Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 537
________________ भथमः प्रत्यक्षप्रस्तावः ४६७ ___एकज्ञानाद्धि तदेकसिद्धिः, तच्चैकस्य नानावयवसाधारण्य(ण)स्थूलस्य ज्ञानमतीन्द्रियम् एकज्ञानम् न तस्मादेवैकस्मात् , अपि तु अनेकतः अनेकस्मात् परमाणोः। कीदृशात्? शेषपरावृत्तेः शेषाः तज्ज्ञानं प्रत्यहेतवः प्रत्येकावस्थाः परमाणवः तेभ्यः परावृत्तिः सञ्चयलक्षणा यस्मिन् तस्मादिति । तथा हि-घटादावेकज्ञानं सञ्चितानेकनिबन्धनम् एकज्ञानत्वात् दूरविरलकेशेषु तज्ज्ञानवत् । ततो न तद्बलात् अक्रमादनेकस्वभावस्यैकस्य सिद्धिरिति परस्या- ५ कूतम् । 'यदि' इति तदवद्योतनार्थम् । अत्रोत्तरमाह अनर्थमन्यथाभासम् [ अनंशानां न राशयः ] ॥१२३॥ इति । 'एकज्ञानम्' इत्यनुवर्तते । तत् न विद्यते अर्थः अर्थक्रियासमर्यः यस्मिंस्तत् अनर्थम् , 'नमोऽर्थात्' [ शाकटा० २।१।२२८ ] इति कजभावः, समासान्तस्यानित्यत्वात् । अथवा अर्थो न भवतीत्यनर्थः स्थूलाकारः, सोऽस्यास्तीत्यनर्थम् , अभ्रादिपु दर्शनादकार. १. प्रत्ययात् । अनर्थत्वे निमित्तम् 'अन्यथाभासम्' इति । अर्थो येन व्यवस्थितोऽनेकाऽस्थूलप्रकारेण तस्मादन्येन एकस्थूलप्रकारेण भासः परिच्छेदो यस्मिन् तद् अन्यथाभासम् । यद. न्यथाभासं तदनर्थम् यथा दूरविरलकेशेषु स्थूलैकज्ञानम् , तथा च घटादावपि तज्ज्ञानम् , तथा च कथं तस्य प्रत्यक्षत्वं भ्रान्तत्वात् १ स्थूलाकार एव तस्य तत्त्वं न नीलादाविति चेत् ; कथमेकस्यैव तत्त्वमतत्त्वश्चापि रूपम् ? अन्यथा घटादेरपि नानैकरूपत्वस्याविरोधात् न स्थूला. १५ कारेऽपि तस्य विभ्रम इति कथं तत्रापि तत्प्रत्यक्षं न भवेत् ? दूरे तदाकारस्य असत एव दर्शनान्नैवमिति चेत् ; नीळमदावपि नैवम् , तस्यापि क्वचिदसत एवोपलम्भात् । यत्र बाधोप. निपातः तत्रैव तस्यासत्त्वं न सर्वत्रेति चेत् ; न; स्थूलाकारेऽपि तुल्यत्वात् । ___ कथं वा दूरोपलभ्यस्य तदाकारस्यासत्त्वम् ? प्रत्यासत्तौ तद्विविक्तानामेव केशानामुपलम्भादिति चेत् ; कीदृशास्ते केशाः ? स्वावयवापेक्षया स्थूला एवेति चेत् ; असन्त एव वस्तुत: २० तर्हि तेऽपीति कथं तेषां सञ्चयः? कथं वा स्थूलघनज्ञानहेतुत्वम् असतां तदयोगात् । निरंशपरमाणुस्वभावा एवेति चेत् ; न तेषां प्रत्यासत्तावप्युपलम्भ इति कथं ततस्तदाकारस्यासत्त्वं यतस्तनिदर्शनात् घटादावपि तदसत्त्वम् ? ___ भवतु स्थूलवत् नीलादावपि तस्य नानावयवसाधारणतया सविकल्पत्वेन विभ्रम एव "सर्वमालम्बने भ्रान्तम्" [ ] इति वचनात् । प्रत्यक्षत्वं तु तस्य व्यवहर्तृ. २५ प्रसिद्धादविभ्रमादिति चेत् ; न तर्हि ततो बहिनिरंशार्थसिद्धिः अतदाकारत्वात् , अन्यथा आकारवादव्याघातात् । ततः स्थूलार्थस्यैव सिद्धिश्वेत ; न तर्हि तस्ये निर्विकल्पकत्वम्, तद्विषयस्य साधारणतया सविकल्पकत्चेन तत्सामर्थ्यजन्मनि तस्मिन्नपि तत्त्वस्यैवोपपत्तेः। १ इतिसूत्रेण विहितस्य कच प्रत्ययस्याभावः । २ "अभ्रादिभ्यः"-शाकटा० ३।३।१४२। ३ भ्रान्त. त्वम् । ४ "परमार्थतस्तु सकलमालम्बने भ्रान्तमेव ।"-प्र. वार्तिकाल. २११९६ । ५ तदाकारज्ञानस्य । ६ ज्ञानेऽपि ।

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618