Book Title: Dharm Sangrahani Part 02 Author(s): Ajitshekharsuri Publisher: Adinath Jain Shwetambar Jain Mandir TrustPage 31
________________ : “विरहशब्देन हरिभद्राचार्यकृतत्वं प्रकरणस्यावेदितम्, विरहाङ्कत्वाद् हरिभद्रसूरेरिति ।" पञ्चाशकवृत्तौ श्रीमदभयदेवसूरयोऽपि " इह च विरहशब्देन हरिभद्रचार्यकृतता प्रकरणस्य सूचिता, विरहाङ्कत्वात्तस्य ।" ललितविस्तरापञ्जिकायां मुनिचन्द्रसूरय :- "इह विरह इति याकिनीमहत्तरासूनोराचार्यहरिभद्रस्य" योगबिन्दुटीकायां तत्कर्तार :- "विरह इति च भगवतः श्रीहरिभद्रसूरेः प्रकरणाङ्कयोतकः” इति । प्रबन्धकोशे राजशेखरसूरयश्चं - "तत्प्रथमं याकिनीधर्मसूनुरिति हरिभद्रग्रन्थेष्वन्तेऽभूत्, १४४० पुनर्भवविरहः" इति । तत्र–“अष्टकाख्यं प्रकरणं कृत्वा यत्पुण्यमर्जितम् । विरहात्तेन पापस्य भवन्तु सुखिनो जनाः ॥" इत्यष्टकप्रकरणे, " स तत्र दुःखविरहादत्यन्तसुखसंगतः । तिष्ठत्ययोगो योगीन्द्रवन्द्यस्त्रिजगदीश्वरः ॥” इति धर्मबिन्दौ " कृत्वा यदर्जितं पुण्यं मयैनां शुभभावतः । तेनाऽस्तु सर्वसत्त्वानां मात्सर्यविरहः परः ॥” इति ललितविस्तरायाम्, " कृत्वा टीकामेनां यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद्गुणानुरागी भवतु लोकः ॥” इति पञ्चवस्तुकटीकायाम्, “कृत्वा प्रकरणमेतद्यदवाप्तं किञ्चिदिह मया कुशलम् । भवविरहबीजमनघं लभतां भव्यो जनस्तेन ॥” इति शास्त्रवार्तासमुच्चये, “योग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनान्वितैः । मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये ॥” इति योगदृष्टिसमुच्चये, “एते प्रवचनतः खलु समुद्धृता मन्दमतिहितार्थं तु । आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः ॥” इति षोडशकप्रकरणे, "कृत्वा प्रकरणमेतद् यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद्गुणानुरागी भवतु लोकः ॥" इत्यमेकान्तजयपताकायाम्, “समुद्धत्यार्जितं पुण्यं यदेनं शुभभावतः । भवान्ध्यविरहात्तेन जनः स्ताद् योगलोचनः ॥” इति योगबिन्दौ, "वाणीसंदोहदे हे ! भवविरहवरं देहि मे देवि ! सारम्" इति संसारदावेति प्रसिद्धायां वीरस्तुतौ, "काऊण पगरणमिणं पत्तं जं कुसलमिह मया तेणं । दुक्खविरहाए भव्वा लभंतु जिणधम्मसंबोधिं" ॥” इति धर्मसंग्रहण्याम्, "जाइणिमयहरिआए रइआ एए उ धम्मपुत्तेण । हरिभद्दायरिएणं भवविरहं इच्छमाणेणं 20 ।।" इत्युपदेशपदेषु, "जम्हा एसो सुद्धो अनिआणो होइ भाविअमईणं । तम्हा करेह सम्मं जह विरहो होइ कम्माणं 21 ॥” इति पञ्चाशकप्रकरणे, "इच्चाइगुणसमेया भवविरह पाविऊण परमपयं । पत्ता अणंतजीवा तेसिमणुमोयणा मज्झ 22 ॥” इति संबोधप्रकरणे च । इत्यादीनि निदर्शनानि विरहशब्दलाञ्छितग्रन्थानाम् । विरहाङ्ककरणकारणं च हंस- परमहंसाख्यस्वविद्वच्छिष्यद्वयवियोगसूचनमिति । यदुक्तं प्रभावकचरित्रे - "अतिशयहृदयाभिरामशिष्यद्वयविरहोर्मिभरेण तप्तदेहः । निजकृतिमिह संव्यधात्समस्तां विरहपदेन युतां सतां स मुख्यः ॥२०६॥ दशवैकालिकटीकाऽऽवश्यकवृत्ति - प्रज्ञापनाप्रदेशव्याख्याप्रभृतयष्टीकाः, समरादित्यकथा - षड्दर्शनसमुच्चय- लोकतत्त्वनिर्णयप्रमुखाः प्रकरणग्रन्थाश्च विरहरहितानां दृष्टान्ता इति । तदेवमेषामत्यद्भुतप्रतिभाप्राग्भारजुषां प्रभुहरिभद्रसूरीणां सैद्धान्तिकशिरोमणितया, दार्शनिकाग्रगामितया, कविकुलनेतृतया च संजातबहुमानश्रद्धा बहवोप्याचार्या, दर्शनशास्त्रप्रवीणाः, कवयश्च स्वस्वप्रबन्धेषु एनान् विषयांकृत्य स्तुतिमौखर्यमादधुः । तथाहि - "सूर्यप्रकाश्यं क्व नु मण्डलं दिवः खद्योतकः क्वाऽस्य विभासनोद्यमी । क्व धीशगम्यं हरिभद्रसद्वचः क्वाऽधीरहं तस्य विभासनोद्यतः ॥ ३ ॥" “परहिताधाननिबिड निबद्धबुद्धिर्भगवान्सुगृहीतनामधेयः श्री हरिभद्रसूरिः" "नित्यं श्रीहरिभद्रसूरिगुरवो जीयासुरत्यद्भुतज्ञान श्रीसमलङ्कृताः सुविशदाचारप्रभाभासुराः । येषां वाक्प्रपया प्रसन्नतरया शीलाम्बुसंपूर्णया भव्यस्येह न कस्य कस्य विदधे चेतोमलक्षालनम् ॥१ ॥ (- जम्बूद्वीपसंग्रहणीटीकायां श्रीप्रभानन्दसूरयः) "उइयम्मि मिहिरि भदं सुदिट्टिणो होइ मग्गदंसणओ । तह हरिभद्दायरियम्मि मद्दा (द) यरियम्मि उदयमिए 23 ५६ " ( गणधर सार्धशतके श्रीजिनदत्तसूरयः) ११९. - कृत्वा प्रकरणमिदं प्राप्तं यत् कुशलमिह मया तेन । दुःखविरहाय भव्या लभन्तां जिनधर्मसंबोधिम् ॥ १२०. - याकिनीमहत्तराया रचिता एते तु धर्मपुत्रेण । हरिभद्राचार्येण भवविरहमिच्छता ।" १२१. - यस्मादेष शुद्धोऽनिदानो भवति भावितमतीनाम् । तस्मात् कुस्त सम्यग् यथा विरहो भवति कर्मणाम् ॥” १२२. – इत्यादिगुणसमेता भवविरहं प्राप्य परमपदम् । प्राप्ता अनन्तजीवास्तेषामनुमोदना मम ॥" १२३. - "उदिते मिहिरे भद्रं सुदृष्टेर्भवति मार्गदर्शनतः । तथा हरिभद्राचार्ये भद्रा (द) चरिते उदयमिते ॥५६॥" (- अष्टकटीकायां श्रीजिनेश्वरसूरयः) (-उपदेशपदवृत्तौ श्रीमुनिचन्द्रसूरयः) 11Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 ... 392