Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 520
________________ ४५० न्यायविनिश्चयविवरण [१११२१ तदेवं मूलकारिकानिर्दिष्ठयोः द्रव्य पर्यायपदयोः व्याख्यानं कृत्वा सामान्यविशेषपदयोस्तदर्शयति समानभावः सामान्यं विशेषोऽन्यो व्यपेक्षया ॥१२१॥ इति । समानः सदृशः स चासौ भावश्च आत्मलाभः स एव सामान्यम्, 'नैक ५ सकलव्यक्तिगतम्' इति समानशब्देन, 'नापि तद्वतोऽर्थान्तरम्' इति च भावपदेन प्रदर्शयति । न हि सामान्यं तदाधारसमस्तव्यक्तिगतमेकं सम्भवति; व्यक्त्यन्तरालेऽपि तदुपलम्भप्रसङ्गात् । व्यक्तावेव तदुपलम्भो व्यक्तेस्तन्निमित्तत्वात् नान्यत्रेति चेत् ; न; उपलभ्येत रस्वभावतया तस्य भेदापत्तेः । ततो व्यापि सामान्यं तथैवोपलभ्यत इति कथनान्तरालेऽपि १० तदुपलब्धिः ? व्यक्तिष्वेव भावादिति चेत् ; तदन्तरालेष्वसतः कथमेकत्वम् ? अनुगतप्रत्ययात् ; कः प्रत्ययस्यानुगमः ? एकत्वमिति चेत् ; न; प्रतिव्यक्ति 'खण्डो गौः मुण्डो गौः' इति तद्भेदस्यैवोपलम्भात् । प्रत्ययत्वं सामान्यमिति चेत् ; तस्याप्येकत्वं तद्व्यक्तिषु कुतः १ तदन्यस्मादनुगतप्रत्ययादिति चेत् ; न; तत्रापि 'कः प्रत्ययस्यानुगमः' इत्यादेरावृत्तेरनवस्था पत्तेश्च । तन्नैकं सत्त्वमन्यद्वा सामान्यम् । १५ नापि भावादर्थान्तरम् ; भावस्यासत्त्वापत्तेः । सत्त्वेन सम्बन्धान्नेति चेत् ; न; सम्बन्ध. स्य द्विष्टत्वात् , असतश्च तदधिकरणत्वानुपपत्तेः काकदन्तवत् । प्रागेवाऽसत्त्वं तत्सम्बन्धात् न तत्समये इति चेत् ; न ; किं पुनस्तत्सम्बन्धः कादाचित्को यत एवम् ? तथा चेत् ; कुतस्तस्यापि सत्त्वम् ? अन्यस्मात् तत्सम्बन्धादिति चेत् ; सोऽपि कथमसतः व्योमकुसुमवत् ? तस्यापि प्रागेव तत्सम्बन्धादसत्त्वं न तत्समय इति चेत् ; न; तत्रापि 'किं पुनः' इत्यादेर्दोषा२० दपरिनिष्ठानाच्च । अकादाचित्कस्तु नित्य एवेति न तदपेक्षं भावस्य प्रागसत्त्वम् । भवतु स्वरूप सत्त्वापेक्षमेवेति चेत् ; सति तस्मिन् किमन्यसत्वसम्बन्धेन ? कारणेन तत्सम्बद्ध एवोत्पाद्यत इति चेत् ; भवेदेवं यदि सत्त्वद्वयमुपलभ्येत । न चैवम् ; 'घटोऽस्ति, पटोऽस्ति' इत्यादावेकस्यैव आत्मभूतस्य तस्योपलम्भात् । घटोऽस्तीति प्रत्ययः विशेषणापेक्षः, विशिष्टप्रत्ययत्वात् , दण्डीति प्रत्ययवत् , यच्चापेक्ष्यं २५ विशेषणं तद् अर्थान्तरं सत्त्वम् , तत्कथं तस्याऽप्रतिपत्तिरिति चेत् ? न; स्वरूपसत्त्वस्यैव कल्पना पृथक्कृतस्य विशेषणत्वोपपत्तेः । दण्डीत्यत्र वस्तु भिन्नमेव विशेषणं दृष्टमिति चेत् ; किं तत्ता. दृशम् ? दण्ड इति चेत् ; तर्हि 'देवदत्ते दण्डः' इत्येव प्रत्ययः स्यात् 'उत्पले नीलम्' इतिवत्, न 'दण्डी' इति । दण्डसम्बन्ध एव; तस्यैव मत्वर्थीयेनाभिधानादिति चेत् ;न; तस्यापि स्वरूपप्रत्यासत्तेरन्यस्याऽप्रतिपत्तेः, अकारणाच्च ततो दण्डीत्यत्र तत्प्रत्यासत्तेरिव सद्र्व्यमित्यादौ १-षोऽन्यव्यपे-आ०, ब०, प० । २ सम्बन्धस्यापि । ३ तत्सम्बन्ध-आ०, ब०, ५०।४-स्यापत्तेआ०, ब०, प.।

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618