Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 503
________________ १।११६] प्रथमः प्रत्यक्षप्रस्तावः ४३३ घेत् ; किन्न सर्वस्यापि तद्वत्त्वं व्यतिरेका विशेषात् । आत्मादावेव भावादिति चेत् ; कः सप्तम्यर्थः ? स्वरूपमेवेति चेत् ; न ; प्रागिव तस्य तदर्थत्वानुपपत्तेः । समवाय इत्यप्यनेनापास्तम् । प्रागभावी स्वभावस्तस्य पश्चादिति चेत् ; कुतस्तस्येति ? समवायान्तरादिति चेत् ; न ; तस्याभावात् । भावेऽपि प्रागिव पश्चादपि ततस्तदनुपपत्तेः। तत्रापि प्रागभाविनः स्वभावस्य पश्चाद्भावे अनवस्थादोषात् । तादात्म्यादिति चेत् ; आत्मादेरेव स तादृशः करमा. ५ प्रभवति ? अनित्यत्वापत्तेः समवायेऽप्यविशेषात् । एवं हि समवायपरिकल्पनमदृष्टकल्पनत्वेन पापीयः परिहृतं भवति । ततः सिद्धं गुणवत्त्वात् पर्ययवत्वमात्मादेः, पूर्वापरस्वभाववैलक्षण्यस्यैव पर्यायार्थत्वात् । ___ ननु एवं बुद्ध्यादिनाप्यात्मादेः तादात्म्यादेव तद्वद्भावोपपत्तेः किं तदर्थेन पर्ययवत्वकल्पनेन ? अन्यथा तदर्थेनाप्यपरपर्ययवत्त्वकल्पनेन भवितव्यं तदर्थेनाप्यपरेण तत्कल्पनेनेत्य- १० नवस्थापत्तेरिति चेत् ; सत्यमेवेदं गदि परोऽप्येवं प्रतिबुद्ध्येत । न च प्रतिबुध्यते अनेकान्तवादापत्तिभयात् , अतस्तं प्रति सैव तदापत्तिर्गुणवत्त्वेन व्यवस्थाप्यते । तच्च गुणवत्त्वं न गुणसमवायो नापि गुणतादात्म्यं यदन्यतरासिद्धं भवेत् , अपि तु गुणसम्बन्धमात्रम् । तस्य चोभयसिद्धस्य भवत्येव गमकत्वम् , अन्यथानुपपत्त्युपपत्तेः । ननु इह गुणा बुद्धपादयः, ते च पर्याया एवं क्रमभावात् , तद्वत्त्वं च पर्ययवत्वमेव । १५ तश्चेत्सिद्धम् ; न साध्यम् । असिद्धश्चेत् ; न साधनम् । अन्यदेव पर्ययवत्त्वं ततः साध्यमिति चेत् ; न ; ततोऽप्यन्यस्य तद्वत्त्वस्य साधने अनवस्थापत्तेः, असाधने साधनस्य व्यभिचारादिति चेत् ; न ; शक्तिव्यक्तिरूपतया साध्यसाधनयोर्भेदात् । व्यक्तयो हि बुद्धयादयः पर्यायाः; तद्वत्त्वेन प्रतिबुद्धयादिव्यक्ति भिद्यमानैः शक्तिपर्ययैस्तद्वत्त्वं द्रव्यस्योपकल्प्यते । शक्तिपर्यायाणामपरशक्तिपर्ययोपनिबन्धनत्वं यदि नास्ति व्यक्तिपर्यायाणामपि न भवेत् । अस्ति चेत् ; अन• २० वस्थानमिति चेत् ; सत्यम् ; अनवस्थिता एव तत्पर्यया अनन्तशक्तित्वात् भावस्य । तदेव कुतोऽवगन्तव्यम् ? व्यक्तिपर्ययात् । शक्तिपर्ययस्य ततोऽपि परस्य तत्पर्यायस्यानुमानेऽनवस्थापत्तेः ; "इत्यपि न युक्तम् ; कतिपयतदनुमानपर्यवसाने तद्बलभाविन 'ऊहादेव निरवधिशक्तिः पर्ययपरिच्छेदोपपत्तेः अनवस्थोपनिपाताभावात् । ऊहस्य चावश्याभ्युपगमनीयत्वात् , अन्यथा अनाद्यनन्तकालकलापस्याप्रतिपत्तेः, आत्मादौ तत्सम्बन्धात्मनो नित्यत्वस्य अव्यवस्थापनप्रसङ्गात्। ११ ततो युक्तं गुणवत्त्वेन पर्ययवत्त्वोपकल्पनम् । सम्प्रतिपत्तिविषये गुणवत्वे विप्रतिपत्तिविषय. पर्ययवत्त्वाविनाभानिश्चयसद्भावात् । अत एव च साध्यसाधनभावेन भेदात् सूत्रे गुणपर्यययोः पृथगुपादानमित्यावेदयति 'सवापि' इत्यादिना-गुणपर्यययो.क्यम् । इति एवं सूत्रे द्वयग्रहः भेदः । कुतः ? प्रतीतस्यैव आ०, ब०, प० । २ तदेव न कु -आ०, ब०, प० । ३ व्यक्तिपर्ययात् शक्तिपर्ययस्य । ४ शक्तिपर्यायस्य । ५ इत्यप्य युक्तम् आ०, ब०, प० । ६ तर्कादेव । ७ -शक्तिपरि -आ०, ब०, प०। ८ -नियमस्तदाभा-आ०, ब०, प० ।

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618