________________
" श्रीसिद्धसेन - हरिभद्रमुखाः प्रसिद्धास्ते सूरयो मयि भवन्तु कृतप्रसादाः ।
येषां विमृश्य सततं विविधान् निबन्धान् शास्त्रं चिकीर्षति तनुप्रतिभोऽपि मादृक् ॥८ ॥ ( - स्याद्वादरत्नाकरे श्रीवादिदेवसूरयः) "हारिभद्रं वचः क्वेदमतिगम्भीरपेशलम् । क्व चाहं जड धीरेष स्वल्पशास्त्रकृतश्रमः ॥”
( - धर्मसंग्रहणीटीकायां श्रीमलयगिरिसूरयः)
"मतिबौद्धाः ! शुद्धा प्रभवति कथं साऽद्य भवतां विचारश्चार्वाकाः ! प्रचरति कथं चारचतुरः । कृतर्कस्तर्कज्ञाः ! किमपि स कथं तर्कयति वः सति स्याद्वादे श्रीप्रकटहरिभद्रोक्तवचने ॥१॥ ग्रावग्रन्थिप्रमाथिप्रकटपटुरणत्कारवाग्भारतुष्टप्रेङ्खद्दर्पिष्ठदुष्टप्रमदवशभुजास्फालनोत्तालबालाः ।
यद् दृष्ट्वा मुक्तवन्तः स्वयमतनुमदं वादिनो हारिभद्रं तद् गम्भीरप्रसन्नं न हरति हृदयं भाषितं कस्य जन्तोः ॥ २ ॥ यथास्थितार्हन्मतवस्तुवेदिने निराकृताऽशेषविपक्षवादिने । विदग्धमध्यस्थनृमूढतारये नमोऽस्तु तस्मै हरिभद्रसूरये 24 ॥३॥”
(श्रीयक्षदेवमुनिः)
" श्रीहरिभद्रसूरीन्द्रः पारीन्द्र इव विश्रुतः । परतीर्थ्यास्त्रासयित्वा मृगानिव गुरुर्जयी ॥१॥" (- कश्चित्) “हारिभद्रवचः क्वेदमतिगम्भीरपेशलम् । क्वाचाऽहं शास्त्रलेशज्ञस्तादृक्तन्त्राऽविशारदः ॥२॥ येषां गिरं समुपजीव्य सुसिद्धविद्यामस्मिन् सुखेन गहनेऽपि पथि प्रवृत्तः । ते सूरयो मयि भवन्तु कृतप्रसादाः श्रीसिद्धसेन - हरिभद्रमुखाः सुखाय ॥३॥”
(शास्त्रवार्तासमुच्चयवृत्तौ श्रीयशोविजयोपाध्यायाः)
" सिरिपायलित्तकइ-बप्पभट्टि - हरिभद्दसूरिपमुहाणं । किं भणिमो उणज्ज (अज्ज) वि न गुणेहिं समो जगे सुकई25 ||" (- भुवनसुन्दरीकथायां श्रीविजयसिंहसूरयः) "भदं सिरिहरिभदस्स सूरिणो जस्स भुवणरंगम्मि । वाणी विसट्टरसभावमंथरा नच्चए सुइरं 126 ॥” (- सुपार्श्वनाथचरिते श्रीलक्ष्मणगणयः) "ये च पूर्वं पादलिप्त - शातवाहन - षट्कर्णक- विमलाङ्क - देवगुप्त - बन्दिक - प्रभञ्जन - श्रीहरिभद्रसूरिप्रभृतयो महाकवयो बभूवुः, येषामेकैकोऽपि प्रबन्धोऽद्यापि सहृदयानां चेतांस्यनुहरति, ततः कथं तेषां महाकवीनां कवित्वतत्त्वपदवीमनुभवामः । ( - संस्कृतकुवलयमालायां श्रीरत्नप्रभसूरयः) तदेवमेषामनन्यसाधरणेनाऽवदातचरितलेशेन श्रुतिपथमायातेनैवेयमभ्युदेति तत्सत्तासमयादिजिज्ञासावृत्तिः, तदुपशमश्च न तदुचितप्रमाणयुक्तिप्रतिपादनमन्तरेणोपजायते इति किंचिदिहोपन्यस्तुं योग्यम् ।
