"-ता० टी०। ३ सामान्याभावे । १ सपक्षसाधारण एव । ५ "पक्षमात्रे कृतकत्वास्याङ्कीकारप्रकारेण असाधारणानैकान्तिकत्वम्"-ता. टि०। ६-त्वाव्यावत: कृ- आ०,०,०1. "अनित्यः शब्द इति"-ता०टि०। ८ अतद्भदस्य । ९- नैव ह्यवस्तु आ.ब.प.। द्रष्टव्यम्- प्र०वा०ख० ३१७८९३ । १० "भेदानां बहुभेदानां तत्रैकस्मिन्नयोगतः ।" -प्र. वा० ३.८५। " नृत्यं कु- आ०, ब०, प० । १२ तद्भावस्य आ०, व., प० ।

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618