________________
:
“विरहशब्देन हरिभद्राचार्यकृतत्वं प्रकरणस्यावेदितम्, विरहाङ्कत्वाद् हरिभद्रसूरेरिति ।" पञ्चाशकवृत्तौ श्रीमदभयदेवसूरयोऽपि " इह च विरहशब्देन हरिभद्रचार्यकृतता प्रकरणस्य सूचिता, विरहाङ्कत्वात्तस्य ।" ललितविस्तरापञ्जिकायां मुनिचन्द्रसूरय :- "इह विरह इति याकिनीमहत्तरासूनोराचार्यहरिभद्रस्य" योगबिन्दुटीकायां तत्कर्तार :- "विरह इति च भगवतः श्रीहरिभद्रसूरेः प्रकरणाङ्कयोतकः” इति । प्रबन्धकोशे राजशेखरसूरयश्चं - "तत्प्रथमं याकिनीधर्मसूनुरिति हरिभद्रग्रन्थेष्वन्तेऽभूत्, १४४० पुनर्भवविरहः" इति । तत्र–“अष्टकाख्यं प्रकरणं कृत्वा यत्पुण्यमर्जितम् । विरहात्तेन पापस्य भवन्तु सुखिनो जनाः ॥" इत्यष्टकप्रकरणे,
" स तत्र दुःखविरहादत्यन्तसुखसंगतः । तिष्ठत्ययोगो योगीन्द्रवन्द्यस्त्रिजगदीश्वरः ॥” इति धर्मबिन्दौ
" कृत्वा यदर्जितं पुण्यं मयैनां शुभभावतः । तेनाऽस्तु सर्वसत्त्वानां मात्सर्यविरहः परः ॥” इति ललितविस्तरायाम्, " कृत्वा टीकामेनां यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद्गुणानुरागी भवतु लोकः ॥” इति पञ्चवस्तुकटीकायाम्, “कृत्वा प्रकरणमेतद्यदवाप्तं किञ्चिदिह मया कुशलम् । भवविरहबीजमनघं लभतां भव्यो जनस्तेन ॥” इति शास्त्रवार्तासमुच्चये, “योग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनान्वितैः । मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये ॥” इति योगदृष्टिसमुच्चये,
“एते प्रवचनतः खलु समुद्धृता मन्दमतिहितार्थं तु । आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः ॥” इति षोडशकप्रकरणे, "कृत्वा प्रकरणमेतद् यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद्गुणानुरागी भवतु लोकः ॥" इत्यमेकान्तजयपताकायाम्, “समुद्धत्यार्जितं पुण्यं यदेनं शुभभावतः । भवान्ध्यविरहात्तेन जनः स्ताद् योगलोचनः ॥” इति योगबिन्दौ, "वाणीसंदोहदे हे ! भवविरहवरं देहि मे देवि ! सारम्" इति संसारदावेति प्रसिद्धायां वीरस्तुतौ,
"काऊण पगरणमिणं पत्तं जं कुसलमिह मया तेणं । दुक्खविरहाए भव्वा लभंतु जिणधम्मसंबोधिं" ॥” इति धर्मसंग्रहण्याम्, "जाइणिमयहरिआए रइआ एए उ धम्मपुत्तेण । हरिभद्दायरिएणं भवविरहं इच्छमाणेणं 20 ।।" इत्युपदेशपदेषु,
"जम्हा एसो सुद्धो अनिआणो होइ भाविअमईणं । तम्हा करेह सम्मं जह विरहो होइ कम्माणं 21 ॥” इति पञ्चाशकप्रकरणे, "इच्चाइगुणसमेया भवविरह पाविऊण परमपयं । पत्ता अणंतजीवा तेसिमणुमोयणा मज्झ 22 ॥” इति संबोधप्रकरणे च । इत्यादीनि निदर्शनानि विरहशब्दलाञ्छितग्रन्थानाम् । विरहाङ्ककरणकारणं च हंस- परमहंसाख्यस्वविद्वच्छिष्यद्वयवियोगसूचनमिति । यदुक्तं प्रभावकचरित्रे -
"अतिशयहृदयाभिरामशिष्यद्वयविरहोर्मिभरेण तप्तदेहः ।
निजकृतिमिह संव्यधात्समस्तां विरहपदेन युतां सतां स मुख्यः ॥२०६॥ दशवैकालिकटीकाऽऽवश्यकवृत्ति - प्रज्ञापनाप्रदेशव्याख्याप्रभृतयष्टीकाः, समरादित्यकथा - षड्दर्शनसमुच्चय- लोकतत्त्वनिर्णयप्रमुखाः प्रकरणग्रन्थाश्च विरहरहितानां दृष्टान्ता इति ।
तदेवमेषामत्यद्भुतप्रतिभाप्राग्भारजुषां प्रभुहरिभद्रसूरीणां सैद्धान्तिकशिरोमणितया, दार्शनिकाग्रगामितया, कविकुलनेतृतया च संजातबहुमानश्रद्धा बहवोप्याचार्या, दर्शनशास्त्रप्रवीणाः, कवयश्च स्वस्वप्रबन्धेषु एनान् विषयांकृत्य स्तुतिमौखर्यमादधुः । तथाहि
-
"सूर्यप्रकाश्यं क्व नु मण्डलं दिवः खद्योतकः क्वाऽस्य विभासनोद्यमी । क्व धीशगम्यं हरिभद्रसद्वचः क्वाऽधीरहं तस्य विभासनोद्यतः ॥ ३ ॥"
“परहिताधाननिबिड निबद्धबुद्धिर्भगवान्सुगृहीतनामधेयः श्री हरिभद्रसूरिः" "नित्यं श्रीहरिभद्रसूरिगुरवो जीयासुरत्यद्भुतज्ञान श्रीसमलङ्कृताः सुविशदाचारप्रभाभासुराः । येषां वाक्प्रपया प्रसन्नतरया शीलाम्बुसंपूर्णया भव्यस्येह न कस्य कस्य विदधे चेतोमलक्षालनम् ॥१ ॥
(- जम्बूद्वीपसंग्रहणीटीकायां श्रीप्रभानन्दसूरयः) "उइयम्मि मिहिरि भदं सुदिट्टिणो होइ मग्गदंसणओ । तह हरिभद्दायरियम्मि मद्दा (द) यरियम्मि उदयमिए 23 ५६ " ( गणधर सार्धशतके श्रीजिनदत्तसूरयः)
११९. - कृत्वा प्रकरणमिदं प्राप्तं यत् कुशलमिह मया तेन । दुःखविरहाय भव्या लभन्तां जिनधर्मसंबोधिम् ॥ १२०. - याकिनीमहत्तराया रचिता एते तु धर्मपुत्रेण । हरिभद्राचार्येण भवविरहमिच्छता ।"
१२१. - यस्मादेष शुद्धोऽनिदानो भवति भावितमतीनाम् । तस्मात् कुस्त सम्यग् यथा विरहो भवति कर्मणाम् ॥” १२२. – इत्यादिगुणसमेता भवविरहं प्राप्य परमपदम् । प्राप्ता अनन्तजीवास्तेषामनुमोदना मम ॥" १२३. - "उदिते मिहिरे भद्रं सुदृष्टेर्भवति मार्गदर्शनतः । तथा हरिभद्राचार्ये भद्रा (द) चरिते उदयमिते ॥५६॥"
(- अष्टकटीकायां श्रीजिनेश्वरसूरयः) (-उपदेशपदवृत्तौ श्रीमुनिचन्द्रसूरयः)
11