हरिभद्रसूरीणां हि सत्तासमयं प्रत्यपि नैकमताः सर्वेऽपि विद्वांसः । केचित् सिद्धर्षेर्दीक्षागुरुत्वं तत्समकालभावित्वं च व्याहरन्तो विक्रमस्य नवम-दशमयोरब्दशतयोर्मध्यभागमेतत्सत्ताधारत्वेन व्यञ्जयन्ति । अन्ये च स्पष्टभावेन षष्ठशतकभवत्वमेषामङ्गीकुर्वते। तत्राद्यानामिमे प्रवादाः
(१) राजशेखरसूरीणां प्रबन्धकोशे - " अत्रान्तरे श्रीमालपुरे कोऽपि धनी श्रेष्ठी जैनः चातुर्मासके सपरिकरो देवतायतनं व्रजन् सिद्धाख्यं राजपुत्रं द्यूतकारं युवानं देयकनकपदे निर्दयैर्द्यूतकारैर्गर्तायां निक्षिप्तं कृपया तद्देयं दत्त्वाऽमोचयत्, गृहमानीय अभोजयत्, अपाठयत्, पर्यणाययत् । माता प्रागप्यासीत् पृथग्गृहमण्डनिका । श्रेष्ठिप्रसादाद्धनम् । सिद्धो रात्रौ अतिकाले एति, लेख्यकलेखलेखनपरवशत्वात् । श्वश्रु- स्नुषे अतिनिर्विण्णे, अतिजागरणात् । वध्वा श्वश्रुरुक्ता मातः ! पुत्रं तथा बोधय यथा निशि सकाले एति । मात्रा उक्तः स वत्स ! निशि शीघ्रमेहि, यः कालज्ञः स सर्वज्ञः । सिद्धः प्राह मातः ! येन स्वामिनाऽहं सर्वस्वदानेन जीवितव्यदानेन च समुद्धृतः तदादेशं कथं न कुर्वे ! तूष्णीकेन स्थिता माता । अन्यदाऽऽलोचितं श्वश्रुस्नुषाभ्याम् - अस्य चिरादागतस्य निशि द्वारं नोद्घाटयिष्यावः । द्वितीय अतिचिराद् द्वारमागतः स कटं (कपाटं) खटखटापयति । ते तु न ब्रूतः । तेन क्रुद्धेन गदितम् - किमिति द्वारं नोद्घाटयेथाम् ? । ताभ्यां
१२४. –संगमसिंहसूरिसमीपे नागपुरे श्रुताध्ययनायाऽऽगतो जयसिंहसूरिशिष्यो यक्षदेवनामा कश्चिन्मुनिः श्रीहरिभद्रसूरिकृताऽनेकान्तजयपताकादिन्यायग्रन्थनिचयं विलोक्य जातविस्मयो हरिभद्रस्तुतिरूपं काव्यत्रितयमिदं विनिर्ममे, इदं च तदग्रतो निबद्धेनामुना काव्यद्वयेनाधिगम्यते, तथाहि
" सितपटहारिभद्रं ग्रन्थसंदर्भदर्भ विदितमभयदेवं निष्कलङ्काऽकलङ्कम् । सुगतमतमथाऽलङ्कारपर्यन्तमुच्चैस्त्रिविधमपि च तर्क वेत्ति यः सांख्य- भट्टौ ॥४॥
श्रीमत्संगमसिंहसूरि सुकवेस्तस्यांहिसेवापरः शिष्यः श्रीजयसिंहसूरिविदुषस्त्रैलोक्यचूडामणेः ।
यः श्रीनागपुरे (र) प्रसिद्धसुपुरस्थायी श्रुतायागतः श्लोकान् पञ्च चकार सारजडिमाऽसौ यक्षदेवो मुनिः ॥५॥” १२५. –“श्रीपादलिप्तकवि - बप्पभट्टि - हरिभद्रसूरिप्रमुखाणाम् । किं भणामः पुनरद्यापि न गुणैः समो जगति सुकविः ॥" १२६. –“भद्रं श्रीहरिभद्रस्य सूरेर्यस्य भुवनरङ्गे । वाणी विकसितरसभावमन्थरा नृत्यति सुचिरम् ॥”
12